०३५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

तिष्ठा हरी इत्येकादशर्चं षष्ठं सूक्तं वैश्वामित्रं त्रैष्टुभमैंद्रं । तिष्ठा हरी इत्यनुक्रमणिका ॥ अग्निष्टुति मरुत्वतीयशस्त्रे निविद्धानं सूक्तं । सूत्रितं च । तिष्ठा हरी यो जात एवेति मध्यंदिनः । आ° ९. ७.। इति ॥ इंद्राग्न्योः कुलायनाम्न्येकाहे ऽप्येतन्मरुत्वतीयनिविद्धानं । सूत्रितं च । तिष्ठा हरी तमु ष्टुहीति मध्यंदिनः । आ° ९. ७.। इति ॥ समूढे दशरात्रे तृतीये छंदोमे मरुत्वतीयशस्त्र एतत्सूक्तं । सूत्रितं च । तिष्ठा हरी प्र मंदिने इमा उ त्वेति मरुत्वतीयं । आ° ८. ७.। इति ॥ अतिरात्रे तृतीये पर्याये होतुः शस्त्रे परिहिते सत्याद्या तिष्ठा हरी इत्येषा शस्त्रयाज्या । सूत्रितं च । विश्वजिते तिष्ठा हरी रथ आ युज्यमानेति याज्या । आ° ६.४.। इति ॥

Jamison Brereton

35 (269)
Indra
Viśvāmitra Gāthina
11 verses: triṣṭubh
A simple hymn, entirely devoted to Indra’s journey to the sacrifice and his enjoy ment of it, mostly expressed in the imperative. The progress of the hymn is com pletely chronological, from the yoking of his pair of horses, through the journey, during which Indra is exhorted to pass by other sacrificers (vs. 5), and finally the arrival at the ritual ground, properly prepared, and the drinking of the soma. The mention of the Maruts in verses 7 and 9 suggests that the Midday Pressing, devoted to Indra and the Maruts jointly at least in Viśvāmitra circles, is the sacrifice in ques tion (see also, for example, III.32). There is also a rather charming concern for the welfare of Indra’s horses (vss. 3, 7).
In the context of R̥gvedic poetry what is striking are the absent elements. There is neither praise of the god honored nor any mention of his attributes or heroic deeds. (The sole exception is 9b, with its unelaborated allusion to the Maruts’ role in strengthening Indra and the alliance resulting therefrom.) Nor do we hear about the purpose of Indra’s soma-drinking—rousing him to perform heroic deeds either in the past or for our benefit now. Nor, despite the many imperatives, does the poet ask for any gifts or for aid of any sort. It is an extraordinarily focused hymn, and its apparent simplicity may result not from artlessness, but from careful pruning.

Jamison Brereton Notes

Indra

01 तिष्टा हरी - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ति᳓ष्ठा ह᳓री र᳓थ आ᳓ युज्य᳓माना
याहि᳓ वायु᳓र् न᳓ नियु᳓तो नो अ᳓छ
पि᳓बासि अ᳓न्धो अभि᳓सृष्टो अस्मे᳓
इ᳓न्द्र स्वा᳓हा ररिमा᳓ ते म᳓दाय

02 उपाजिरा पुरुहूताय - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓पाजिरा᳓ पुरुहूता᳓य स᳓प्ती
ह᳓री र᳓थस्य धूर्षु᳓ आ᳓ युनज्मि
द्रव᳓द् य᳓था स᳓म्भृतं विश्व᳓तश् चिद्
उ᳓पेमं᳓ यज्ञ᳓म् आ᳓ वहात इ᳓न्द्रम्

03 उपो नयस्व - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓पो नयस्व वृ᳓षणा तपुष्पा᳓
उते᳓म् अव त्वं᳓ वृषभ स्वधावः
ग्र᳓सेताम् अ᳓श्वा वि᳓ मुचेह᳓ शो᳓णा
दिवे᳓-दिवे सदृ᳓शीर् अद्धि धानाः᳓

04 ब्रह्मणा ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ब्र᳓ह्मणा ते ब्रह्मयु᳓जा युनज्मि
ह᳓री स᳓खाया सधमा᳓द आशू᳓
स्थिरं᳓ र᳓थं सुख᳓म् इन्द्राधिति᳓ष्ठन्
प्रजान᳓न् विद्वाँ᳓ उ᳓प याहि सो᳓मम्

05 मा ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मा᳓ ते ह᳓री वृ᳓षणा वीत᳓पृष्ठा
नि᳓ रीरमन् य᳓जमानासो अन्ये᳓
अतिआ᳓याहि श᳓श्वतो वयं᳓ ते
अ᳓रं सुते᳓भिः कृणवाम सो᳓मैः

06 तवायं सोमस्त्वमेह्यर्वाङ्छश्वत्तमम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓वायं᳓ सो᳓मस् तुव᳓म् ए᳓हि अर्वा᳓ङ्
छश्वत्तमं᳓ सुम᳓ना अस्य᳓ पाहि
अस्मि᳓न् यज्ञे᳓ बर्हि᳓षि आ᳓ निष᳓द्या
दधिष्वे᳓मं᳓ जठ᳓र इ᳓न्दुम् इन्द्र

07 स्तीर्णं ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स्तीर्णं᳓ ते बर्हिः᳓ सुत᳓ इन्द्र सो᳓मः
कृता᳓ धाना᳓ अ᳓त्तवे ते ह᳓रिभ्याम्
त᳓दोकसे पुरुशा᳓काय वृ᳓ष्णे
मरु᳓त्वते तु᳓भ्यं राता᳓ हवीं᳓षि

08 इमं नरः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इमं᳓ न᳓रः प᳓र्वतास् तु᳓भ्यम् आ᳓पः
स᳓म् इन्द्र गो᳓भिर् म᳓धुमन्तम् अक्रन्
त᳓स्याग᳓त्या सुम᳓ना ऋष्व पाहि
प्रजान᳓न् विद्वा᳓न् पथि᳓या अ᳓नु स्वाः᳓

09 याँ आभजो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

याँ᳓ आ᳓भजो मरु᳓त इन्द्र सो᳓मे
ये᳓ त्वा᳓म् अ᳓वर्धन्न् अ᳓भवन् गण᳓स् ते
ते᳓भिर् एतं᳓ सजो᳓षा वावशानो᳓
अग्नेः᳓ पिब जिह्व᳓या सो᳓मम् इन्द्र

10 इन्द्र पिब - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्र पि᳓ब स्वध᳓या चित् सुत᳓स्य
अग्ने᳓र् वा पाहि जिह्व᳓या यजत्र
अध्वर्यो᳓र् वा प्र᳓यतं शक्र ह᳓स्ताद्
धो᳓तुर् वा यज्ञं᳓ हवि᳓षो जुषस्व

11 शुनं हुवेम - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शुनं᳓ हुवेम मघ᳓वानम् इ᳓न्द्रम्
अस्मि᳓न् भ᳓रे नृ᳓तमं वा᳓जसातौ
शृण्व᳓न्तम् उग्र᳓म् ऊत᳓ये सम᳓त्सु
घ्न᳓न्तं वृत्रा᳓णि संजि᳓तं ध᳓नानाम्