०३४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

इंद्रः पूर्भिदित्येकादशर्चं पंचमं सूक्तं वैश्वामित्रं त्रैष्टुभमैंद्रं । अत्रानुक्रमणिका । इंद्रः पूर्भिदेकादशेति ॥ अग्निष्टोमे माध्यंदिनसवने ब्राह्मणाच्छंसिशस्त्र इंद्रः पूर्भिदिति सूक्तं । होत्रकाणामिति खंडे सूत्रितं । इंद्रः। पूर्भिदुदु ब्रह्माणि । आ° ५. १६.। इति ॥ पृष्ठ्याभिप्लवषडहयोः प्रथमेऽहनि माध्यंदिनसवने ब्राह्मणाच्छंसिशस्त्रे चातुर्विंशिकातिदिष्टस्याहीनसूक्तस्य स्थाने त्रीणि संपातसूक्तानि। तत्रेदं प्रथमं । इंद्रः पूर्भिद्य एक इद्यस्तिग्मगशृंगः । आ० ७.५.। इति ॥ उद्भिद्वलभिदोर्निष्केवल्य एतत्सूक्तं निविद्धानीयं । सूत्रितं च । इंद्र सोममिंद्रः पूर्भिदिति मध्यंदिनः । आ° ९.८.। इति ॥

Jamison Brereton

34 (268)
Indra
Viśvāmitra Gāthina
11 verses: triṣṭubh
The emphasis in this hymn, as often in Indra hymns, is on Indra’s victories and the gains he won not only for himself but also for gods and mortals. In several verses (esp. 3 and 6) Indra’s sheer power, reinforced by his backup troops, is contrasted with his control of clever tricks and artifice; both types of approach contribute to his success.
The underlying theme of victory, expressed in a variety of ways earlier in the hymn, becomes insistent in the numerous repetitions of the verb “win” (√san) in the last three verses before the refrain (vss. 8–10), which contain eight forms of the verb (including four forms of the perfect sasā́na in a single verse [9]); the root appears previously in the hymn only in the root noun compound svar-sán “winning the sun” in verse 4.
The poets’ role in spurring Indra to victory is mentioned several times at the beginning of the hymn (vss. 1–2), but is otherwise backgrounded; the poets’ task in the hymn is more to celebrate and praise (vss. 6, 7, 8) the god than to inspire him. In fact, it is Indra who grants inspiration to the poets (vs. 5), an action that precedes and makes possible their praises in verses 6–8.
One curious feature of the hymn is the presence of phraseology and imagery characteristic of the god Agni in 3cd and of fire-priests in 4ab. The point of contact is probably to be found in verse 4, where Indra is said to win the sun and make it shine, and to find the light, since the kindling of the ritual fire at dawn is associated with and often presented as the cause of the sunrise.

Jamison Brereton Notes

Indra

01 इन्द्रः पूर्भिदातिरद्दासमकैड़्र्विदद्वसुर्दयमानो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रः पूर्भि᳓द् आ᳓तिरद् दा᳓सम् अर्कइ᳓र्
विद᳓द्वसुर् द᳓यमानो वि᳓ श᳓त्रून्
ब्र᳓ह्मजूतस् तनु᳓वा वावृधानो᳓
भू᳓रिदात्र आ᳓पृणद् रो᳓दसी उभे᳓

02 मखस्य ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मख᳓स्य ते तविष᳓स्य प्र᳓ जूति᳓म्
इ᳓यर्मि वा᳓चम् अमृ᳓ताय भू᳓षन्
इ᳓न्द्र क्षितीना᳓म् असि मा᳓नुषीणां
विशां᳓ दइ᳓वीनाम् उत᳓ पूर्वया᳓वा

03 इन्द्रो वृत्रमवृणोच्छर्धनीतिः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रो वृत्र᳓म् अवृणोच् छ᳓र्धनीतिः
प्र᳓ मायि᳓नाम् अमिनाद् व᳓र्पणीतिः
अ᳓हन् वि᳓अंसम् उश᳓धग् व᳓नेषु
आवि᳓र् धे᳓ना अकृणोद् रामिया᳓णाम्

04 इन्द्रः स्वर्षा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रः सुवर्षा᳓ जन᳓यन्न् अ᳓हानि
जिगा᳓योशि᳓ग्भिः पृ᳓तना अभिष्टिः᳓
प्रा᳓रोचयन् म᳓नवे केतु᳓म् अ᳓ह्नाम्
अ᳓विन्दज् ज्यो᳓तिर् बृहते᳓ र᳓णाय

05 इन्द्रस्तुजो बर्हणा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रस् तु᳓जो बर्ह᳓णा आ᳓ विवेश
नृव᳓द् द᳓धानो न᳓रिया पुरू᳓णि
अ᳓चेतयद् धि᳓य इमा᳓ जरित्रे᳓
प्रे᳓मं᳓ व᳓र्णम् अतिरच् छुक्र᳓म् आसाम्

06 महो महानि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

महो᳓ महा᳓नि पनयन्ति अस्य
इ᳓न्द्रस्य क᳓र्म सु᳓कृता पुरू᳓णि
वृज᳓नेन वृजिना᳓न् स᳓म् पिपेष
माया᳓भिर् द᳓स्यूँर् अभि᳓भूतिओजाः

07 युधेन्द्रो मह्ना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

युधे᳓न्द्रो मह्ना᳓ व᳓रिवश् चकार
देवे᳓भियः स᳓त्पतिश् चर्षणिप्राः᳓
विव᳓स्वतः स᳓दने अस्य ता᳓नि
वि᳓प्रा उक्थे᳓भिः कव᳓यो गृणन्ति

08 सत्रासाहं वरेण्यम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सत्रासा᳓हं व᳓रेणियं सहोदां᳓
ससवां᳓सं सु᳓वर् अप᳓श् च देवीः᳓
ससा᳓न यः᳓ पृथिवीं᳓ द्या᳓म् उते᳓मा᳓म्
इ᳓न्द्रम् मदन्ति अ᳓नु धी᳓रणासः

09 ससानात्याँ उत - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ससा᳓ना᳓त्याँ उत᳓ सू᳓र्यं ससान
इ᳓न्द्रः ससान पुरुभो᳓जसं गा᳓म्
हिरण्य᳓यम् उत᳓ भो᳓गं ससान
हत्वी᳓ द᳓स्यून् प्रा᳓रियं व᳓र्णम् आवत्

10 इन्द्रओषधीरसनोदहानि वनस्पतीँरसनोदन्तरिक्षम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्र ओ᳓षधीर् असनोद् अ᳓हानि
व᳓नस्प᳓तीँर् असनोद् अन्त᳓रिक्षम्
बिभे᳓द वलं᳓ नुनुदे᳓ वि᳓वाचो
अ᳓थाभवद् दमिता᳓भि᳓क्रतूनाम्

11 शुनं हुवेम - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शुनं᳓ हुवेम मघ᳓वानम् इ᳓न्द्रम्
अस्मि᳓न् भ᳓रे नृ᳓तमं वा᳓जसातौ
शृण्व᳓न्तम् उग्र᳓म् ऊत᳓ये सम᳓त्सु
घ्न᳓न्तं वृत्रा᳓णि संजि᳓तं ध᳓नानाम्