००२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ वैश्वानराय ’ इति पञ्चदशर्चं द्वितीयं सूक्तम् । तथा चानुक्रान्तं- वैश्वानराय पञ्चोना वैश्वानरीयं तु जागतं तु ’ इति । विश्वामित्र ऋषिः । जगती छन्दः । वैश्वानरोऽग्निर्देवता ।। पृष्ठयाभिप्लविकयोस्तृतीयेऽहन्याग्निमारुते ’ वैश्वानराय धिषणाम् ’ इति वैश्वानरनिविद्धानीयं सूक्तम् । ’ तृतीयस्य ’ इति खण्डे सूत्रितं-’ वैश्वानराय धिषणां धारावरा मरुतः ’ ( आश्व. श्रौ. ७. ७) इति ।।

Jamison Brereton

2 (236)
Agni Vaiśvānara
Viśvāmitra Gāthina
15 verses: jagatī
The first verse announces the two themes of this hymn: the establishment of the fire in the sacrifice and its connection with the words recited by the priests. The poet begins by announcing that the priests are creating the dhiṣáṇā, the “Holy Place” for the fire. The meaning and etymology of dhiṣáṇā are not transparent, but it is synchronically associated with the root √dhā “place, establish”—allowing the reference to the Holy Place of fire to be carried through this hymn by the frequent use of derivatives of √dhā (vss. 2, 5, 7, 8, 9, 13, and 15, echoed in vs. 6 when √dhā is used not to describe the placement of fire but the establishment of wealth for the sacrificers). The placement of fire is also connected to the words of the priests. The chanters “bring together” Agni as their Hotar (vs. 1); gods originally gave rise to Agni through their “insights” (vs. 3); and Agni flourishes “through our good thoughts” (vs. 12). The close con
nection between the words of the sacrificial performers and the kindling of fire is reflected in the poet’s description of Agni as a kaví, a sage poet (vss. 4, 7, 10). This hymn also explicitly describes or refers to the rites surrounding fire, some times connecting them with the character of the god Agni and often his role as Vaiśvānara, the sun. In 4d, for example, the poet puns on rā́jantam, which can describe Agni as both “ruling” (as it is translated there) and “shining” with his heavenly flame as fire is kindled. In verse 9 the three kindling sticks may refer to the three fires set to the west, south, and east that surround the sacrificial area, which represents the earth. Thus Agni as the ritual fires around the sacrificial ground is also Agni as the sun, which encircles the earth. And in verse 12, as Geldner rightly remarks, the course of Agni is both the course of the sun and the paryagnikaraṇa, the rite of carrying the fire around the sacrificial animal.
At the end of the hymn, having set the fire in place, the poet turns to the Fire to beg for easy travel, for the prizes of victory in the sacrificial contest, and for wealth.

01 वैश्वानराय धिषणामृतावृधे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वैश्वानरा᳓य धिष᳓णाम् ऋतावृ᳓धे
घृतं᳓ न᳓ पूत᳓म् अग्न᳓ये जनामसि
द्विता᳓ हो᳓तारम् म᳓नुषश् च वाघ᳓तो
धिया᳓ र᳓थं न᳓ कु᳓लिशः स᳓म् ऋण्वति

02 स रोचयज्जनुषा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ रोचयज् जनु᳓षा रो᳓दसी उभे᳓
स᳓ मातरो᳓र् अभवत् पुत्र᳓ ई᳓डियः
हव्यवा᳓ळ् अग्नि᳓र् अज᳓रश् च᳓नोहितो
दूळ᳓भो विशा᳓म् अ᳓तिथिर् विभा᳓वसुः

03 क्रत्वा दक्षस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

क्र᳓त्वा द᳓क्षस्य त᳓रुषो वि᳓धर्मणि
देवा᳓सो अग्निं᳓ जनयन्त चि᳓त्तिभिः
रुरुचान᳓म् भानु᳓ना ज्यो᳓तिषा महा᳓म्
अ᳓त्यं न᳓ वा᳓जं सनिष्य᳓न्न् उ᳓प ब्रुवे

04 आ मन्द्रस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ मन्द्र᳓स्य सनिष्य᳓न्तो व᳓रेणियं
वृणीम᳓हे अ᳓ह्रयं वा᳓जम् ऋग्मि᳓यम्
राति᳓म् भृ᳓गूणाम् उशि᳓जं कवि᳓क्रतुम्
अग्निं᳓ रा᳓जन्तं दिविये᳓न शोचि᳓षा

