०१२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘इन्द्राग्नी’ इति नवर्चं द्वादशं सूक्तं वैश्वामित्रमैन्द्राग्नम् । तथा चानुक्रम्यते - इन्द्राग्नी ऐन्द्राग्नम्’ इति । ‘ गायत्रं तु ’ इति तु शब्दादिदमपि सूक्तं गायत्रम् । इन्द्राग्नी देवता । आभिप्लविकेष्वहःसु प्रातःसवनेऽच्छावाकशस्त्रे अवापार्थमिदं सूक्तम्। ‘अभिप्लवपृष्यािनहानि’ इति खण्डे सृत्रितम् ‘ इन्द्राग्नी गतं ता हुवे ययोरिदम् ’ ( आश्व, श्रौ. ७. ५) इति । अग्निष्टोमेऽच्छावाकशस्त्रे ‘ इन्द्राग्नी आ गतम्’ इति स्तोत्रियस्तृचः । तस्यैवाच्छावाकस्याद्या शस्त्रयाज्या । ‘इन्द्राग्नी आ गतं सुतमिति याज्या ’ ( आश्व. श्रौ. ५. १० ) इति सूत्रितत्वात् । चतुर्विंशेऽहनि प्रातःसवनेऽच्छावाकशस्त्रे ‘इन्द्राग्नी आ गतं सुतम् ’ इति षळहस्तोत्रियः । ‘ इन्द्राग्नी आ गतं सुतमिन्द्रे अग्ना नमो बृहत् ’ (आश्व. श्रौ. ७. २) इति सूत्रितम्। अग्निष्टोमाच्छावाकशस्त्रे ‘तोशा वृत्रहणा हुवे’ इत्याद्यास्तिस्रः । सूत्रितं च— तोशा वृत्रहणा हुव इति तिस्रः ’ ( आश्व. श्रौ. ५. १०) इति । अग्निष्टोमेऽच्छावाकशस्त्रे ‘इन्द्राग्नी अपसस्परि’ इत्यनुरूपः । सूत्रितं च- ‘ इन्द्राग्नी आ गतं सुतमिन्द्राग्नी अपसस्परि’ ( आश्व. श्रौ. ५. १० ) इति ॥

Jamison Brereton

12 (246)
Indra and Agni
Viśvāmitra Gāthina.
9 verses: gāyatrī
The poet invites Indra and Agni to drink the soma at the morning soma offering. The two gods are not only invoked together, but the poet also ascribes the acts distinctive of each god to both. After invoking them in the 2nd person in the first two verses, in the third verse he refers to them in the 3rd person and then, espe
cially in verses 4 and 6, tells of the great deeds that belong to both of them. In verse 4 they are both “smashers of obstacles,” for while Indra is the “smasher of obstacles” or “smasher of Vr̥tra,” Agni also burns his way through obstacles (e.g., VI.16.34). Indra is the god who famously breaks the fortifications of the Dāsas, but in verse 6 Agni also destroys enemies’ fortifications, as in III.15.4. In verse 8 “cross
ing the waters” belongs to the two of them as well. As Geldner remarks, this last is probably a reference to a victorious march across rivers that is led by the sacrifice, represented by Agni, and by warriors, represented by Indra.

01 इन्द्राग्नी आ - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्राग्नी आ᳓ गतं+++(=गच्छतं)+++ सुतं᳓
गीर्भि᳓र् न᳓भो+++(=नभसः)+++ व᳓रेण्यम् ।
अस्य᳓ पातं धिया᳓ +ईषिता᳓+++(=प्रेरितौ)+++ ॥

02 इन्द्राग्नी जरितुः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्राग्नी जरितुः᳓ स᳓चा
यज्ञो᳓ जिगाति चे᳓तनः
अया᳓ पातम् इमं᳓ सुत᳓म्

03 इन्द्रमग्निं कविच्छदा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रम् अग्निं᳓ कविछ᳓दा
यज्ञ᳓स्य जूतिया᳓ वृणे
ता᳓ सो᳓मस्येह᳓ तृम्पताम्

04 तोशा वृत्रहणा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तोशा᳓ वृत्रह᳓णा हुवे
सजि᳓त्वाना᳓पराजिता
इन्द्राग्नी᳓ वाजसा᳓तमा

05 प्र वामर्चन्त्युक्थिनो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ वाम् अर्चन्ति उक्थि᳓नो
नीथावि᳓दो जरिता᳓रः
इ᳓न्द्राग्नी इ᳓ष आ᳓ वृणे

06 इन्द्राग्नी नवतिम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्राग्नी नवति᳓म् +++(असुर-)+++पु᳓रो
दास᳓-पत्नी᳓र् +++(पुरो)+++ अधूनुतम् ।
साक᳓म् ए᳓केन क᳓र्मणा ॥

07 इन्द्राग्नी अपसस्पर्युप - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्राग्नी अ᳓पसस् प᳓रि
उ᳓प प्र᳓ यन्ति धीत᳓यः
ऋत᳓स्य पथि᳓या अ᳓नु

08 इन्द्राग्नी तविषाणि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्राग्नी तविषा᳓णि वां
सध᳓स्थानि प्र᳓यांसि च
युवो᳓र् अप्तू᳓रियं हित᳓म्

09 इन्द्राग्नी रोचना - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्राग्नी रोचना᳓ दिवः᳓
प᳓रि वा᳓जेषु भूषथः
त᳓द् वां चेति प्र᳓ वीरि᳓यम्