०४०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ सोमापूषणा ’ इति षडृचमष्टमं सूक्तं गार्त्समदं त्रैष्टुभं सोमापूषदेवताकम् । तथा चानुक्रान्तं- ’ सोमापूषणा षट् सोमापौष्णमन्त्योऽर्धर्चोऽप्यदितेः ’ इति । ’ अवतु देव्यदितिः ’ इत्यस्य अनयार्धर्चस्य अदितिर्देवता। सोमापौष्णे पशौ वपापुरोडाशहविषामाद्यास्तिस्रः क्रमेणानुवाक्या उत्तरास्तिस्रो याज्याः । ’ अग्नीषोमौ ’ इति खण्डे सूत्रितं-’ सोमापूषणा जनना रयीणाम् ’ ( आश्व. श्रौ. ३. ८) इति ।।

Jamison Brereton

40 (231)
Soma and Pūsaṇ
Gr̥tsamada
6 verses: triṣṭubh
Soma and Pūṣan are addressed jointly in just this one hymn, and it is difficult to see what brings them together here. The last three verses of this six-verse hymn contrast their functions; in the first three they act jointly, but these actions are not particu larly characteristic of either of the two.

Jamison Brereton Notes

Soma and Pūṣan

01 सोमापूषणा जनना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सो᳓मा-पूषणा ज᳓नना रयीणां᳓
ज᳓नना दिवो᳓ ज᳓नना पृथिव्याः᳓ ।
जातौ᳓ वि᳓श्वस्य भु᳓वनस्य गोपौ᳓
देवा᳓ अकृण्वन्न् अमृ᳓तस्य ना᳓भिम् ॥

02 इमौ देवौ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इमौ᳓ देवौ᳓ जा᳓यमानौ जुषन्त+
इमौ᳓ त᳓मांसि गूहताम् अ᳓-जुष्टा
आभ्या᳓म् इ᳓न्द्रः पक्व᳓म् +++(पयोरूपम्)+++ आमा᳓स्व्+++(=अपक्वासु →तरुणीषु)+++ अन्तः᳓
सोमा-पूष᳓भ्यां जनद् उस्रि᳓यासु+++(=गोषु)+++ ॥

03 सोमापूषणा रजसो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सो᳓मापू᳓षणा र᳓जसो विमा᳓नं
सप्त᳓चक्रं र᳓थम् अ᳓विश्वमिन्वम्
विषूवृ᳓तम् म᳓नसा युज्य᳓मानं
तं᳓ जिन्वथो वृ᳓षणा प᳓ञ्चरश्मिम्

04 दिव्यट्न्यः सदनम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दिवि᳓ अन्यः᳓ स᳓दनं चक्र᳓ उच्चा᳓
पृथिव्या᳓म् अन्यो᳓ अ᳓धि अन्त᳓रिक्षे
ता᳓व् अस्म᳓भ्यम् पुरुवा᳓रम् पुरुक्षुं᳓
राय᳓स् पो᳓षं वि᳓ ष्यतां ना᳓भिम् अस्मे᳓

05 विश्वान्यन्यो भुवना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓श्वानि अन्यो᳓ भु᳓वना जजा᳓न
वि᳓श्वम् अन्यो᳓ अभिच᳓क्षाण एति
सो᳓मापूषणाव् अ᳓वतं धि᳓यम् मे
युवा᳓भ्यां वि᳓श्वाः पृ᳓तना जयेम

06 धियं पूषा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

धि᳓यम् पूषा᳓ जिन्वतु विश्वमिन्वो᳓
रयिं᳓ सो᳓मो रयिप᳓तिर् दधातु
अ᳓वतु देवी᳓ अ᳓दितिर् अनर्वा᳓
बृह᳓द् वदेम विद᳓थे सुवी᳓राः