०३२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘इन्द्र सोमं सोमपते ’ इति सप्तदशर्चं तृतीयं सूक्तं वैश्वामित्रं त्रैष्टुभमैन्द्रम् । अनुक्रान्तं च– ‘इन्द्र सोमं त्र्यूना’ इति । पृष्ठ्याभिप्लवषडहयोर्द्वितीयेऽहनि मरुत्वतीये ‘इन्द्र सोमम्’ इतीदं सूक्तं निविद्धानीयम् । द्वितीयस्य’ इति खण्डे सूत्रितम्- इन्द्र सोमं या त ऊतिरवमेति मध्यंदिनः ’ ( आश्व. श्रौ. ७. ६.४ ) इति । गोसवविवधयोरपि मरुत्वतीयशस्त्र एतत्सूक्तम् । सूत्रितं च– इन्द्र सोममेतयामेति मध्यंदिनः’ ( आश्व. श्रौ. ९.८) इति । उद्भिद्वलभिदोरपि मरुत्वतीय एतत्सूक्तम् । सूत्रितं च – इन्द्र सोममिन्द्रः पूर्भिदिति मध्यंदिनः ’ ( आश्व. श्रौ. ९.८) इति ॥

Jamison Brereton

32 (266)
Indra
Viśvāmitra Gāthina
17 verses: triṣṭubh
The ritual application of this hymn is announced in the first verse: the Midday Pressing of soma, which in some ritual circles, as here, Indra shares with the Marut troop, his supporters in the Vr̥tra battle. Throughout the hymn invitations to drink soma at this rite are interspersed with praises of Indra’s cosmogonic deeds, espe
cially the slaying of Vr̥tra. In verses 9–10 Indra’s powers are ascribed to his origi nal drinking of soma immediately after birth, with the implicit suggestion that the sacrificers’ current offering of soma will revitalize those powers for the sacrificers’ benefit.
For the most part the language of this hymn is straightforward and even a bit monotonous, and there are a number of technical terms pertaining to the soma sacrifice (see, e.g., the types of soma in vs. 2). There are, however, several studied contrastive pairs (e.g., “vulnerable…invulnerable,” vs. 4; “goddesses…godless,” vs. 6; see also vss. 7, 11), as well as a few striking images, such as Indra “wearing the earth on his other hip” (vs. 11) as an indication of his greatness.

Jamison Brereton Notes

Indra

01 इन्द्र सोमम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॒ सोमं॑ सोमपते॒ पिबे॒मं माध्यं॑दिनं॒ सव॑नं॒ चारु॒ यत्ते॑ ।
प्र॒प्रुथ्या॒ शिप्रे॑ मघवन्नृजीषिन्वि॒मुच्या॒ हरी॑ इ॒ह मा॑दयस्व ॥

02 गवाशिरं मन्थिनमिन्द्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

गवा॑शिरं म॒न्थिन॑मिन्द्र शु॒क्रं पिबा॒ सोमं॑ ररि॒मा ते॒ मदा॑य ।
ब्र॒ह्म॒कृता॒ मारु॑तेना ग॒णेन॑ स॒जोषा॑ रु॒द्रैस्तृ॒पदा वृ॑षस्व ॥

03 ये ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ये ते॒ शुष्मं॒ ये तवि॑षी॒मव॑र्ध॒न्नर्च॑न्त इन्द्र म॒रुत॑स्त॒ ओजः॑ ।
माध्यं॑दिने॒ सव॑ने वज्रहस्त॒ पिबा॑ रु॒द्रेभिः॒ सग॑णः सुशिप्र ॥

04 त इन्न्वस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त इन्न्व॑स्य॒ मधु॑मद्विविप्र॒ इन्द्र॑स्य॒ शर्धो॑ म॒रुतो॒ य आस॑न् ।
येभि॑र्वृ॒त्रस्ये॑षि॒तो वि॒वेदा॑म॒र्मणो॒ मन्य॑मानस्य॒ मर्म॑ ॥

05 मनुष्वदिन्द्र सवनम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

म॒नु॒ष्वदि॑न्द्र॒ सव॑नं जुषा॒णः पिबा॒ सोमं॒ शश्व॑ते वी॒र्या॑य ।
स आ व॑वृत्स्व हर्यश्व य॒ज्ञैः स॑र॒ण्युभि॑र॒पो अर्णा॑ सिसर्षि ॥

