०३३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ प्र पर्वतानाम् ’ इति त्रयोदशर्चं चतुर्थं सूक्तम् । अत्रेयमनुक्रमणिका-’ प्र पर्वतानां सप्तोना संवादो नदीभिर्विश्वामित्रस्योत्तितीर्षोस्तत्र नदीवाक्यं चतुर्थीषष्ठ्यष्टमीदशम्यः षष्ठीसप्तम्योस्त्विन्द्रस्तुतिरन्त्यानुष्टुप् ’ इति । अत्र चतुर्थीषष्ठ्यष्टमीदशमीनां नदीवाक्यत्वान्नद्य एव ऋषयः शिष्टानां विश्वामित्रवाक्यत्वात्स एव ऋषिः । अन्त्यानुष्टुप् शिष्टास्त्रिष्टुभः । इन्द्रो देवता ।. यद्यपि षष्ठ्यां सप्तम्यां च विश्वामित्रो नद्यश्च स्तूयन्ते तथापीन्द्र एव देवता । सूक्तविनियोगो लैङ्गिकः ।। पुरा किल विश्वामित्रः पैजवनस्य सुदासो राज्ञः पुरोहितो बभूव । स च पौरोहित्येन लब्धधनः सर्वं धनमादाय विपाट्छुतुद्र्योः संभेदमाययौ अनुययुरितरे । अथोत्तितीर्षुर्विश्वामित्रः अगाधजले ते नद्यौ दृष्ट्वा उत्तरणार्थम् आद्याभिः तिसृभिस्तुष्टाव । ।

Jamison Brereton

33 (267)
Visvá ̄mitra and the Rivers
Viśvāmitra Gāthina / Rivers
13 verses: triṣṭubh, except anuṣṭubh 13
Although this hymn is found in the Indra collection, the Anukramaṇī identifies Indra as the dedicand only of verses 6–7, with the remainder divided between the rivers (Nadyas: 1–3, 5, 9, 11–13) and the poet himself, Viśvāmitra (4, 8, 10). After two opening verses describing the confluence of the Vipāś and Śutudrī rivers, this justly famous poem consists of a dialogue between those rivers and Viśvāmitra, who begs the rivers to stop in their course to allow the Bharata forces, under his patron, King Sudās (not named here, but see III.53.9), to cross. They accede to his request in return for his ensuring their future fame in his poetry, and the Bharatas cross successfully, as is announced in verse 12—after which the rivers are urged to refill themselves with water and flow again. That it is the poet who succeeds in temporarily stopping the rivers is yet another example of the power of properly formulated speech to control the physical world. The final verse (13), in a different meter, may be a magic spell, exemplifying the continuing belief in the power of the word by applying this legendary river crossing to a team in trouble at a ford.514 III.33

Jamison Brereton Notes

Viśvāmitra and the Rivers

Geldner

Der Dichter:

01 प्र पर्वतानामुशती - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र पर्व॑तानामुश॒ती उ॒पस्था॒दश्वे॑ इव॒ विषि॑ते॒ हास॑माने ।
गावे॑व शु॒भ्रे मा॒तरा॑ रिहा॒णे विपा॑ट् छुतु॒द्री पय॑सा जवेते ॥

02 इन्द्रेषिते प्रसवम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रे॑षिते प्रस॒वं भिक्ष॑माणे॒ अच्छा॑ समु॒द्रं र॒थ्ये॑व याथः ।
स॒मा॒रा॒णे ऊ॒र्मिभिः॒ पिन्व॑माने अ॒न्या वा॑म॒न्यामप्ये॑ति शुभ्रे ॥

03 अच्छा सिन्धुम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अच्छा॒ सिन्धुं॑ मा॒तृत॑मामयासं॒ विपा॑शमु॒र्वीं सु॒भगा॑मगन्म ।
व॒त्समि॑व मा॒तरा॑ संरिहा॒णे स॑मा॒नं योनि॒मनु॑ सं॒चर॑न्ती ॥

04 एना वयम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒ना व॒यं पय॑सा॒ पिन्व॑माना॒ अनु॒ योनिं॑ दे॒वकृ॑तं॒ चर॑न्तीः ।
न वर्त॑वे प्रस॒वः सर्ग॑तक्तः किं॒युर्विप्रो॑ न॒द्यो॑ जोहवीति ॥

05 रमध्वं मे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

रम॑ध्वं मे॒ वच॑से सो॒म्याय॒ ऋता॑वरी॒रुप॑ मुहू॒र्तमेवैः॑ ।
प्र सिन्धु॒मच्छा॑ बृह॒ती म॑नी॒षाव॒स्युर॑ह्वे कुशि॒कस्य॑ सू॒नुः ॥

06 इन्द्रो अस्माँ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रो॑ अ॒स्माँ अ॑रद॒द्वज्र॑बाहु॒रपा॑हन्वृ॒त्रं प॑रि॒धिं न॒दीना॑म् ।
दे॒वो॑ऽनयत्सवि॒ता सु॑पा॒णिस्तस्य॑ व॒यं प्र॑स॒वे या॑म उ॒र्वीः ॥

07 प्रवाच्यं शश्वधा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र॒वाच्यं॑ शश्व॒धा वी॒र्यं१॒॑ तदिन्द्र॑स्य॒ कर्म॒ यदहिं॑ विवृ॒श्चत् ।
वि वज्रे॑ण परि॒षदो॑ जघा॒नाय॒न्नापोऽय॑नमि॒च्छमा॑नाः ॥

08 एतद्वचो जरितर्मापि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒तद्वचो॑ जरित॒र्मापि॑ मृष्ठा॒ आ यत्ते॒ घोषा॒नुत्त॑रा यु॒गानि॑ ।
उ॒क्थेषु॑ कारो॒ प्रति॑ नो जुषस्व॒ मा नो॒ नि कः॑ पुरुष॒त्रा नम॑स्ते ॥

09 ओ षु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ओ षु स्व॑सारः का॒रवे॑ शृणोत य॒यौ वो॑ दू॒रादन॑सा॒ रथे॑न ।
नि षू न॑मध्वं॒ भव॑ता सुपा॒रा अ॑धोअ॒क्षाः सि॑न्धवः स्रो॒त्याभिः॑ ॥

10 आ ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ ते॑ कारो शृणवामा॒ वचां॑सि य॒याथ॑ दू॒रादन॑सा॒ रथे॑न ।
नि ते॑ नंसै पीप्या॒नेव॒ योषा॒ मर्या॑येव क॒न्या॑ शश्व॒चै ते॑ ॥

11 यदङ्ग त्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यद॒ङ्ग त्वा॑ भर॒ताः सं॒तरे॑युर्ग॒व्यन्ग्राम॑ इषि॒त इन्द्र॑जूतः ।
अर्षा॒दह॑ प्रस॒वः सर्ग॑तक्त॒ आ वो॑ वृणे सुम॒तिं य॒ज्ञिया॑नाम् ॥

12 अतारिषुर्भरता गव्यवः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अता॑रिषुर्भर॒ता ग॒व्यवः॒ समभ॑क्त॒ विप्रः॑ सुम॒तिं न॒दीना॑म् ।
प्र पि॑न्वध्वमि॒षय॑न्तीः सु॒राधा॒ आ व॒क्षणाः॑ पृ॒णध्वं॑ या॒त शीभ॑म् ॥

13 उद्व ऊर्मिः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उद्व॑ ऊ॒र्मिः शम्या॑ ह॒न्त्वापो॒ योक्त्रा॑णि मुञ्चत ।
मादु॑ष्कृतौ॒ व्ये॑नसा॒घ्न्यौ शून॒मार॑ताम् ॥