०३०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ।।

तृतीयेऽनुवाके नव सूक्तानि । तत्र ‘इच्छन्ति त्वा’ इति द्वाविंशत्यृचं प्रथमं सूक्तम्। तत्रेयमनुक्रमणिका- ‘इच्छन्ति द्व्यधिकैन्द्रम् ’ इति । मण्डलद्रष्टा विश्वामित्र ऋषिः । इन्द्रो देवता । अनुक्तत्वात् त्रिष्टुप् छन्दः । आभिप्लविके प्रथमेऽहनि दशरात्रे प्रथमेऽहनि च माध्यंदिने सवनेऽच्छावाकशस्त्रे अहीनसूक्तस्थाने द्वितीयमिदं संपातसूक्तम् । “ अभिप्लवपृष्ठ्याहानि ’ इति खण्डे सूत्रितम्-’ इमामू ष्विच्छन्ति त्वा शासद्वह्निरिति संपाताः ’ (आश्व. श्रौ. ७. ५.) इति । इन्द्रस्य वृत्रघ्नः संबन्धिनि पशौ ‘सहदानुम्’ इति वपायाः याज्या।’ सहदानुं पुरुहूत क्षियन्तं स्तुत इन्द्रो मघवा यद्ध वृत्रा’ ( आश्व. श्रौ. ३. ८.) इति सूत्रितम् । ‘स्वस्तये वाजिभिश्च ’ इत्येषैन्द्रे पशौ हदिषो याज्या । सूत्रितं च—’स्वस्तये वाजिभिश्च प्रणेतः शुची वो हव्या मरुतः शुचीनाम् ’ ( आश्व. श्रौ. ३, ७.) इति । शुनासीरीये वैकल्पिकस्येन्द्रस्य शुनस्य ’ शुनं हुवेम’ इत्यनुवाक्या। सूत्रितं च— शुनं हुवेम मघवानमिन्द्रमश्वायन्तो गव्यन्तो वाजयन्तः ’ (आश्व. श्रौ. २. २० ) इति ॥

Jamison Brereton

30 (264)
Indra
Viśvāmitra Gāthina
22 verses: triṣṭubh
This long hymn follows a familiar path. It begins with three verses expressing the sacrificers’ hopes that Indra will appear at their sacrifice and their worries about his continuing absence. There follow a number of verses (4–14) describing the powers and deeds of Indra, past and present, including the defeats of Vr̥tra (8) and Vala (10). This section ends with two verses (12–13) on the sun and dawn, showing that Indra orders the cosmos both spatially and temporally. The riddling verse 14, with the well-known paradox of the “cooked” milk contained within a “raw” cow, ends this section of the hymn by seeming to identify the dawn as cow with other images of plenty for which Indra is responsible; it picks up the cow imagery already found in verse 10 concerning the release of the cows from the Vala cave. Moreover, since sacrificial gifts are distributed at the dawn ritual, the mention of dawn sets the stage for the requests for gifts at the end of the hymn.
The next part of the hymn (15–17) begins abruptly with an address to Indra and a command to him: he is exhorted to come to the aid of the poet and his allies against enemies in violent battle. The final section (18–21) continues the direct requests to Indra, but here for material goods to be distributed peaceably at the sac
rifice. The final verse (before the refrain) applies the model of the Vala victory to the present, beseeching Indra to continue to break open cowpens and distribute cows. As often, the concerns of the whole hymn are subtly foreshadowed in the first verse, which both establishes the sacrificers as beset by hostile forces and their sac rifice as a site for beneficial exchange with the god.
The hymn is characterized by a number of hapaxes and by affective morphology, especially in the sections devoted to Indra’s opponents; the translations of some of these words are provisional.

Jamison Brereton Notes

Indra As noted in the published introduction, the hymn is characterized by hapaxes and very rare words, often with affective suffixes, and unusual phonology. These words include dhā́yuḥ (7a), gehyà- (7b), kúṇāru- (8b), píyāru- (8c), alātṛṇá- (10a), yāmakośá- (15a), salalū́ka- (17c).

