०२७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्र वो वाजाः’ इति पञ्चदशर्चं पञ्चदशं सूक्तम् । अत्रानुक्रमणिका- प्र वः पञ्चोना गायत्रं त्वृतव्या वाद्या’ इति । विश्वामित्र ऋषिः । गायत्री छन्दः । अग्निर्देवता । आद्या ऋतुदेवत्या वा । प्रातरनुवाकाश्विनशस्त्रयोर्गायत्रे छन्दस्यस्य सूक्तस्य विनियोगः। ‘प्र वो वाजा उपसद्याय’ (आश्व श्रौ. ४.१३ ) इति । आभिप्लविकेषूक्थ्येषु ‘प्र वो वाजाः’ इति वैकल्पिकः स्तोत्रियस्तृचः । सूत्रितं च— ‘ प्र वो वाजा अभिद्यवोऽभि प्रयांसि वाहसा’ (आश्व. श्रौ. ७.८) इति । सूक्तस्याद्या सामिधेनी । सूत्रितं च- प्र वो वाजा अभिद्यवोग्न आ याहि वीतये’ (आश्व. श्रौ. १. २ ) इति । सामिधेनीषु ‘ समिध्यमानः’ इत्येका । सूत्रितं च–’ समिध्यमानो अध्वरे समिद्धो अग्न आहुतेति द्वे’ (आश्व. श्रौ. १. २) इति । आधाने तृतीयायामिष्टौ सामिधेनीष्विध्यमानेद्धवत्योर्मध्ये ‘ पृथुपाजाः’ इति द्वे धाय्ये । सूत्रितं च–’ प्रागुपोत्तमायाः पृथुपाजा अमर्त्य इति द्वे’ (आश्व. श्रौ. २. १) इति । एवमन्यत्रापि यत्र यत्र सप्तदश सामिधेन्यस्तत्र तत्रैते धाय्ये इति द्रष्टव्यम् । विषुवत्येकविंशतिः सामिधेन्यः । तत्र ‘ पृथुपाजा अमर्त्यः’ इति षडृचो धाय्याः । ‘ पृथुपाजा अमर्त्य इति षट् धाय्याः सामिधेनीनाम् ’ ( आश्व. श्रौ. ८.६) इति सूत्रितम् । महाव्रतेऽपि पञ्चविंशतिसंख्याकाः सामिधेन्यः । तत्राप्येताः षडृचो द्रष्टव्याः । अग्नीषोमप्रणयने ‘होता देवो अमर्त्यः’ इति तृचः । सूत्रितं च-’ होता देवो अमर्त्यः पुरस्तादुप त्वाग्ने दिवेदिवे’ ( आश्व. श्रौ. ४. १० ) इति । ‘ ईळेन्यो नमस्यस्तिरः’ इति तिस्रः सामिधेन्यः । सूत्रितं च-’ ईळेन्यो नमस्यतिरोऽग्निं दूतं वृणीमहे’ ( आश्व. श्रौ. १. २) इति ।

Jamison Brereton

27 (261)
Agni
Viśvāmitra Gāthina
15 verses: gāyatrī, arranged in trcas ̥
The hymn comprises five tr̥cas, at least some of which show formal linkages that connect a tr̥ca to the one following it. This is particularly obvious in the case of the third (vss. 7–9) and fourth (vss. 10–12) tr̥cas, which are connected to the fourth and fifth (vss. 13–15) respectively. The last verse of the third tr̥ca (9a, c) describes Agni as váreṇyaḥ. . . dákṣasya pitáram “(the one) to be chosen, the father of skill,” a characterization echoed by váreṇyaṃ dákṣasya in 10ab, the first verse of the fourth tr̥ca. Likewise, the poet “summons” (īḷe) Agni at the end of verse 12 and then describes him as īḷénya “to be summoned” in verse 13. A ring formed by havíṣmant “bearing offerings” in the first and penultimate verses pro vides a unity to the whole hymn.

