०१८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘भवा नो अग्ने ’ इति पञ्चर्चं षष्ठं सूक्तम् । ‘ भवा नः’ इत्यनुक्रमणिका । ‘कतो वैश्वामित्रस्तु इति तुशब्दप्रयोगात् अस्यापि वैश्वामित्रः कत ऋषिः । अग्निर्देवता । प्रातरनवाकाश्विनशस्त्रयोरुक्तः सूक्तविनियोगः । प्रवर्ग्येऽभिष्टवे ‘ भवा नो अग्ने’ इति द्वृचो विनियुक्तः । सूत्रितं च – भवा नो अग्ने सुमना उपेताविति द्वृचाः ’ ( आश्व. श्रौ. ४. ६ ) इति ।

Jamison Brereton

18 (252)
Agni
Kata Vaiśvāmitra
5 verses: triṣṭubh
This is a hymn in praise of the fire as it gains strength. The first two verses look forward to the fire’s blaze, which should be directed against the enemies of the sacrificers. The third and middle verse turns to the ritual acts that cause the fire to increase—adding fuel to it, offering melted butter into it, and even pouring praise upon it. The last two verses then again describe the blazing fire, but this time the increasing blaze is not turned against enemies but rather represents and effects the increasing strength and wealth of the sacrificers.

01 भवा नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

भवा॑ नो अग्ने सु॒मना॒ उपे॑तौ॒ सखे॑व॒ सख्ये॑ पि॒तरे॑व सा॒धुः ।
पु॒रु॒द्रुहो॒ हि क्षि॒तयो॒ जना॑नां॒ प्रति॑ प्रती॒चीर्द॑हता॒दरा॑तीः ॥

02 तपो ष्वग्ने - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तपो॒ ष्व॑ग्ने॒ अन्त॑राँ अ॒मित्रा॒न्तपा॒ शंस॒मर॑रुषः॒ पर॑स्य ।
तपो॑ वसो चिकिता॒नो अ॒चित्ता॒न्वि ते॑ तिष्ठन्ताम॒जरा॑ अ॒यासः॑ ॥

03 इध्मेनाग्न इच्छमानो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒ध्मेना॑ग्न इ॒च्छमा॑नो घृ॒तेन॑ जु॒होमि॑ ह॒व्यं तर॑से॒ बला॑य ।
याव॒दीशे॒ ब्रह्म॑णा॒ वन्द॑मान इ॒मां धियं॑ शत॒सेया॑य दे॒वीम् ॥

04 उच्छोचिषा सहसस्पुत्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उच्छो॒चिषा॑ सहसस्पुत्र स्तु॒तो बृ॒हद्वयः॑ शशमा॒नेषु॑ धेहि ।
रे॒वद॑ग्ने वि॒श्वामि॑त्रेषु॒ शं योर्म॑र्मृ॒ज्मा ते॑ त॒न्वं१॒॑ भूरि॒ कृत्वः॑ ॥

05 कृधि रत्नम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

कृ॒धि रत्नं॑ सुसनित॒र्धना॑नां॒ स घेद॑ग्ने भवसि॒ यत्समि॑द्धः ।
स्तो॒तुर्दु॑रो॒णे सु॒भग॑स्य रे॒वत्सृ॒प्रा क॒रस्ना॑ दधिषे॒ वपूं॑षि ॥