००९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

सखायस्त्वेति नवर्चं नवमं सूक्तं वैश्वामित्रं । अत्रेयमनुक्रमणिका । सखायो नव बार्हतं त्रिष्टुबंतमिति । अंत्या त्रिष्टुप् । शिष्टा अष्टौ बृहत्यः ॥ प्रातरनुवाकाश्विनशस्त्रयोर्बार्हते छंदस्यस्य सूक्तस्य विनियोगः । अथैतस्या इति खंडे सूत्रितं । सखायस्त्वायमग्निरग्न आ याहि । आः ४. १३.। इति ॥

Jamison Brereton

9 (243)
Agni
Viśvāmitra Gāthina
9 verses: triṣṭubh
The setting of the poem is the kindling of Agni in the very early morning (cf. vs. 7). Thematically, the poet parallels the gods’ search for Agni and the human priests’ kindling of fire. The fire has disappeared into the waters or into the wood, which has absorbed the waters. Therefore, it is in the waters that the “watchful and unde
ceiving ones,” either priests or gods, have found him. The double reference is par ticularly well expressed in verse 5. The first part of the verse alludes to the myth of Agni’s flight from the gods and to the myth of Mātariśvan, who brings the fire from heaven. But the final phrase devébhyo mathitám pári, here translated “stolen from among the gods,” could also mean “churned from among the gods.” That is, it likely refers to the priestly act of creating fire by friction as well as to the story of Mātariśvan’s bringing fire.

01 सखायस्त्वा ववृमहे - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓खायस् त्वा ववृमहे
देव᳓म् म᳓र्तास ऊत᳓ये
अपां᳓ न᳓पातं सुभ᳓गं सुदी᳓दितिं
सुप्र᳓तूर्तिम् अनेह᳓सम्

02 कायमानो वना - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

का᳓यमानो +++(=कामयमानो)+++ वना᳓ +++(=वनान्)+++ त्वं᳓
(ई᳓ह᳓स्व᳓… द्यौ᳓र् भू᳓त᳓म् पृ᳓थि᳓वी᳓)

(ई᳓ह᳓स्व᳓…) य᳓न् मातॄ᳓र् अ᳓जगन्न् अपः᳓ +++(वृष्ट्योपशाम्यन्)+++।
(ई᳓ह᳓स्व᳓… स᳓ह᳓स् ते᳓ज᳓ आ᳓पः᳓)

(ई᳓ह᳓स्व᳓…) न᳓ त᳓त् +++(=तस्मात्)+++ ते᳓ अ᳓ग्ने᳓ प्रमृ᳓षे +++(=प्रमृष्यते ऽस्माभिः)+++ निव᳓र्तनं +++(=नितरां वर्तनम्)+++
(ईहस्व… उषा दिशो ज्योतिः)

(ईहस्व…) यद् दूरे᳓ स᳓न् इह᳓ +++(=अरण्योः)+++ +अ᳓भवः+++(भुवः इति साम्नि)+++ ।।
(ई᳓ह᳓स्व᳓… ओ᳓म् आ᳓यु᳓र् ज्यो᳓तिः᳓)

(घ᳓र्मो᳓ म᳓रु᳓द्भि᳓र्भु᳓व᳓ने᳓षु᳓ च᳓क्र᳓दा᳓त्।)

03 अति तृष्थम् - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ति तृष्टं᳓ ववक्षिथ
अ᳓थैव᳓ सुम᳓ना असि
प्र᳓-प्रान्ये᳓ य᳓न्ति प᳓रि अन्य᳓ आसते
ये᳓षां सख्ये᳓ अ᳓सि श्रितः᳓

04 ईयिवांसमति स्रिधः - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

ईयिवां᳓सम् अ᳓ति स्रि᳓धः
श᳓श्वतीर् अ᳓ति सश्च᳓तः
अ᳓न्व् ईम् अविन्दन् निचिरा᳓सो अद्रु᳓हो
अप्सु᳓ सिंह᳓म् इव श्रित᳓म्

05 ससृवांसमिव त्मनाग्निमित्था - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

ससृवां᳓सम् इव त्म᳓ना
अग्नि᳓म् इत्था᳓ तिरो᳓हितम्
अइ᳓नं नयन् मातरि᳓श्वा पराव᳓तो
देवे᳓भ्यो मथित᳓म् प᳓रि

06 तं त्वा - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ त्वा म᳓र्ता अगृभ्णत
देवे᳓भ्यो हव्यवाहन
वि᳓श्वान् य᳓द् यज्ञाँ᳓ अभिपा᳓सि मानुष
त᳓व क्र᳓त्वा यविष्ठिय

07 तद्भद्रं तव - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓द् भद्रं᳓ त᳓व दंस᳓ना
पा᳓काय चिच् छदयति
तुवां᳓ य᳓द् अग्ने पश᳓वः समा᳓सते
स᳓मिद्धम् अपिशर्वरे᳓

08 आ जुहोता - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ जुहोता सुअध्वरं᳓
शीर᳓म् पवाक᳓शोचिषम्+
आशुं᳓ दूत᳓म् अजिर᳓म् प्रत्न᳓म् ई᳓डियं
श्रुष्टी᳓ देवं᳓ सपर्यत

09 त्रीणि शता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्री᳓णि शता᳓ त्री᳓ सह᳓स्राणि अग्निं᳓
त्रिंश᳓च् च देवा᳓ न᳓व चासपर्यन्
अउ᳓क्षन् घृतइ᳓र् अ᳓स्तृणन् बर्हि᳓र् अस्मा
आ᳓द् इ᳓द् धो᳓तारं नि᳓ असादयन्त