०४२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ उप नः सुतम्’ इति नवर्चं चतुर्थं सूक्तं वैश्वामित्रं गायत्रमैन्द्रम् ।’ उप नः’ इत्यनुक्रमणिका । पूर्वसूक्तेन सहोक्तो विनियोगः ॥

Jamison Brereton

42 (276)
Indra
Viśvāmitra Gāthina
9 verses: gāyatrī
Another straightforward hymn centered on the soma-drinking, very similar to the immediately preceding III.41.

Jamison Brereton Notes

Indra

01 उप नः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓प नः सुत᳓म् आ᳓ गहि
सो᳓मम् इन्द्र ग᳓वाशिरम्
ह᳓रिभ्यां य᳓स् ते अस्मयुः᳓

02 तमिन्द्र मदमा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓म् इन्द्र म᳓दम् आ᳓ गहि
बर्हिष्ठां᳓ ग्रा᳓वभिः सुत᳓म्
कुवि᳓न् नु᳓ अस्य तृप्ण᳓वः

03 इन्द्रमित्था गिरो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रम् इत्था᳓ गि᳓रो म᳓म
अ᳓छागुर् इषिता᳓ इतः᳓
आवृ᳓ते सो᳓मपीतये

04 इन्द्रं सोमस्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रं सो᳓मस्य पीत᳓ये
स्तो᳓मैर् इह᳓ हवामहे
उक्थे᳓भिः कुवि᳓द् आग᳓मत्

05 इन्द्र सोमाः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्र सो᳓माः सुता᳓ इमे᳓
ता᳓न् दधिष्व शतक्रतो
जठ᳓रे वाजिनीवसो

06 विद्मा हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

विद्मा᳓ हि᳓ त्वा धनंजयं᳓
वा᳓जेषु दधृषं᳓ कवे
अ᳓धा ते सुम्न᳓म् ईमहे

07 इममिन्द्र गवाशिरम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इम᳓म् इन्द्र ग᳓वाशिरं
य᳓वाशिरं च नः पिब
आग᳓त्या वृ᳓षभिः सुत᳓म्

08 तुभ्येदिन्द्र स्व - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तु᳓भ्ये᳓द् इन्द्र स्व᳓ ओकि᳓ये
सो᳓मं चोदामि पीत᳓ये
एष᳓ रारन्तु ते हृदि᳓

09 त्वां सुतस्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तुवां᳓ सुत᳓स्य पीत᳓ये
प्रत्न᳓म् इन्द्र हवामहे
कुशिका᳓सो अवस्य᳓वः