०३६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

इमामूष्वित्येकादशर्चं सप्तमं सूक्तं त्रैष्टुभमैंद्रं । अत्रानुक्रमणिका । इमामू षूपांत्यां घोरोऽपश्यत् सा निर्दहेच्छस्यमानेति श्रूयत इति । दशम्या आंगिरसो घोर ऋषिः शिष्टानां विश्वामित्रः ॥ अग्निष्टोमे माध्यंदिनसवनेऽच्छावाकशस्त्रे दशमीवर्जितमिमामू ष्विति सूक्तं । सूत्रितं च । इमामू ष्वित्युपोत्तमामुद्धरेत्सर्वत्र।आ०५.१६.। इति॥ पृष्ठ्याभिप्लवषडहयोर्मध्यंदिनसवनेऽच्छावाकशस्त्रे चातुर्विंशिकातिदिष्टस्याहीनसूक्तस्य स्थाने त्रीणि संपातसूक्तानि । तत्रोपोत्तमावर्जमेतत्प्रथमं सूक्तं । सूत्रितं च । इमामू ष्विच्छंति वा । आ° ७.५.। इति ॥

Jamison Brereton

36 (270)
Indra
Viśvāmitra Gāthina (1–9, 11) and Ghora Āṅgirasa (10)
11 verses: triṣṭubh
In contrast to the pared-down aesthetic of the immediately preceding hymn, this one, entirely devoted to Indra’s drinking of soma, presents a series of extreme images and striking turns of phrase. The emphasis is on Indra’s sheer size and capa ciousness when he drinks soma, and liquid images predominate: he is conceived of both as a vast container for liquid (vs. 4) and as the liquid itself (vss. 6, 8). These images of Indra’s vastness are deftly used as measures of his capacity to give to his human worshipers (e.g., vss. 5, 9, 10).

Jamison Brereton Notes

Indra

01 इमामू षु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इमा᳓म् ऊ षु᳓ प्र᳓भृतिं सात᳓ये धाः
श᳓श्वच्-छश्वद् ऊति᳓भिर् या᳓दमानः
सुते᳓-सुते वावृधे व᳓र्धनेभिर्
यः᳓ क᳓र्मभिर् मह᳓द्भिः सु᳓श्रुतो भू᳓त्

02 इन्द्राय सोमाः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्राय सो᳓माः प्रदि᳓वो वि᳓दाना
ऋभु᳓र् ये᳓भिर् वृ᳓षपर्वा वि᳓हायाः
प्रयम्य᳓मानान् प्र᳓ति षू᳓ गृभाय
इ᳓न्द्र पि᳓ब वृ᳓षधूतस्य वृ᳓ष्णः

03 पिबा वर्धस्व - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पि᳓बा व᳓र्धस्व त᳓व घा सुता᳓स
इ᳓न्द्र सो᳓मासः प्रथमा᳓ उते᳓मे᳓
य᳓था᳓पिबः पूर्वियाँ᳓ इन्द्र सो᳓माँ
एवा᳓ पाहि प᳓न्यो अद्या᳓ न᳓वीयान्

04 महाँ अमत्रो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

महाँ᳓ अ᳓मत्रो वृज᳓ने विरप्शि᳓
उग्रं᳓ श᳓वः पत्यते धृष्णु᳓ ओ᳓जः
ना᳓ह विव्याच पृथिवी᳓ चनइ᳓नं
य᳓त् सो᳓मासो ह᳓रिअश्वम् अ᳓मन्दन्

05 महाँ उग्रो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

महाँ᳓ उग्रो᳓ वावृधे वीरि᳓याय
समा᳓चक्रे वृषभः᳓ का᳓वियेन
इ᳓न्द्रो भ᳓गो वाजदा᳓ अस्य गा᳓वः
प्र᳓ जायन्ते द᳓क्षिणा अस्य पूर्वीः᳓

06 प्र यत्सिन्धवः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ य᳓त् सि᳓न्धवः प्रसवं᳓ य᳓था᳓यन्न्
आ᳓पः समुद्रं᳓ रथि᳓येव जग्मुः
अ᳓तश् चिद् इ᳓न्द्रः स᳓दसो व᳓रीयान्
य᳓द् ईं सो᳓मः पृण᳓ति दुग्धो᳓ अंशुः᳓

07 समुद्रेण सिन्धवो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

समुद्रे᳓ण सि᳓न्धवो या᳓दमाना
इ᳓न्द्राय सो᳓मं सु᳓षुतम् भ᳓रन्तः
अंशुं᳓ दुहन्ति हस्ति᳓नो भरि᳓त्रैर्
म᳓ध्वः पुनन्ति धा᳓रया पवि᳓त्रैः

08 ह्रदा इव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ह्रदा᳓ इव कुक्ष᳓यः सोमधा᳓नाः
स᳓म् ई विव्याच स᳓वना पुरू᳓णि
अ᳓न्ना य᳓द् इ᳓न्द्रः प्रथमा᳓ वि᳓ आ᳓श
वृत्रं᳓ जघन्वाँ᳓ अवृणीत सो᳓मम्

09 आ तू - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ तू᳓ भर, मा᳓किर् एत᳓त् प᳓रि ष्ठाद्
विद्मा᳓ हि᳓ त्वा व᳓सुपतिं व᳓सूनाम् ।
इ᳓न्द्र य᳓त् ते मा᳓हिनं द᳓त्रम्+++(=दातव्यं)+++ अ᳓स्त्य् -
अस्म᳓भ्यं त᳓द् +धर्यश्व प्र᳓ यन्धि

10 अस्मे प्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अस्मे᳓ प्र᳓ यन्धि मघवन्न् ऋजीषिन्न्
इ᳓न्द्र रायो᳓ विश्व᳓वारस्य भू᳓रेः
अस्मे᳓ शतं᳓ शर᳓दो जीव᳓से धा
अस्मे᳓ वीरा᳓ञ् छ᳓श्वत इन्द्र शिप्रिन्

11 शुनं हुवेम - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शुनं᳓ हुवेम मघ᳓वानम् इ᳓न्द्रम्
अस्मि᳓न् भ᳓रे नृ᳓तमं वा᳓जसातौ
शृण्व᳓न्तम् उग्र᳓म् ऊत᳓ये सम᳓त्सु
घ्न᳓न्तं वृत्रा᳓णि संजि᳓तं ध᳓नानाम्