01 इच्छन्ति त्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इछ᳓न्ति त्वा सोमिया᳓सः स᳓खायः
सुन्व᳓न्ति सो᳓मं द᳓धति प्र᳓यांसि
ति᳓तिक्षन्ते अभि᳓शस्तिं ज᳓नानाम्
इ᳓न्द्र त्व᳓द् आ᳓ क᳓श् चन᳓ हि᳓ प्रकेतः᳓

02 न ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓ ते दूरे᳓ परमा᳓ चिद् र᳓जांसि
आ᳓ तु᳓ प्र᳓ याहि हरिवो ह᳓रिभ्याम्
स्थिरा᳓य वृ᳓ष्णे स᳓वना कृते᳓मा᳓
युक्ता᳓ ग्रा᳓वाणः समिधाने᳓ अग्नउ᳓

03 इन्द्रः सुशिप्रो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रः सुशि᳓प्रो मघ᳓वा त᳓रुत्रो
महा᳓व्रातस् तुविकूर्मि᳓र् ऋ᳓घावान्
य᳓द् उग्रो᳓ धा᳓ बाधितो᳓ म᳓र्तियेषु
कु᳓व त्या᳓ ते वृषभ वीरि᳓याणि

04 त्वं हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ हि᳓ ष्मा च्याव᳓यन्न् अ᳓च्युतानि
ए᳓को वृत्रा᳓ च᳓रसि जि᳓घ्नमानः
त᳓व द्या᳓वापृथिवी᳓ प᳓र्वतासो
अ᳓नु व्रता᳓य नि᳓मितेव तस्थुः

05 उताभये पुरुहूत - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उता᳓भये पुरुहूत श्र᳓वोभिर्
ए᳓को दॄळ्ह᳓म्+ अवदो वृत्रहा᳓ स᳓न्
इमे᳓ चिद् इन्द्र रो᳓दसी अपारे᳓
य᳓त् संगृभ्णा᳓ मघवन् काशि᳓र् इ᳓त् ते

06 प्र सू - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ सू᳓ त इन्द्र प्रव᳓ता ह᳓रिभ्याम्
प्र᳓ ते व᳓ज्रः प्रमृण᳓न्न् एतु श᳓त्रून्
जहि᳓ प्रतीचो᳓ अनूचः᳓ प᳓राचो
वि᳓श्वं सत्यं᳓ कृणुहि विष्ट᳓म् अस्तु

07 यस्मै धायुरदधा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स्मै धा᳓युर् अ᳓दधा म᳓र्तियाय
अ᳓भक्तं चिद् भजते गेहि᳓यं सः᳓
भद्रा᳓ त इन्द्र सुमति᳓र् घृता᳓ची
सह᳓स्रदाना पुरुहूत रातिः᳓

08 सहदानुं पुरुहूत - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सह᳓दानुम् पुरुहूत क्षिय᳓न्तम्
अहस्त᳓म् इन्द्र स᳓म् पिणक् कु᳓णारुम्
अभि᳓ वृत्रं᳓ व᳓र्धमानम् पि᳓यारुम्
अपा᳓दम् इन्द्र तव᳓सा जघन्थ

09 नि सामनामिषिरामिन्द्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नि᳓ सामना᳓म् इषिरा᳓म् इन्द्र भू᳓मिम्
मही᳓म् अपारां᳓ स᳓दने ससत्थ
अ᳓स्तभ्नाद् द्यां᳓ वृषभो᳓ अन्त᳓रिक्षम्
अ᳓र्षन्तु आ᳓पस् त्व᳓येह᳓ प्र᳓सूताः

10 अलातृणो वल - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अलातृणो᳓ वल᳓ इन्द्र व्रजो᳓ गोः᳓
पुरा᳓ ह᳓न्तोर् भ᳓यमानो वि᳓ आर
सुगा᳓न् पथो᳓ अकृणोन् निर᳓जे गाः᳓
प्रा᳓वन् वा᳓णीः पुरुहूतं᳓ ध᳓मन्तीः

11 एको द्वे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए᳓को दुवे᳓ व᳓सुमती समीची᳓
इ᳓न्द्र आ᳓ पप्रौ पृथिवी᳓म् उत᳓ द्या᳓म्
उता᳓न्त᳓रिक्षाद् अभि᳓ नः समीक᳓
इषो᳓ रथीः᳓ सयु᳓जः शूर वा᳓जान्

