०४०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ।।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ।।

अथ तृतीयाष्टकस्य तृतीयाध्याय आरभ्यते । ‘ इन्द्र त्वा ’ इति नवर्चं द्वितीयं सूक्तं वैश्वामित्रं गायत्रमैन्द्रम् । तथा चानुक्रान्तम्-..’ इन्द्र त्वा गायत्रं हि ’ इति । अग्निष्टोमे प्रातःसवने ब्राह्मणाच्छंसिशस्त्रे इदं सूक्तम् । सूत्रितं च— इन्द्र त्वा वृषभमुद्घेदभीति तिसः ’ ( आश्व. श्रौ. ५, १० ) इति । आद्या प्रातःसवने ब्राह्मणाच्छंसिनः प्रस्थितयाज्या । सूत्रितं च-.’ इन्द्र त्वा वृषभं मरुतो यस्य’ ( आश्व. श्रौ. ५. ५) इति ॥

Jamison Brereton

40 (274)
Indra
Viśvāmitra Gāthina
9 verses: gāyatrī
This simple hymn hardly deviates from the theme of Indra’s soma-drinking, a concentration that is reflected in the repetitive elements: the vocative índra (gener ally verse- or pāda-initial) in seven of the nine verses (1–6, 9) and the collocation “pressed soma” in four verses (1–2, 4–5) and split over another two (6/7). Note also the conjoined expressions “nearby and afar” (vs. 8) and “afar and nearby” (vs. 9), together forming a “magic square.”

Jamison Brereton Notes

Indra

01 इन्द्र त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्र त्वा वृषभं᳓ वयं᳓
सुते᳓ सो᳓मे हवामहे
स᳓ पाहि म᳓ध्वो अ᳓न्धसः

02 इन्द्र क्रतुविदम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्र क्रतुवि᳓दं सुतं᳓
सो᳓मं हर्य पुरुष्टुत
पि᳓बा᳓ वृषस्व ता᳓तृपिम्

03 इन्द्र प्र - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्र प्र᳓ णो धिता᳓वानं
यज्ञं᳓ वि᳓श्वेभिर् देवे᳓भिः
तिर᳓ स्तवान विश्पते

04 इन्द्र सोमाः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्र सो᳓माः सुता᳓ इमे᳓
त᳓व प्र᳓ यन्ति सत्पते
क्ष᳓यं चन्द्रा᳓स इ᳓न्दवः

05 दधिष्वा जटरे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

दधिष्वा᳓ जठ᳓रे सुतं᳓
सो᳓मम् इन्द्र व᳓रेणियम्
त᳓व द्युक्षा᳓स इ᳓न्दवः

06 गिर्वणः पाहि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

गि᳓र्वणः पाहि᳓ नः सुत᳓म्
म᳓धोर् धा᳓राभिर् अज्यसे
इ᳓न्द्र त्वा᳓दातम् इ᳓द् य᳓शः

07 अभि द्युम्नानि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अभि᳓ द्युम्ना᳓नि वनि᳓न
इ᳓न्द्रं सचन्ते अ᳓क्षिता
पीत्वी᳓ सो᳓मस्य वावृधे

08 अर्वावतो न - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अर्वाव᳓तो न आ᳓ गहि
पराव᳓तश् च वृत्रहन्
इमा᳓ जुषस्व नो गि᳓रः

09 यदन्तरा परावतमर्वावतम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् अन्तरा᳓ पराव᳓तम्
अर्वाव᳓तं च हूय᳓से
इ᳓न्द्रेह᳓ त᳓त आ᳓ गहि