०४२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ कनिक्रदत् ’ इति तृचं दशमं सूक्तम् । अत्रैवमनुक्रमणिका- कनिक्रदत्तृचम् ’ इति । मण्डलद्रष्टा गृत्समदोऽस्य ऋषिः । त्रिष्टुप् छन्दः । कपिञ्जलरूपीन्द्रो देवता । वयसाममनोज्ञां वाचं श्रुत्वैतत्सूक्तं जपेत् । सूत्रितं च- ’ वयसाममनोज्ञां वाचः श्रुत्वा कनिक्रदज्जनुषं प्रब्रुवाण इति सूक्ते जपेत् ’ (आश्व. गृ. ३.१०. ९) इति ।।

Jamison Brereton

42 (233)
Omen-Bird
Gr̥tsamada
3 verses: triṣṭubh
The last two brief hymns in Maṇḍala II have a popular character and call on the “omen bird” (śakúni / śakúnti) to produce only auspicious cries. The second of the two (II.43) playfully compares the bird to various priests in the ritual and is thus reminiscent of the famous “Frog Hymn” (VII.103), which identifies the behavior of frogs in the monsoon with that of priests.

Jamison Brereton Notes

Omen-bird

01 कनिक्रदज्जनुषं प्रब्रुवाण - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

क᳓निक्रदज् जनु᳓षम् प्रब्रुवाण᳓
इ᳓यर्ति वा᳓चम् अरिते᳓व ना᳓वम्
सुमङ्ग᳓लश् च शकुने भ᳓वासि
मा᳓ त्वा का᳓ चिद् अभिभा᳓ वि᳓श्व्या विदत्

02 मा त्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मा᳓ त्वा श्येन᳓ उ᳓द् वधीन् मा᳓ सुपर्णो᳓
मा᳓ त्वा विदद् इ᳓षुमान् वीरो᳓ अ᳓स्ता
पि᳓त्र्याम् अ᳓नु प्रदि᳓शं क᳓निक्रदत्
सुमङ्ग᳓लो भद्रवादी᳓ वदेह᳓

03 अव क्रन्द - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓व क्रन्द दक्षिणतो᳓ गृहा᳓णां
सुमङ्ग᳓लो भद्रवादी᳓ शकुन्ते
मा᳓ न स्तेन᳓ ईशत मा᳓घ᳓शंसो
बृह᳓द् वदेम विद᳓थे सुवी᳓राः