12 दिशः सूर्यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दि᳓शः सू᳓र्यो न᳓ मिनाति प्र᳓दिष्टा
दिवे᳓-दिवे ह᳓रिअश्वप्रसूताः
सं᳓ य᳓द् आ᳓नळ् अ᳓ध्वन आ᳓द् इ᳓द् अ᳓श्वैर्
विमो᳓चनं कृणुते त᳓त् तु᳓ अस्य

13 दिदृक्षन्त उषसो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दि᳓दृक्षन्त उष᳓सो या᳓मन् अक्तो᳓र्
विव᳓स्वत्या म᳓हि चित्र᳓म् अ᳓नीकम्
वि᳓श्वे जानन्ति महिना᳓ य᳓द् आ᳓गाद्
इ᳓न्द्रस्य क᳓र्म सु᳓कृता पुरू᳓णि

14 महि ज्योतिर्निहितम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

म᳓हि ज्यो᳓तिर् नि᳓हितं वक्ष᳓णासु
आमा᳓ पक्वं᳓ चरति बि᳓भ्रती गउः᳓
वि᳓श्वं स्वा᳓द्म स᳓म्भृतम् उस्रि᳓यायां
य᳓त् सीम् इ᳓न्द्रो अ᳓दधाद् भो᳓जनाय

15 इन्द्र दृह्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्र दृ᳓ह्य यामकोशा᳓ अभूवन्
यज्ञा᳓य शिक्ष गृणते᳓ स᳓खिभ्यः
दुर्माय᳓वो दुरे᳓वा म᳓र्तियासो
निषङ्गि᳓णो रिप᳓वो ह᳓न्तुवासः

16 सं घोषः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सं᳓ घो᳓षः शृण्वे अवमइ᳓र् अमि᳓त्रैर्
जही᳓ नि᳓ एषु अश᳓निं त᳓पिष्ठाम्
वृश्चे᳓म् अध᳓स्ताद् वि᳓ रुजा स᳓हस्व
जहि᳓ र᳓क्षो मघवन् रन्ध᳓यस्व

17 उद्वृह रक्षः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓द् वृह र᳓क्षः सह᳓मूलम् इन्द्र
वृश्चा᳓ म᳓ध्यम् प्र᳓ति अ᳓ग्रं शृणीहि
आ᳓ की᳓वतः सललू᳓कं चकर्थ
ब्रह्मद्वि᳓षे त᳓पुषिं हेति᳓म् अस्य

18 स्वस्तये वाजिभिश्च - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सुअस्त᳓ये वाजि᳓भिश् च प्रणेतः
सं᳓ य᳓न् मही᳓र् इ᳓ष आस᳓त्सि पूर्वीः᳓
रायो᳓ वन्ता᳓रो बृहतः᳓ सियाम
अस्मे᳓ अस्तु भ᳓ग इन्द्र प्रजा᳓वान्

19 आ नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नो भर भ᳓गम् इन्द्र द्युम᳓न्तं
नि᳓ ते देष्ण᳓स्य धीमहि प्ररेके᳓
ऊर्व᳓ इव पप्रथे का᳓मो अस्मे᳓
त᳓म् आ᳓ पृण वसुपते व᳓सूनाम्

20 इमं कामम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इमं᳓ का᳓मम् मन्दया गो᳓भिर् अ᳓श्वैश्
चन्द्र᳓वता रा᳓धसा पप्र᳓थश् च
सुवर्य᳓वो मति᳓भिस् तु᳓भ्य° वि᳓प्रा
इ᳓न्द्राय वा᳓हः कुशिका᳓सो अक्रन्

21 आ नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नो गोत्रा᳓ दर्दृहि गोपते गाः᳓
स᳓म् अस्म᳓भ्यं सन᳓यो यन्तु वा᳓जाः
दिव᳓क्षा ऽसि° वृषभ सत्य᳓शुष्मो
अस्म᳓भ्यं सु᳓ मघवन् बोधि गोदाः᳓

22 शुनं हुवेम - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शुनं᳓ हुवेम मघ᳓वानम् इ᳓न्द्रम्
अस्मि᳓न् भ᳓रे नृ᳓तमं वा᳓जसातौ
शृण्व᳓न्तम् उग्र᳓म् ऊत᳓ये सम᳓त्सु
घ्न᳓न्तं वृत्रा᳓णि संजि᳓तं ध᳓नानाम्