०१६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ अयमग्निः’ इति चतुर्थं षडृचं सूक्तमाग्नेयम् । अत्रानुक्रमणिका’–’ अयमग्निः षट् प्रागाथम्’ इति ।’ उत्कीलस्तु ’ इति तुशब्दप्रयोगात् अस्यापि सूक्तस्य स एव ऋषिः । अत्र विषमसंख्यानामृचां बृहती छन्दस्तृतीयपादस्य द्वादशाक्षरत्वात् । समसंख्यानां तु सतोवृहती प्रथमतृतीयपादयोर्द्वादशाक्षरत्वात् । उक्तं च- अयुजौ जागतौ सतोबृहती ’ ( अनु. ८. ४ ) इति ॥

Jamison Brereton

16 (250)
Agni
Utkīla Kātya
6 verses: br̥hatī alternating with satobr̥hatī, arranged in pragāthas
The hymn consists of pragātha distichs of one br̥hatī verse and one satobr̥hatī verse. The metrics thus organize the verses into three pairs. Structurally, however, the poet also emphasizes the unity of the hymn through ring composition: verse 1 refers to Agni as the master of saúbhaga “good fortune” and of rayí “wealth,” and verse 6 to him as subhága “bearer of good fortune” and the agent of “wealth.” Once again, as in the preceding hymn, the description of Agni evokes Indra, espe cially in verse 1, which refers to Agni as the “master of the smashing of obsta cles,” and in verse 2, in which the poet calls on the troops of Indra, the Maruts, to follow Agni.

01 अयमग्निः सुवीर्यस्येशे - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अय᳓म् अग्निः᳓ सुवी᳓र्यस्य
ई᳓शे महः᳓ सउ᳓भगस्य
राय᳓ ईशे सुअपत्य᳓स्य गो᳓मत
ई᳓शे वृत्रह᳓थाना᳐म्

02 इमं नरो - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

इमं᳓ नरो मरुतः सश्चता वृ᳓धं
य᳓स्मिन् रा᳓यः शे᳓वृधासः
अभि᳓ ये᳓ स᳓न्ति पृ᳓तनासु दूढि᳓यो
विश्वा᳓हा श᳓त्रुम् आदभुः᳓

03 स त्वम् - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ त्वं᳓ नो रायः᳓ शिशीहि
मी᳓ढ्वो अग्ने सुवी᳓र्यस्य
तु᳓विद्युम्न व᳓र्षिष्ठस्य प्रजा᳓वतो
अनमीव᳓स्य शुष्मि᳓णः

04 चक्रिर्यो विश्वा - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

च᳓क्रिर् यो᳓ वि᳓श्वा भु᳓वनाभि᳓ सासहि᳓श्
च᳓क्रिर् देवे᳓षु आ᳓ दु᳓वः
आ᳓ देवे᳓षु य᳓तत आ᳓ सुवी᳓रिय
आ᳓ शं᳓स उत᳓ नॄणा᳐᳓म्+

05 मा नो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

मा᳓ नो अग्ने अ᳓मतये
मा᳓वी᳓रतायै रीरधः
मा᳓गो᳓तायै सहसस् पुत्र मा᳓ निदे
अ᳓प द्वे᳓षांसि आ᳓ कृधि

06 शग्धि वाजस्य - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

शग्धि᳓ वा᳓जस्य सुभग प्रजा᳓वतो
अ᳓ग्ने बृहतो᳓ अध्वरे᳓
सं᳓ राया᳓ भू᳓यसा सृज मयोभु᳓ना
तु᳓विद्युम्न य᳓शस्वता