०२९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ अस्तीदम्’ इति षोडशर्चं सप्तदशं सूक्तं वैश्वामित्रम् । अत्रानुक्रमणिका - अस्तीदं षोळशाद्याचतुर्थीदशमीद्वादश्योऽनुष्टुभः षष्ठ्येकादश्युपान्त्ये च जगत्यः पञ्चम्यृत्विग्भ्यो वा ’ इति । आद्याचतुर्थीदशमीद्वादश्योऽनुष्टुभः षष्ठ्येकादश्युपान्त्ये च जगत्यः षष्टष्ठ्येकादशी चतुर्दशी पञ्चदशी च जगत्यः। शिष्ट अष्टौ त्रिष्टुभः । पञ्चमी मन्थता नरः’ इत्येषा ऋत्विग्देवताकाग्निदेवताका वा । शिष्टा अग्निदेवताकाः । सूक्तविनियोगो लैङ्गिकः । वरुणप्रघासेषु अग्निप्रणयने ’ इळायास्त्वा पदे ’ इत्येषा । सूत्रितं च- ‘ इळायास्त्वा पदे वयमग्ने विश्वेभिः स्वनीक देवैरित्यर्धर्च आरमेत् ’ (आश्व. श्रौ. २. १७) इति । तत्रैव अग्निप्रणयने उत्तरवेद्यामग्नौ स्थापिते सति सीद होतः’ इत्येषा। ‘ निहितेऽग्नौ सीद होतः स्व उ लोके चिकित्वान् ’ ( आश्व. श्रौ. २. १७) इति सूत्रितम् । अरण्यामग्निसमारोपणे ‘अयं ते योनिः’ इत्येषा । सूत्रितं च - अयं ते योनिर्ऋत्विय इत्यरणी गार्हपत्ये प्रतितपेत्पाणी वा’ ( आश्व. श्रौ. ३. १० ) इति ॥

Jamison Brereton

29 (263)
Agni
Viśvāmitra Gāthina
16 verses: triṣṭubh, except anuṣṭubh 1, 4, 10, 12; jagatī 6, 11, 14–15
This hymn was composed to accompany the creation of a new fire for the sacrifice. This fire was created through friction using a fire drill that consisted of two pieces of wood. The upper fire-churning stick was held vertically, with one end in a recessed area in the lower piece of wood, which was horizontal. Wood chips were placed around the recessed area on the lower plank. The upper stick was then rotated back and forth, like a churn. In the later ritual this is done by wrapping a rope around the upper stick and pulling on one side and then the other to make the stick rotate back and forth. Eventually, enough heat was generated so that the wood chips caught fire.
This process of churning out the fire was regularly identified in the R̥gvedic hymns with sexual intercourse, and this repeated image presents the upper fire-churning stick as the father, with phallic overtones especially in verse 1, and the lower fire-churning stick as the mother of fire. Another theme that runs throughout the hymn, and again a common one in Agni hymns, is the idea that Agni is born as a priest of the sacrifice, who carries the oblations (vss. 4, 7) and offers the sacrifice (vs. 8) and who is a sage poet (vss. 5, 12) and a Hotar (vss. 8, 16) in the company of the seven Hotars (vs. 14), the seven priests of the rite. The priests kindling Agni are named in verse 15: they are the Kuśikas, whose knowledge and ability to formulate the truth about Agni the hymn accentuates.

01 अस्तीदमधिमन्थनमस्ति प्रजननम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓स्तीद᳓म् अधिम᳓न्थनम्
अ᳓स्ति प्रज᳓ननं कृत᳓म्
एतां᳓ विश्प᳓त्नीम् आ᳓ भर
अग्नि᳓म् मन्थाम पूर्व᳓था

02 अरण्योर्निहितो जातवेदा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अर᳓णियोर् नि᳓हितो जात᳓वेदा
ग᳓र्भ इव सु᳓धितो गर्भि᳓णीषु
दिवे᳓-दिव ई᳓डियो जागृव᳓द्भिर्
हवि᳓ष्मद्भिर् मनुषि᳓येभिर् अग्निः᳓

03 उत्तानायामव भरा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उत्ताना᳓याम् अ᳓व भरा चिकित्वा᳓न्
सद्यः᳓ प्र᳓वीता वृ᳓षणं जजान
अरुष᳓स्तूपो रु᳓शद् अस्य पा᳓ज
इ᳓ळायास् पुत्रो᳓ वयु᳓ने ऽजनिष्ट

04 इळायास्त्वा पदे - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓ळायास् त्वा पदे᳓ वयं᳓
ना᳓भा पृथिविया᳓ अ᳓धि
जा᳓तवेदो नि᳓ धीमहि
अ᳓ग्ने हव्या᳓य वो᳓ळ्हवे

