०४३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ प्रदक्षिणित् ’ इति तृचमेकादशं सूक्तं गार्त्समदं जागतम् । तथा चानुक्रान्तं-’ प्रदक्षिणिज्जागतं मध्येऽतिशक्वर्यष्टिर्वा ’ इति । द्वितीयातिशक्वरी अष्टिर्वा । इतरे जगत्यौ । कपिञ्जलरूपीन्द्रो देवता । वयसाममनोज्ञां वाचं श्रुत्वा ’ प्रदक्षिणित् ’ इति सूक्तं जपेत् । सूत्रं प्रागेवोदाहृतम् ।।

Jamison Brereton

43 (234)
Omen-Bird
Gr̥tsamada
3 verses: jagatī 1, 3, atiśakvarī or aṣṭi 2
See the remarks on II.42.

Jamison Brereton Notes

Omen-bird This hymn seems late enough to allow terms like sāma(n) √gā, gāyatrá-, and traiṣṭubha- to have their full technical ritual meanings, and I have so rendered them.

01 प्रदक्षिणिदभि गृणन्ति - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्रदक्षिनि᳓द् अभि᳓ गृणन्ति कार᳓वो
व᳓यो व᳓दन्त ऋतुथा᳓ शकु᳓न्तयः
उभे᳓ वा᳓चौ वदति सामगा᳓ इव
गायत्रं᳓ च त्रइ᳓ष्टुभं चा᳓नु राजति

02 उद्गातेव शकुने - अतिशक्वर्यष्टिर्वा

विश्वास-प्रस्तुतिः ...{Loading}...

उद्गाते᳓व शकुने सा᳓म गायसि
ब्रह्मपुत्र᳓ ऽव° स᳓वनेषु शंससि
वृ᳓षेव वाजी᳓ शि᳓शुमतीर् अपी᳓तिया
सर्व᳓तो नः शकुने भद्र᳓म् आ᳓ वद
विश्व᳓तो नः शकुने पु᳓ण्यम् आ᳓ वद

03 आवदंस्त्वं शकुने - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

आव᳓दंस् त्वं᳓ शकुने भद्र᳓म् आ᳓ वद
तूष्णी᳓म् आ᳓सीनः सुमतिं᳓ चिकिद्धि नः
य᳓द् उत्प᳓तन् व᳓दसि कर्करि᳓र् यथा
बृह᳓द् वदेम विद᳓थे सुवी᳓राः