०२३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ निर्मथितः सुधितः’ इति पञ्चर्चमेकादशं सूक्तम् । अत्र अनुक्रमणिका –’ निर्मथितो देवश्रवा देववातश्च भारतौ तृतीया सतोबृहती ’ इति । भरतस्य पुत्रौ देवश्रवा देववातश्चैत्युभावस्य ऋषी । तृतीया सतोबृहती । शिष्टास्त्रिष्टुभः । अग्निर्देवता । ‘आ होता’ इत्यादिसूक्तदशकस्योक्तो विनियोगः प्रातरनुवाकाश्विनशस्त्रयोः । इलामग्ने ’ इत्यस्या विनियोगोऽसकृदुक्तः ।।

Jamison Brereton

23 (257)
Agni
Devaśravas Bhārata and Devavāta Bhārata
5 verses: triṣṭubh, except satobr̥hatī 3
The Agni of this hymn is probably the tribal fire of the Bhāratas (Proferes 2007: 37), which forms the ritual center of the Bhārata clans. This Agni governs the peoples (vs.

3)—likely the peoples of the tribe, as Proferes suggests—from a location, “earth’s most desirable place” (vs. 4), among the three rivers. Various theories have been offered for the identity of Devaśravas, who is addressed in verse 3, and Devavāta, to whom the Agni of the Bhāratas belong. Surely Devavāta is or was the king of the Bhāratas, since his is the Bhārata fire. Devaśravas could be a priest or poet, or he could have been a Bhārata leader, perhaps an ally or successor of Devavāta. In any case, along with the Agni of the Bhāratas himself, they are the focus of the hymn since they are named in the central verse and this central verse is marked by a change in meter.

01 निर्मथितः सुधित - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नि᳓र्मथितः सु᳓धित आ᳓ सध᳓स्थे
यु᳓वा कवि᳓र् अध्वर᳓स्य प्रणेता᳓
जू᳓र्यत्सु अग्नि᳓र् अज᳓रो व᳓नेषु
अ᳓त्रा दधे अमृ᳓तं जात᳓वेदाः

02 अमन्थिष्थां भारता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓मन्थिष्टाम् भा᳓रता रेव᳓द् अग्निं᳓
देव᳓श्रवा देव᳓वातः सुद᳓क्षम्
अ᳓ग्ने वि᳓ पश्य बृहता᳓भि᳓ राया᳓
इषां᳓ नो नेता᳓ भवताद् अ᳓नु द्यू᳓न्

03 दश क्षिपः - सतोबृहती

विश्वास-प्रस्तुतिः ...{Loading}...

द᳓श क्षि᳓पः पूर्वियं᳓ सीम् अजीजनन्
सु᳓जातम् मातृ᳓षु प्रिय᳓म्
अग्निं᳓ स्तुहि दैववातं᳓ देवश्रवो
यो᳓ ज᳓नानाम् अ᳓सद् वशी᳓

04 नि त्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नि᳓ त्वा दधे · व᳓र आ᳓ पृथिव्या᳓
इ᳓ळायास् पदे᳓ सुदिनत्वे᳓ अ᳓ह्नाम्
दृष᳓द्वत्याम् मा᳓नुष आपया᳓यां
स᳓रस्वत्यां रेव᳓द् अग्ने दिदीहि

05 इळामग्ने पुरुदंसम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓ळाम् अग्ने पुरुदं᳓सं सनिं᳓ गोः᳓
शश्वत्तमं᳓ ह᳓वमानाय साध
सिया᳓न् नः सूनु᳓स् त᳓नयो विजा᳓वा
अ᳓ग्ने सा᳓ ते सुमति᳓र् भूतु अस्मे᳓