05 मन्थता नरः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

म᳓न्थता नरः कवि᳓म् अ᳓द्वयन्तम्
प्र᳓चेतसम् अमृ᳓तं सुप्र᳓तीकम्
यज्ञ᳓स्य केतु᳓म् प्रथम᳓म् पुर᳓स्ताद्
अग्निं᳓ नरो जनयता सुशे᳓वम्

06 यदी मन्थन्ति - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓दी म᳓न्थन्ति बाहु᳓भिर् वि᳓ रोचते
अ᳓श्वो न᳓ वाजी᳓ अरुषो᳓ व᳓नेषु आ᳓
चित्रो᳓ न᳓ या᳓मन् अश्वि᳓नोर् अ᳓निवृतः
प᳓रि वृणक्ति अ᳓श्मनस् तृ᳓णा द᳓हन्

07 जातो अग्नी - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

जातो᳓ अग्नी᳓ रोचते चे᳓कितानो
वाजी᳓ वि᳓प्रः कविशस्तः᳓ सुदा᳓नुः
यं᳓ देवा᳓स ई᳓डियं विश्ववि᳓दं
हव्यवा᳓हम् अ᳓दधुर् अध्वरे᳓षु

08 सीद होतः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सी᳓द होतः स्व᳓ उलोके᳓† चिकित्वा᳓न्
साद᳓या यज्ञं᳓ सुकृत᳓स्य यो᳓नौ
देवावी᳓र् देवा᳓न् हवि᳓षा यजासि
अ᳓ग्ने बृह᳓द् य᳓जमाने व᳓यो धाः

09 कृणोत धूमम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

कृणो᳓त धूमं᳓ वृ᳓षणं सखायो
अ᳓स्रेधन्त इतन वा᳓जम् अ᳓छ
अय᳓म् अग्निः᳓ पृतनाषा᳓ट् सुवी᳓रो
ये᳓न देवा᳓सो अ᳓सहन्त द᳓स्यून्

10 अयं ते - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अय᳓न् ते यो᳓निर् ऋत्वि᳓यः
य᳓तो जातो᳓ अ᳓रोचथाः ।
त᳓ञ् जान᳓न्न् अग्न आ᳓ सी᳓द᳓ + +++(→ रोहेति तैत्तिरीये)+++ ।
+अ᳓था नो᳓ व᳓र्ध᳓या᳓ गि᳓रः+++(→ रयिम् इति तैत्तिरीये)+++ ।

11 तनूनपादुच्यते गर्भ - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓नून᳓पाद् उच्यते ग᳓र्भ आसुरो᳓
न᳓राशं᳓सो भवति य᳓द् विजा᳓यते
मातरि᳓श्वा य᳓द् अ᳓मिमीत मात᳓रि
वा᳓तस्य स᳓र्गो अभवत् स᳓रीमणि

12 सुनिर्मथा निर्मथितः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सुनिर्म᳓था नि᳓र्मथितः
सुनिधा᳓ नि᳓हितः कविः᳓
अ᳓ग्ने सुअध्वरा᳓ कृणु
देवा᳓न् देवयते᳓ यज

13 अजीजनन्नमृतं मर्त्यासोऽस्रेमाणम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓जीजनन्न् अमृ᳓तम् म᳓र्तियासो
अस्रेमा᳓णं तर᳓णिं वीळु᳓जम्भम्
द᳓श स्व᳓सारो अग्रु᳓वः समीचीः᳓
पु᳓मांसं जात᳓म् अभि᳓ सं᳓ रभन्ते

14 प्र सप्तहोता - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ सप्त᳓होता सनका᳓द् अरोचत
मातु᳓र् उप᳓स्थे य᳓द् अ᳓शोचद् ऊ᳓धनि
न᳓ नि᳓ मिषति सुर᳓णो दिवे᳓-दिवे
य᳓द् अ᳓सुरस्य जठ᳓राद् अ᳓जायत

15 अमित्रायुधो मरुतामिव - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अमित्रायु᳓धो मरु᳓ताम् इव प्रयाः᳓
प्रथमजा᳓ ब्र᳓ह्मणो वि᳓श्वम् इ᳓द् विदुः
द्युम्न᳓वद् ब्र᳓ह्म कुशिका᳓स ए᳓रिर
ए᳓क-एको द᳓मे अग्निं᳓ स᳓म् ईधिरे

16 यदद्य त्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् अद्य᳓ त्वा प्रयति᳓ यज्ञे᳓ अस्मि᳓न्
हो᳓तश् चिकित्वो अ᳓वृणीमहीह᳓
ध्रुव᳓म् अया ध्रुव᳓म् उता᳓शमिष्ठाः
प्रजान᳓न् विद्वाँ᳓ उ᳓प याहि सो᳓मम्