Even though this hymn is closely connected to the ritual, the precise application of the verses is not clear. Bergaigne thinks that they are sāmidhenī (fire-kindling) verses to be recited as the fire is kindled, and surely this is true of at least the last tr̥ca, which repeats the verb sam √idh in each of its verses. Oldenberg agrees that parts of this hymn are sāmidhenī verses, but suggests that verses 7–9, for example, describe the agnipraṇayana, the procession of the fire to the uttaravedi in the classi
cal Vedic rite, and that 10–12 refer to the installation of the fire. The agnipraṇayana and the deposition of the fire are closely conjoined rites.

01 प्र वो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ वो वा᳓जा अभि᳓द्यवो
हवि᳓ष्मन्तो घृता᳓चिया
देवा᳓ञ् जिगाति सुम्नयुः᳓

02 ईळे अग्निम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ई᳓ळे अग्निं᳓ विपश्चि᳓तं
गिरा᳓ यज्ञ᳓स्य सा᳓धनम्
श्रुष्टीवा᳓नं धिता᳓वानम्

03 अग्ने शकेम - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ग्ने शके᳓म ते वयं᳓
य᳓मं देव᳓स्य वाजि᳓नः
अ᳓ति द्वे᳓षांसि तरेम

04 समिध्यमानो अध्वरेथ्ऽग्निः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

समिध्य᳓मानो अध्वरे᳓
अग्निः᳓ पवाक᳓+ ई᳓डियः
शोचि᳓ष्केशस् त᳓म् ईमहे

05 पृथुपाजा अमर्त्यो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पृथुपा᳓जा अ᳓मर्तियो
घृत᳓निर्णिक् सु᳓आहुतः
अग्नि᳓र् यज्ञ᳓स्य हव्यवा᳓ट्

06 तं सबाधो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ सबा᳓धो यत᳓स्रुच
इत्था᳓ धिया᳓ यज्ञ᳓वन्तः
आ᳓ चक्रुर् अग्नि᳓म् ऊत᳓ये

07 होता देवो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

हो᳓ता देवो᳓ अ᳓मर्तियः
पुर᳓स्ताद् एति माय᳓या
विद᳓थानि प्रचोद᳓यन्

08 वाजी वाजेषु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वाजी᳓ वा᳓जेषु धीयते
अध्वरे᳓षु प्र᳓ णीयते
वि᳓प्रो यज्ञ᳓स्य सा᳓धनः

09 धिया चक्रे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

धिया᳓ चक्रे व᳓रेणियो
भूता᳓नां ग᳓र्भम् आ᳓ दधे
द᳓क्षस्य पित᳓रं त᳓ना

10 नि त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

नि᳓ त्वा दधे व᳓रेणियं
द᳓क्षस्येळा᳓ सहस्कृत
अ᳓ग्ने सुदीति᳓म् उशि᳓जम्

11 अग्निं यन्तुरमप्तुरमृतस्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निं᳓ यन्तु᳓रम् अप्तु᳓रम्
ऋत᳓स्य यो᳓गे वनु᳓षः
वि᳓प्रा वा᳓जैः स᳓म् इन्धते

12 ऊर्जो नपातमध्वरे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्जो᳓ न᳓पातम् अध्वरे᳓
दीदिवां᳓सम् उ᳓प द्य᳓वि
अग्नि᳓म् ईळे कवि᳓क्रतुम्

13 ईळेन्यो नमस्यस्तिरस्तमांसि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ईळे᳓नियो नमसि᳓यस्
तिर᳓स् त᳓मांसि दर्शतः᳓
स᳓म् अग्नि᳓र् इध्यते वृ᳓षा

14 वृषो अग्निः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वृ᳓षो अग्निः᳓ स᳓म् इध्यते
अ᳓श्वो न᳓ देववा᳓हनः
तं᳓ हवि᳓ष्मन्त ईळते

15 वृषणं त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वृ᳓षणं त्वा वयं᳓ वृषन्
वृ᳓षणः स᳓म् इधीमहि
अ᳓ग्ने दी᳓दियतम् बृह᳓त्