०४१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘आ तू न इन्द्र’ इति नवर्चं तृतीयं सूक्तं वैश्वामित्रं गायत्रमैन्द्रम् । ‘आ तू नः’ इत्यनुक्रान्तम् । अतिरात्रे द्वितीये पर्याये ब्राह्मणाच्छंसिशस्त्रे एतदादिके द्वे सूक्ते । सूत्रितं च— आ तू न इन्द्र मद्र्यगिति सूक्ते ’ ( आश्व. श्रौ. ६. ४ ) इति ।।

Jamison Brereton

41 (275)
Indra
Viśvāmitra Gāthina
9 verses: gāyatrī
An elementary hymn, focused entirely on the ritual and on Indra’s journey to it and participation in it. In this it is reminiscent of III.35, though in a different meter, and

like that hymn this one entirely lacks praise of the god, reference to his past deeds, and prayers for his gifts and aid.

Jamison Brereton Notes

Indra

01 आ तू - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ तू᳓ न इन्द्र मद्रि᳓अग्
घुवानः᳓ सो᳓मपीतये
ह᳓रिभ्यां याहि अद्रिवः

02 सत्तो होता - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सत्तो᳓ हो᳓ता न ऋत्वि᳓यस्
तिस्तिरे᳓ बर्हि᳓र् आनुष᳓क्
अ᳓युज्रन् प्रात᳓र् अ᳓द्रयः

03 इमा ब्रह्म - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इमा᳓ ब्र᳓ह्म +++(=मन्त्रान्)+++ ब्रह्म-वाहः
क्रिय᳓न्त आ᳓ बर्हिः᳓ सीद
वीहि᳓ शूर पुरोळा᳓शम् ॥

04 रारन्धि सवनेषु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

रारन्धि᳓ स᳓वनेषु ण
एषु᳓ स्तो᳓मेषु वृत्रहन्
उक्थे᳓षु इन्द्र गिर्वणः

05 मतयः सोमपामुरुम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मत᳓यः सोमपा᳓म् उरुं᳓
रिह᳓न्ति श᳓वसस् प᳓तिम्
इ᳓न्द्रं वत्सं᳓ न᳓ मात᳓रः

06 स मन्दस्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ मन्दस्वा हि᳓ अ᳓न्धसो
रा᳓धसे तनु᳓वा महे᳓
न᳓ स्तोता᳓रं निदे᳓ करः

07 वयमिन्द्र त्वायवो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वय᳓म् इन्द्र तुवाय᳓वो
हवि᳓ष्मन्तो जरामहे
उत᳓ त्व᳓म् अस्मयु᳓र् वसो

08 मारे अस्मद्वि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मा᳓रे᳓ अस्म᳓द् वि᳓ मुमुचो
ह᳓रिप्रिय अर्वा᳓ङ् याहि
इ᳓न्द्र स्वधावो म᳓त्स्वेह᳓

09 अर्वाञ्चं त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अर्वा᳓ञ्चं त्वा सुखे᳓ र᳓थे
व᳓हताम् इन्द्र केशि᳓ना
घृत᳓स्नू बर्हि᳓र् आस᳓दे