०१३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

द्वितीयेऽनुवाके सप्तदश सूक्तानि । तत्र ’ प्र वो देवाय ’ इति सप्तर्चं प्रथमं सूक्तं वैश्वामित्र-ऋषभस्यार्षमग्निदेवताकमानुष्टुभम् । तथा चानुक्रातं - प्र वः सप्त ऋषभस्त्वानुष्टुभम् ’ इति । विश्वामित्रपुत्र ऋषभ ऋषिः । मण्डलादिपरिभाषयाग्निर्देवता । अग्निष्टोमे इदं सूक्तमाज्यशस्त्रम् । ’ पराङध्वर्यावावृत्ते ’ इति खण्डे सूत्रितम्-’ प्र वो देवायेत्याज्यमुपसंतनुयात् ’ (आश्व. श्रौ. ५.९) इति । इदमेव सूक्तं प्रातरनुवाक आश्विनशस्त्रे च विनियुक्तम् । सूत्रं च-’ प्र वो देवायाग्ने कदा त इति पञ्च ’ ( आश्व. श्रौ. ४. १३) इति । अभ्युदयेष्टौ ’ स यन्ता ’ इत्यग्नेः प्रदातुः याज्या । सूत्रितं च-‘स यन्ता विप्र एषां दीर्घस्ते अस्त्वंकुशः ’ ( आश्व. श्रौ. ३.१३) इति । ।

Jamison Brereton

13 (247)
Agni
R̥ṣabha Vaiśvāmitra
7 verses: anuṣṭubh
This is the first hymn of this collection attributed not to Viśvāmitra, but to his son, R̥ṣabha. Its theme is Agni as the god who inspires the recitations of the priests. As such, Agni possesses the truth that the hymns express (vs. 2), and he himself is both an inspired poet (vs. 3) and the Hotar priest (vs. 5). As he is kindled, he becomes increasingly bright and the hymn connects his visible brilliance with the brilliance of mind he inspires (vss. 5–6) and finally even the brilliance of the gift he wins for the sacrificers (vs. 7).

01 प्र वो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ वो देवा᳓य अग्न᳓ये
ब᳓र्हिष्ठम् अर्च अस्मै
ग᳓मद् देवे᳓भिर् आ᳓ स᳓ नो
य᳓जिष्ठो बर्हि᳓र् आ᳓ सदत्

02 ऋतावा यस्य - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋता᳓वा य᳓स्य रो᳓दसी
द᳓क्षं स᳓चन्त ऊत᳓यः
हवि᳓ष्मन्तस् त᳓म् ईळते
तं᳓ सनिष्य᳓न्तो अ᳓वसे

03 स यन्ता - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ यन्ता᳓ वि᳓प्र एषां᳐
स᳓ यज्ञा᳓नाम् अ᳓था हि᳓ षः᳓
अग्निं᳓ तं᳓ वो दुवस्यत
दा᳓ता यो᳓ व᳓निता मघ᳓म्

04 स नः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ नः श᳓र्माणि वीत᳓ये
अग्नि᳓र् यछतु शं᳓तमा
य᳓तो नः प्रुष्ण᳓वद् व᳓सु
दिवि᳓ क्षिति᳓भ्यो अप्सु᳓ आ᳓

05 दीदिवांसमपूर्व्यं वस्वीभिरस्य - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दीदिवां᳓सम् अ᳓पूर्वियं
व᳓स्वीभिर् अस्य धीति᳓भिः
ऋ᳓क्वाणो अग्नि᳓म् इन्धते
हो᳓तारं विश्प᳓तिं विशा᳓म्

06 उत नो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ नो ब्र᳓ह्मन्न् अविष
उक्थे᳓षु देवहू᳓तमः
शं᳓ नः शोचा मरु᳓द्वृधो
अ᳓ग्ने सहस्रसा᳓तमः

07 नू नो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नू᳓ नो रास्व सह᳓स्रवत्
तोक᳓वत् पुष्टिम᳓द् व᳓सु
द्युम᳓द् अग्ने सुवी᳓रियं
व᳓र्षिष्ठम् अ᳓नुपक्षितम्