००१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

वैश्वामित्रे तृतीये पञ्चानुवाकाः । तत्र प्रथमेऽनुवाके द्वादश सूक्तानि । तत्र ’ सोमस्य मा ’ इति त्रयोविंशत्यृचं प्रथमं सूक्तम् । तथा चानुक्रान्तं-’ सोमस्य त्र्यधिका ’ इति । अस्य मण्डलद्रष्टा विश्वामित्र ऋषिः । अनुक्तत्वात् त्रिष्टुप् छन्दः । ’ मण्डलादिष्वाग्नेयम् ’ इति परिभाषयाग्निर्देवता । प्रातरनुवाकाश्विनशस्त्रयोस्त्रैष्टुभे छन्दसि विनियोगः । तथा च सूत्रितं-’ सोमस्य मा तवसं प्रत्यग्निरुषस इति त्रीणि ’ ( आश्व. श्रौ. ४. १३) इति ।।

Jamison Brereton

1 (235)
Agni
Viśvāmitra Gāthina
23 verses: triṣṭubh
In our interpretation, Agni opens the hymn with a declaration that the priests have kindled him to carry the oblations. The poet and the priests then confirm that they have indeed laid the fire to begin the rite. Implied in the first two verses is thus the birth of the sacrificial fire, and the birth of Agni then becomes the central theme of the hymn. The first part of the hymn (vss. 3–14) reflects not only on the birth of the ritual fire, but also on Agni’s ultimate birth from the waters. Indeed, throughout much of the first half of the hymn, the verses can be taken as describing either the birth of the ritual fire or the ultimate birth of Agni or both. The poem thus merges Agni’s original or ultimate birth among the waters and his birth here in the sacrifice to the accompaniment of the priestly recitations. This poetic strategy complicates the translation and interpretation of the hymn. For example, verse 4 refers to the “seven young women,” who are also the mares who tend to Agni (4cd) and who

reappear again in verses 6 and 9. In verse 4 these seven women are likely the riv ers, as Geldner rightly notes, but in verse 6 they are identified, unexpectedly, as the voices of the seven priests of the soma rite. Retrospectively, therefore, we can view these women as both the rivers and the voices. Similarly in verse 11 the “kindred
sisters” might be the rivers, or they might again be the voices of the priests. The identity of Agni’s father also complicates the story of Agni’s birth. In verse 10 Agni gives rise to Agni, and therefore Agni is also his own father. But then who is the father in verse 9? Geldner and Renou think that his father there is Heaven, Heaven’s udder the raincloud, and therefore the fire here is lightning. More likely, however, the reference is to the ritual fire. If so, then the father in verse 9 might be the priest churning the fire, the udder his voice, and the udder’s “spurts and streams” the words of the priest. Or, again in light of verse 10, the father might be Agni, who nurtures himself through the “spurts and streams” of his spreading flames. Or, just as in the case of the “seven young women,” the poet may intend several of these possibilities.
As Geldner notes, from verse 15 the poet more unambiguously addresses the ritual fire, though he does return to the theme of Agni’s births in verse 20. This time, though, the reference may be not only to the ultimate origins of Agni but also and primarily to the ritual fires of long ago and the ritual fire of the present.

01 सोमस्य मा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सो᳓मस्य मा तव᳓सं व᳓क्षि अग्ने
व᳓ह्निं चकर्थ विद᳓थे य᳓जध्यै
देवाँ᳓ अ᳓छा दी᳓दियद् युञ्जे᳓ अ᳓द्रिं
शमाये᳓ अग्ने तनु᳓वं जुषस्व

02 प्राञ्चं यज्ञम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रा᳓ञ्चं यज्ञं᳓ चकृम व᳓र्धतां गीः᳓
समि᳓द्भिर् अग्निं᳓ न᳓मसा दुवस्यन्
दिवः᳓ शशासुर् विद᳓था कवीनां᳓
गृ᳓त्साय चित् तव᳓से गातु᳓म् ईषुः

