०२४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ अग्ने सहस्व’ इति पञ्चर्चं द्वादशं सूक्तम् । अत्रानुक्रमणिका - अग्ने सहस्व गायत्रमाद्यानुष्टुप्’ इति । ऋषिर्गाथिनो विश्वामित्रः । अग्निर्देवता । आद्यानुष्टुप् शिष्टा गायत्र्यः । सूक्तविनियोगो लैङ्गिकः । प्रातरनुवाके आश्विनशस्त्रे च प्रथमावर्जितस्य सूक्तस्य विनियोगः । ‘ अथैतस्याः’ इति खण्डे सूत्रितम् - ‘ अग्न इळेति चतस्रः ’ ( आश्व. श्रौ. ४. १३) इति । अभ्युदयेष्टावग्नेर्दातुरनुवाक्या ‘ अग्ने दा दाशुषे ’ इत्येषा । ‘ अथाग्नेय्यः’ इति खण्डे सूत्रितम् – अग्ने दा दाशुषे रयिं स यन्ता विप्र एषाम् ’ ( आश्व. श्रौ. ३. १३ ) इति ॥

Jamison Brereton

24 (258)
Agni
Viśvāmitra Gāthina
5 verses: gāyatrī, except anuṣṭubh 1
This is a brief, almost staccato hymn. Every verse begins with an invocation to Agni, and most verses follow with an imperative, urging Agni to take his place on the ritual ground and to grant the wishes of the poet and his people. The first three verses refer either directly or indirectly to the brightening fire, which may find its counterpart in the swiftness and brevity of the hymn.

01 अग्ने सहस्व - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने॒ सह॑स्व॒ पृत॑ना अ॒भिमा॑ती॒रपा॑स्य ।
दु॒ष्टर॒स्तर॒न्नरा॑ती॒र्वर्चो॑ धा य॒ज्ञवा॑हसे ॥

02 अग्न इळा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अग्न॑ इ॒ळा समि॑ध्यसे वी॒तिहो॑त्रो॒ अम॑र्त्यः ।
जु॒षस्व॒ सू नो॑ अध्व॒रम् ॥

03 अग्ने द्युम्नेन - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने॑ द्यु॒म्नेन॑ जागृवे॒ सह॑सः सूनवाहुत ।
एदं ब॒र्हिः स॑दो॒ मम॑ ॥

04 अग्ने विश्वेभिरग्निभिर्देवेभिर्महया - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने॒ विश्वे॑भिर॒ग्निभि॑र्दे॒वेभि॑र्महया॒ गिरः॑ ।
य॒ज्ञेषु॒ य उ॑ चा॒यवः॑ ॥

05 अग्ने दा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने॒ दा दा॒शुषे॑ र॒यिं वी॒रव॑न्तं॒ परी॑णसम् ।
शि॒शी॒हि नः॑ सूनु॒मतः॑ ॥