००८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

अंजंतीत्यष्टमं वैश्वामित्रमेकादशर्चं सूक्तं । अत्रानुक्रमणिका । अंजंति यूपस्तुतिः षष्ठ्याद्याभिर्बहवोंऽत्या व्रश्चिन्यष्टमी वैश्वदेवी वा तृतीयासप्तम्यावनुष्टुभाविति । उच्छ्रयस्व वनस्पते ये वृक्णास इत्येते तृतीयासप्तम्यावनुष्टुभौ शिष्टास्त्रिष्टुभः । कृत्स्नस्य सूक्तस्य यूपो देवता। वनस्पते शतवल्श इत्यस्याश्छिन्नयूपस्य मूलभूतः स्थाणुर्दैवता। आदित्या रुद्रा वसव इत्यष्टमी वैश्वदेवी यौपी वा । अत्र षष्ठ्यादीनां बहवो यूपा देवता बहूनां स्तूयमानत्वात्। शिष्टा एकयूपदेवत्याः ॥ यूपांजनेंऽजंति त्वामित्येषा। प्रेषितो यूपायाज्यमानायांजंति त्वामध्वरे देवयंतः । आ°३.१.। इति ॥ यूपोच्छ्रयणे समिद्धस्येति द्वे ऋचौ । उच्छ्रयस्व वनस्पते समिद्धस्य श्रयमाणः पुरस्तात् । आ°३.१.। इति सूत्रितत्वात् ॥ यूपपरिव्ययणे युवा सुवासाः परिवीत आगादिति परिदध्यात् ।आ° ३.१.। इति सूत्रितत्वात् ॥ यूपोच्छूयणे जातो जायते सुदिनत्वे अह्नामित्यर्धर्चं आरमेदिति सूचितं ।। यूपैकादशिन्यामन्यत्रापि बहुयूपयुक्ते कर्मणि यान्वो नर इत्यादिभिः षड्भिः पंचभिर्वा संस्तुयात् । संस्तुयादनभिहिंकृत्य यान्वो नरो देवयंतो नि मिम्युरिति षड्भिः पंचभिर्वा । आ°३.१.। इति ॥

Jamison Brereton

8 (242)
Sacrificial Post(s)
Viśvāmitra Gāthina
11 verses: triṣṭubh, except anuṣṭubh 3, 7
Though this hymn is found in the middle of the Agni collection, it is dedicated to the Sacrificial Post (yūpa), to which the animal to be sacrificed is tied. It is not entirely clear why it has been inserted here, though as an eleven-verse hymn con sisting mostly of triṣṭubhs it comes at the end of the triṣṭubh hymns to Agni and is preceded by two likewise eleven-verse hymns.
The structure of the hymn has been illuminatingly discussed by Theodore Proferes (2003b), who shows that not only does it fall into two separate parts devoted to the single post (1–5) and multiple posts (6–10) respectively, as is already indicated by the Anukramaṇī, but that the two halves are entirely parallel in phraseology and struc
ture. Originally there were probably two hymns, each appropriate to a different ritual situation (one sacrificial animal versus several). They were put together and a final benedictory verse was added (11), and then it was inserted into the Agni cycle.
The ritual action depicted in both parts is the erecting, anointing, and wrapping of the posts; there is no mention of the sacrificial animal.

Jamison Brereton Notes

Sacrificial Post On the structure of this hymn, see the published introduction.

01 अञ्जन्ति त्वामध्वरे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अञ्ज᳓न्ति त्वा᳓म् अध्वरे᳓ देवय᳓न्तो
व᳓नस्पते म᳓धुना दइ᳓वियेन
य᳓द् ऊर्ध्व᳓स् ति᳓ष्ठा द्र᳓विणेह᳓ धत्ताद्
य᳓द् वा क्ष᳓यो मातु᳓र् अस्या᳓ उप᳓स्थे

02 समिद्धस्य श्रयमाणः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓मिद्धस्य श्र᳓यमाणः पुर᳓स्ताद्
ब्र᳓ह्म वन्वानो᳓ अज᳓रं सुवी᳓रम्
आरे᳓ अस्म᳓द् अ᳓मतिम् बा᳓धमान
उ᳓च् छ्रयस्व महते᳓ सउ᳓भगाय

03 उच्छ्रयस्व वनस्पते - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓च् छ्रयस्व वनस्पते
व᳓र्ष्मन् पृथिविया᳓ अ᳓धि
सु᳓मिती मीय᳓मानो
व᳓र्चो धा यज्ञ᳓वाहसे

04 युवा सुवासाः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यु᳓वा सुवा᳓साः प᳓रिवीत +++(यूप)+++ आ᳓गात्
स᳓ उ श्रे᳓यान् भवति जा᳓यमानः ।
तं᳓ धी᳓रासः कव᳓य उ᳓न्नयन्ति
स्वाध्यो३᳓+++(=सु+आ+धियः)+++ म᳓नसा देवय᳓न्तः+++(=देवकामाः)+++ ॥

05 जातो जायते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

जातो᳓ जायते सुदिनत्वे᳓ अ᳓ह्नां
समर्य᳓ आ᳓ विद᳓थे व᳓र्धमानः
पुन᳓न्ति धी᳓रा अप᳓सो मनीषा᳓
देवया᳓ वि᳓प्र उ᳓द् इयर्ति वा᳓चम्

06 यान्वो नरो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

या᳓न् वो न᳓रो देवय᳓न्तो निमिम्यु᳓र्
व᳓नस्पते स्व᳓धितिर् वा तत᳓क्ष
ते᳓ देवा᳓सः स्व᳓रवस् तस्थिवां᳓सः
प्रजा᳓वद् अस्मे᳓ दिधिषन्तु र᳓त्नम्

07 ये वृक्णासो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ये᳓ वृक्णा᳓सो अ᳓धि क्ष᳓मि
नि᳓मितासो यत᳓स्रुचः
ते᳓ नो वियन्तु वा᳓रियं
देवत्रा᳓ क्षेत्रसा᳓धसः

08 आदित्या रुद्रा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आदित्या᳓ रुद्रा᳓ व᳓सवः सुनीथा᳓
द्या᳓वाक्षा᳓मा पृथिवी᳓ अन्त᳓रिक्षम्
सजो᳓षसो यज्ञ᳓म् अवन्तु देवा᳓
ऊर्ध्वं᳓ कृण्वन्तु अध्वर᳓स्य केतु᳓म्

09 हंसा इव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

हंसा᳓ इव श्रयणिशो᳓ य᳓तानाः
शुक्रा᳓ व᳓सानाः स्व᳓रवो न आ᳓गुः
उन्नीय᳓मानाः कवि᳓भिः पुर᳓स्ताद्
देवा᳓ देवा᳓नाम् अ᳓पि यन्ति पा᳓थः

10 शृङ्गाणीवेच्छृङ्गिणां सम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शृ᳓ङ्गाणीवे᳓च् छृङ्गि᳓णां सं᳓ ददृश्रे
चषा᳓लवन्तः स्व᳓रवः पृथिव्या᳓म्
वाघ᳓द्भिर् वा विहवे᳓ श्रो᳓षमाणा
अस्माँ᳓ अवन्तु पृतना᳓जियेषु

11 वनस्पते शतवल्शो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

व᳓नस्पते शत᳓वल्शो वि᳓ रोह
सह᳓स्रवल्शा वि᳓ वयं᳓ रुहेम
यं᳓ त्वा᳓म् अयं᳓ स्व᳓धितिस् ते᳓जमानः
प्रणिना᳓य महते᳓ सउ᳓भगाय