03 मयो दधे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

म᳓यो दधे मे᳓धिरः पूत᳓दक्षो
दिवः᳓ सुब᳓न्धुर् जनु᳓षा पृथिव्याः᳓
अ᳓विन्दन्न् उ दर्शत᳓म् अप्सु᳓ अन्त᳓र्
देवा᳓सो अग्नि᳓म् अप᳓सि स्व᳓सॄणाम्

04 अवर्धयन्त्सुभगं सप्त - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓वर्धयन् सुभ᳓गं सप्त᳓ यह्वीः᳓
श्वेतं᳓ जज्ञान᳓म् अरुष᳓म् महित्वा᳓
शि᳓शुं न᳓ जात᳓म् अभि᳓ आरुर् अ᳓श्वा
देवा᳓सो अग्निं᳓ ज᳓निमन् वपुष्यन्

05 शुक्रेभिरङ्गै रज - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शुक्रे᳓भिर् अ᳓ङ्गै र᳓ज आततन्वा᳓न्
क्र᳓तुम् पुनानः᳓ कवि᳓भिः पवि᳓त्रैः
शोचि᳓र् व᳓सानः प᳓रि आ᳓युर् अपां᳓
श्रि᳓यो मिमीते बृहती᳓र् अ᳓नूनाः

06 वव्राजा सीमनदतीरदब्धा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वव्रा᳓जा सीम् अ᳓नदतीर् अ᳓दब्धा
दिवो᳓ यह्वी᳓र् अ᳓वसाना अ᳓नग्नाः
स᳓ना अ᳓त्र युवत᳓यः स᳓योनीर्
ए᳓कं ग᳓र्भं दधिरे सप्त᳓ वा᳓णीः

07 स्तीर्णा अस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स्तीर्णा᳓ अस्य संह᳓तो विश्व᳓रूपा
घृत᳓स्य यो᳓नौ स्रव᳓थे म᳓धूनाम्
अ᳓स्थुर् अ᳓त्र धेन᳓वः पि᳓न्वमाना
मही᳓ दस्म᳓स्य मात᳓रा समीची᳓

08 बभ्राणः सूनो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

बभ्राणः᳓ सूनो सहसो वि᳓ अद्यौद्
द᳓धानः शुक्रा᳓ रभसा᳓ व᳓पूंषि
श्चो᳓तन्ति धा᳓रा म᳓धुनो घृत᳓स्य
वृ᳓षा य᳓त्र वावृधे᳓ का᳓वियेन

09 पितुश्चिदूधर्जनुषा विवेद - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पितु᳓श् चिद् ऊ᳓धर् जनु᳓षा विवेद
वि᳓ अस्य धा᳓रा असृजद् वि᳓ धे᳓नाः
गु᳓हा च᳓रन्तं स᳓खिभिः शिवे᳓भिर्
दिवो᳓ यह्वी᳓भिर् न᳓ गु᳓हा बभूव

10 पितुश्च गर्भम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पितु᳓श् च ग᳓र्भं जनितु᳓श् च बभ्रे
पूर्वी᳓र् ए᳓को अधयत् पी᳓पियानाः
वृ᳓ष्णे सप᳓त्नी शु᳓चये स᳓बन्धू
उभे᳓ अस्मै मनुषि᳓ये नि᳓ पाहि

11 उरौ महाँ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उरउ᳓ महाँ᳓ अनिबाधे᳓ ववर्ध
आ᳓पो अग्निं᳓ यश᳓सः सं᳓ हि᳓ पूर्वीः᳓
ऋत᳓स्य यो᳓नाव् अशयद् द᳓मूना
जामीना᳓म् अग्नि᳓र् अप᳓सि स्व᳓सॄणाम्

12 अक्रो न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अक्रो᳓ न᳓ बभ्रिः᳓ समिथे᳓ मही᳓नां
दिदृक्षे᳓यः सून᳓वे भा᳓ऋजीकः
उ᳓द् उस्रि᳓या ज᳓निता यो᳓ जजा᳓न
अपां᳓ ग᳓र्भो नृ᳓तमो यह्वो᳓ अग्निः᳓

