०२६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘वैश्वानरं मनसा’ इति नवर्चं चतुर्दशं सूक्तम् । तत्रानुक्रमणिका– वैश्वानरं नव तृचौ वैश्वानरीयमारुतौ जागती द्वृच आत्मस्तुतिर्वा पूर्वात्मगीतान्त्योपाध्यायस्तुतिः’ इति । वैश्वानरं मनसा’ इत्याद्यौ तृचौ जागतौ । प्रथमस्य वैश्वानरोऽग्निर्देवता द्वितीयस्य मरुतः । सप्तम्याद्यास्तिस्रस्त्रिष्टुभः । ‘ अग्निरस्मि’ इति द्वृचस्याग्निः परं ब्रह्म वा देवता । नवम्यास्तु विश्वामित्रोपाध्यायस्य स्तुत्यत्वात्। स एव देवता । सप्तमीवर्जितस्य सूक्तस्य विश्वामित्र ऋषिः । सप्तम्या ब्रह्मवाक्यत्वात् ‘ यस्य वाक्यं स ऋषिः ’ इति न्यायेन ब्रह्म ऋषिः । “वैश्वानरं मनसा’ इत्याद्यास्तृच आभिप्लविके चतुर्थेऽहनि अग्निमारुते वैश्वानरीयनिविद्धाने विनियुक्तः । तृतीयस्य ’ इति खण्डे सूत्रितं- वैश्वानरं मनसेति तिस्रः ’ ( आश्व. श्रौ. ७. ७ ) इति । अयमेव तृचो बृहस्पतिसवेऽप्याग्निमारुते वैश्वानरीयनिविद्धानीयः । ‘ प्र यन्तु वाजाः’ इति द्वितीयतृचो बृहस्पतिसवे मारुतनिविद्धानीयः । उभयमपि ‘ उशनसस्तोमेन ’ इति खण्डे सूत्रितं– वैश्वानरं मनसाग्निं निचाय्य प्र यन्तु वाजास्तविषीभिरग्नयः ’ ( आश्व. श्रौ. ९. ५ ) इति । अग्निचयने संचिताग्न्यनुशंसने ‘ अग्निरस्मि’ इत्येषा । ’ अथाग्निं संचितमनुगीतमनुशंसेत् ’ इत्युपक्रम्य सूत्रितम्- अग्निरस्मि जन्मना जातवेदा इति त्रिर्मध्यमया वाचा ’ (आश्व.श्रौ. ४. ८) इति ॥

Jamison Brereton

26 (260)
Agni Vaiśvānara
Viśvāmitra Gāthina
9 verses: jagatī 1–6, triṣṭubh 7–9, arranged in trcas ̥
The deities and attribution of the hymn are more complicated than indicated above. The hymn comprises three tr̥cas: the first set of three verses is to Agni Vaiśvānara, the second to the Maruts, and the third begins with Agni’s self-praise in verse 7 and then continues with the poet’s description of Agni in verses 8–9. This is one way to regard the hymn. Geldner offers another, quite plausible analysis. According to him, the first tr̥ca contains verses to accompany the kindling of Agni. In the second the newly cre
ated Agni is fanned with the help of the Maruts. The third tr̥ca is entirely the speech of Agni. It begins with the god’s praise of himself and then continues with the god’s praise of the poet. Bergaigne argues that the Āgnimāruta śastra in the later ritual consists of three major parts addressed to Vaiśvānara, the Maruts, and Jātavedas and suggests that this hymn represents an old Āgnimāruta śastra. Oldenberg disagrees with both Geldner and Bergaigne, holding that the hymn does not possess the kind of unity that either asserts. In his translation of Agni hymns (1897), he describes the three tr̥cas as “three independent hymns” because of the placement of the hymn in the collection; that is, it has more verses than the preceding hymns, while in the normal arrangement it should have the same number of verses or fewer.
Despite its placement in the collection and the change of meter, we believe that Geldner and Bergaigne are correct in seeing a coherence to the hymn and find Bergaigne’s suggestion that this is an early Āgnimāruta śastra an attractive one.