05 अग्निं सुम्नाय - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निं᳓ सुम्ना᳓य दधिरे पुरो᳓ ज᳓ना
वा᳓जश्रवसम् इह᳓ वृक्त᳓बर्हिषः
यत᳓स्रुचः सुरु᳓चं विश्व᳓देवियं
रुद्रं᳓ यज्ञा᳓नां सा᳓धदिष्टिम् अप᳓साम्

06 पावकशोचे तव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓वाकशोचे त᳓व हि᳓ क्ष᳓यम् प᳓रि
हो᳓तर् यज्ञे᳓षु वृक्त᳓बर्हिषो न᳓रः
अ᳓ग्ने दु᳓व इछ᳓मानास आ᳓पियम्
उ᳓पासते द्र᳓विणं धेहि ते᳓भियः

07 आ रोदसी - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ रो᳓दसी अपृणद् आ᳓ सु᳓वर् मह᳓ज्
जातं᳓ य᳓द् एनम् अप᳓सो अ᳓धारयन्
सो᳓ अध्वरा᳓य प᳓रि णीयते कवि᳓र्
अ᳓त्यो न᳓ वा᳓जसातये च᳓नोहितः

08 नमस्यत हव्यदातिम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नमस्य᳓त हव्य᳓दातिं सुअध्वरं᳓
दुवस्य᳓त द᳓मियं जात᳓वेदसम्
रथी᳓र् ऋत᳓स्य बृहतो᳓ वि᳓चर्षणिर्
अग्नि᳓र् देवा᳓नाम् अभवत् पुरो᳓हितः

09 तिस्रो यह्वस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तिस्रो᳓ यह्व᳓स्य समि᳓धः प᳓रिज्मनो
अग्ने᳓र् अपुनन्न् उशि᳓जो अ᳓मृत्यवः
ता᳓साम् ए᳓काम् अ᳓दधुर् म᳓र्तिये भु᳓जम्
उलोक᳓म्† उ द्वे᳓ उ᳓प जामि᳓म् ईयतुः

10 विशां कविम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

विशां᳓ कविं᳓ विश्प᳓तिम् मा᳓नुषीर् इ᳓षः
सं᳓ सीम् अकृण्वन् स्व᳓धितिं न᳓ ते᳓जसे
स᳓ उद्व᳓तो निव᳓तो याति वे᳓विषत्
स᳓ ग᳓र्भम् एषु᳓ भु᳓वनेषु दीधरत्

11 स जिन्वते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ जिन्वते जठ᳓रेषु प्रजज्ञिवा᳓न्
वृ᳓षा चित्रे᳓षु ना᳓नदन् न᳓ सिंहः᳓
वैश्वानरः᳓ पृथुपा᳓जा अ᳓मर्तियो
व᳓सु र᳓त्ना द᳓यमानो वि᳓ दाशु᳓षे

12 वैश्वानरः प्रत्नथा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वैश्वानरः᳓ प्रत्न᳓था ना᳓कम् आ᳓रुहद्
दिव᳓स् पृष्ठ᳓म् भ᳓न्दमानः सुम᳓न्मभिः
स᳓ पूर्वव᳓ज् जन᳓यञ् जन्त᳓वे ध᳓नं
समान᳓म् अ᳓ज्मम् प᳓रि एति जा᳓गृविः

13 ऋतावानं यज्ञियम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋता᳓वानं यज्ञि᳓यं वि᳓प्रम् उक्थि᳓यम्
आ᳓ यं᳓ दधे᳓ मातरि᳓श्वा दिवि᳓ क्ष᳓यम्
तं᳓ चित्र᳓यामं ह᳓रिकेशम् ईमहे
सुदीति᳓म् अग्निं᳓ सुविता᳓य न᳓व्यसे

14 शुचिं न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शु᳓चिं न᳓ या᳓मन्न् इषिरं᳓ सुवर्दृ᳓शं
केतुं᳓ दिवो᳓ रोचनस्था᳓म् उषर्बु᳓धम्
अग्नि᳓म् मूर्धा᳓नं दिवो᳓ अ᳓प्रतिष्कुतं
त᳓म् ईमहे न᳓मसा वाजि᳓नम् बृह᳓त्

15 मन्द्रं होतारम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मन्द्रं᳓ हो᳓तारं शु᳓चिम् अ᳓द्वयाविनं
द᳓मूनसम् उक्थि᳓यं विश्व᳓चर्षणिम्
र᳓थं न᳓ चित्रं᳓ व᳓पुषाय दर्शत᳓म्
म᳓नुर्हितं स᳓दम् इ᳓द् राय᳓ ईमहे