13 अपां गर्भम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अपां᳓ ग᳓र्भं दर्शत᳓म् ओ᳓षधीनां
व᳓ना जजान सुभ᳓गा वि᳓रूपम्
देवा᳓सश् चिन् म᳓नसा सं᳓ हि᳓ जग्मुः᳓
प᳓निष्ठं जातं᳓ तव᳓सं दुवस्यन्

14 बृहन्त इद्भानवो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

बृह᳓न्त इ᳓द् भान᳓वो भा᳓ऋजीकम्
अग्निं᳓ सचन्त विद्यु᳓तो न᳓ शुक्राः᳓
गु᳓हेव वृद्धं᳓ स᳓दसि स्वे᳓ अन्त᳓र्
अपार᳓ ऊर्वे᳓ अमृ᳓तं दु᳓हानाः

15 ईळे च - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ई᳓ळे च त्वा य᳓जमानो हवि᳓र्भिर्
ई᳓ळे सखित्वं᳓ सुमतिं᳓ नि᳓कामः
देवइ᳓र् अ᳓वो मिमीहि सं᳓ जरित्रे᳓
र᳓क्षा च नो द᳓मियेभिर् अ᳓नीकैः

16 उपक्षेतारस्तव सुप्रणीतेऽग्ने - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उपक्षेता᳓रस् त᳓व सुप्रणीते
अ᳓ग्ने वि᳓श्वानि ध᳓निया द᳓धानाः
सुरे᳓तसा श्र᳓वसा तु᳓ञ्जमाना
अभि᳓ ष्याम पृतनायूँ᳓र् अ᳓देवान्

17 आ देवानामभवः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ देवा᳓नाम् अभवः केतु᳓र् अग्ने
मन्द्रो᳓ वि᳓श्वानि का᳓वियानि विद्वा᳓न्
प्र᳓ति म᳓र्ताँ अवासयो द᳓मूना
अ᳓नु देवा᳓न् रथिरो᳓ यासि सा᳓धन्

18 नि दुरोणे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नि᳓ दुरोणे᳓ अमृ᳓तो म᳓र्तियानां
रा᳓जा ससाद विद᳓थानि सा᳓धन्
घृत᳓प्रतीक उर्विया᳓ वि᳓ अद्यौद्
अग्नि᳓र् वि᳓श्वानि का᳓वियानि विद्वा᳓न्

19 आ नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नो गहि सखिये᳓भिः शिवे᳓भिर्
महा᳓न् मही᳓भिर् ऊति᳓भिः सरण्य᳓न्
अस्मे᳓ रयि᳓म् बहुलं᳓ सं᳓तरुत्रं
सुवा᳓चम् भागं᳓ यश᳓सं कृधी नः

20 एता ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एता᳓ ते अग्ने ज᳓निमा स᳓नानि
प्र᳓ पूर्विया᳓य नू᳓तनानि वोचम्
महा᳓न्ति वृ᳓ष्णे स᳓वना कृते᳓मा᳓
ज᳓न्मञ्-जन्मन् नि᳓हितो जात᳓वेदाः

21 जन्मञ्जन्मन्निहितो जातवेदा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ज᳓न्मञ्-जन्मन् नि᳓हितो जात᳓वेदा
विश्वा᳓मित्रेभिर् इध्यते अ᳓जस्रः
त᳓स्य वयं᳓ सुमतउ᳓ यज्ञि᳓यस्य
अ᳓पि भद्रे᳓ सौमनसे᳓ सियाम

22 इमं यज्ञम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इमं᳓ यज्ञं᳓ सहसावन् तुवं᳓ नो
देवत्रा᳓ धेहि सुक्रतो र᳓राणः
प्र᳓ यंसि होतर् बृहती᳓र् इ᳓षो नो
अ᳓ग्ने म᳓हि द्र᳓विणम् आ᳓ यजस्व

23 इळामग्ने पुरुदंसम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓ळाम् अग्ने पुरुदं᳓सं सनिं᳓ गोः᳓
शश्वत्तमं᳓ ह᳓वमानाय साध
सिया᳓न् नः सूनु᳓स् त᳓नयो विजा᳓वा
अ᳓ग्ने सा᳓ ते सुमति᳓र् भूतु अस्मे᳓