01 वैश्वानरं मनसाग्निम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वैश्वानर᳓म् म᳓नसाग्निं᳓ निचा᳓यिया
हवि᳓ष्मन्तो अनुषत्यं᳓ सुवर्वि᳓दम्
सुदा᳓नुं देवं᳓ रथिरं᳓ वसूय᳓वो
गीर्भी᳓ रण्वं᳓ कुशिका᳓सो हवामहे

02 तं शुभ्रमग्निमवसे - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ शुभ्र᳓म् अग्नि᳓म् अ᳓वसे हवामहे
वैश्वानर᳓म् मातरि᳓श्वानम् उक्थि᳓यम्
बृ᳓हस्प᳓तिम् म᳓नुषो देव᳓तातये
वि᳓प्रं श्रो᳓तारम् अ᳓तिथिं रघुष्य᳓दम्

03 अश्वो न - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓श्वो न᳓ क्र᳓न्दञ् ज᳓निभिः स᳓म् इध्यते
वैश्वानरः᳓ कुशिके᳓भिर् युगे᳓-युगे
स᳓ नो अग्निः᳓ सुवी᳓रियं सुअ᳓श्वियं
द᳓धातु र᳓त्नम् अमृ᳓तेषु जा᳓गृविः

04 प्र यन्तु - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ यन्तु वा᳓जास् त᳓विषीभिर् अग्न᳓यः
शुभे᳓ स᳓म्मिश्लाः पृ᳓षतीर् अयुक्षत
बृहदु᳓क्षो मरु᳓तो विश्व᳓वेदसः
प्र᳓ वेपयन्ति प᳓र्वताँ अ᳓दाभियाः

05 अग्निश्रियो मरुतो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नि-श्रि᳓यो मरु᳓तो विश्व᳓-कृष्टय
आ᳓ त्वेष᳓म् उग्र᳓म् अ᳓व ईमहे वय᳓म् ।
ते᳓ स्वानि᳓नो रुद्रि᳓या वर्ष᳓-निर्णिजः+++(←निज् पोषणे शोधने)+++
सिंहा᳓ न᳓ हेष᳓-क्रतवः सुदा᳓नवः ॥

06 व्रातंव्रातं गणङ्गणम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

व्रा᳓तं-व्रातं गणं᳓-गणं सुशस्ति᳓भिर्
अग्ने᳓र् भा᳓मम् मरु᳓ताम् ओ᳓ज ईमहे
पृ᳓षदश्वासो अनवभ्र᳓राधसो
ग᳓न्तारो यज्ञं᳓ विद᳓थेषु धी᳓राः

07 अग्निरस्मि जन्मना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नि᳓र् अस्मि ज᳓न्मना जात᳓वेदा
घृत᳓म् मे च᳓क्षुर् अमृ᳓तम् म आस᳓न्
अर्क᳓स् त्रिधा᳓तू र᳓जसो विमा᳓नो
अ᳓जस्रो घर्मो᳓ हवि᳓र् अस्मि ना᳓म

08 त्रिभिः पवित्रैरपुपोद्ध्यट्र्कम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्रिभिः᳓ पवि᳓त्रैर् अ᳓पुपोद् धि᳓ अर्कं᳓
हृदा᳓ मतिं᳓ ज्यो᳓तिर् अ᳓नु प्रजान᳓न्
व᳓र्षिष्ठं र᳓त्नम् अकृत स्वधा᳓भिर्
आ᳓द् इ᳓द् द्या᳓वापृथिवी᳓ प᳓र्य् अपश्यत्

09 शतधारमुत्समक्षीयमाणं विपश्चितम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शत᳓धारम् उ᳓त्सम् अ᳓क्षीयमाणं
विपश्चि᳓तम् पित᳓रं व᳓क्तुवानाम्
मेळि᳓म् म᳓दन्तम् पितरो᳓र्+ उप᳓स्थे
तं᳓ रोदसी पिपृतं सत्यवा᳓चम्