06 त्वमपो यद्ध - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वम॒पो यद्ध॑ वृ॒त्रं ज॑घ॒न्वाँ अत्याँ॑ इव॒ प्रासृ॑जः॒ सर्त॒वाजौ ।
शया॑नमिन्द्र॒ चर॑ता व॒धेन॑ वव्रि॒वांसं॒ परि॑ दे॒वीरदे॑वम् ॥

07 यजाम इन्नमसा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यजा॑म॒ इन्नम॑सा वृ॒द्धमिन्द्रं॑ बृ॒हन्त॑मृ॒ष्वम॒जरं॒ युवा॑नम् ।
यस्य॑ प्रि॒ये म॒मतु॑र्य॒ज्ञिय॑स्य॒ न रोद॑सी महि॒मानं॑ म॒माते॑ ॥

08 इन्द्रस्य कर्म - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ व्र॒तानि॑ दे॒वा न मि॑नन्ति॒ विश्वे॑ ।
दा॒धार॒ यः पृ॑थि॒वीं द्यामु॒तेमां ज॒जान॒ सूर्य॑मु॒षसं॑ सु॒दंसाः॑ ॥

09 अद्रोघ सत्यम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अद्रो॑घ स॒त्यं तव॒ तन्म॑हि॒त्वं स॒द्यो यज्जा॒तो अपि॑बो ह॒ सोम॑म् ।
न द्याव॑ इन्द्र त॒वस॑स्त॒ ओजो॒ नाहा॒ न मासाः॑ श॒रदो॑ वरन्त ॥

10 त्वं सद्यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं स॒द्यो अ॑पिबो जा॒त इ॑न्द्र॒ मदा॑य॒ सोमं॑ पर॒मे व्यो॑मन् ।
यद्ध॒ द्यावा॑पृथि॒वी आवि॑वेशी॒रथा॑भवः पू॒र्व्यः का॒रुधा॑याः ॥

11 अहन्नहिं परिशयानमर्णओजायमानम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अह॒न्नहिं॑ परि॒शया॑न॒मर्ण॑ ओजा॒यमा॑नं तुविजात॒ तव्या॑न् ।
न ते॑ महि॒त्वमनु॑ भू॒दध॒ द्यौर्यद॒न्यया॑ स्फि॒ग्या॒३॒॑ क्षामव॑स्थाः ॥

12 यज्ञो हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य॒ज्ञो हि त॑ इन्द्र॒ वर्ध॑नो॒ भूदु॒त प्रि॒यः सु॒तसो॑मो मि॒येधः॑ ।
य॒ज्ञेन॑ य॒ज्ञम॑व य॒ज्ञियः॒ सन्य॒ज्ञस्ते॒ वज्र॑महि॒हत्य॑ आवत् ॥

13 यज्ञेनेन्द्रमवसा चक्रे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य॒ज्ञेनेन्द्र॒मव॒सा च॑क्रे अ॒र्वागैनं॑ सु॒म्नाय॒ नव्य॑से ववृत्याम् ।
यः स्तोमे॑भिर्वावृ॒धे पू॒र्व्येभि॒र्यो म॑ध्य॒मेभि॑रु॒त नूत॑नेभिः ॥

14 विवेष यन्मा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि॒वेष॒ यन् मा॑, धि॒षणा॑(=बुद्धिः) ज॒जान॒(←जन्)
(यत्) स्तवै॑ पु॒रा पार्या॒द्(=पारेभवात्) इन्द्र॒म् अह्नः॑ ।
अंह॑सो॒ यत्र॑ पी॒पर॒द्(=पारयति) यथा॑ नो
ना॒वेव॒ यान्त॑म् उ॒भये॑ (तीरस्था) हवन्ते

15 आपूर्णो अस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आपू॑र्णो अस्य क॒लशः॒ स्वाहा॒ सेक्ते॑व॒ कोशं॑ सिसिचे॒ पिब॑ध्यै ।
समु॑ प्रि॒या आव॑वृत्र॒न्मदा॑य प्रदक्षि॒णिद॒भि सोमा॑स॒ इन्द्र॑म् ॥

16 न त्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

न त्वा॑ गभी॒रः पु॑रुहूत॒ सिन्धु॒र्नाद्र॑यः॒ परि॒ षन्तो॑ वरन्त ।
इ॒त्था सखि॑भ्य इषि॒तो यदि॒न्द्रा दृ॒ळ्हं चि॒दरु॑जो॒ गव्य॑मू॒र्वम् ॥

17 शुनं हुवेम - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