०३७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

।। श्रीगणेशाय नमः ।।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ।।

अथ द्वितीयाष्टकस्याष्टमोऽध्याय आरभ्यते । द्वितीयमण्डलस्य चतुर्थानुवाके ’ मन्दस्व ’ इति षडृचं पञ्चमं सूक्तं गार्त्समदम् । ’ मन्दस्व ’ इत्यनुक्रान्तम् । पूर्वत्र ’ ऋतव्यं तु जागतं तु ’ इति तुशब्दप्रयोगादिदमपि जागतमृतव्यम् । तत्राद्याश्चतस्र ऋचो द्रविणोदोदेवताकाः पञ्चम्याश्विनी षष्ठ्याग्नेयी । दशरात्रे षष्ठेऽहनि ऋतुयाजेषु प्रैषानृक्शिरस्कान् कृत्वा तैः प्रैषैः प्रेषितव्यं यष्टव्यं च । तत्र सप्तमादीनां प्रैषाणामुपरिष्टात् ’ मन्दस्व ’ इत्याद्याः षडृचः क्रमेण प्रक्षेपणीयाः । सूत्रं तु पूर्वमेवोदाहृतम् ।।

Jamison Brereton

37 (228)
Sequential Deities ( for the R̥tugrahas)
Gr̥tsamada
6 verses: jagatī
See the remarks on the previous hymn, as well as I.15.7–10. In that latter hymn, as in this one, four verses are devoted to the offerings to the shadowy figure of the Wealth-Giver (Draviṇodā); these verses may be there merely to bring the number of offerings to twelve, to correspond with the secondary interpretation of r̥tú as season, and hence to match the number of offerings to the months of the year, as discussed in the introduction to I.15.

Jamison Brereton Notes

Ṛtugraha

01 मन्दस्व होत्रादनु - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

म᳓न्दस्व होत्रा᳓द् अ᳓नु जो᳓षम् अ᳓न्धसो
अ᳓ध्वर्यवः स᳓ पूर्णां᳓ वष्टि आसि᳓चम्
त᳓स्मा एत᳓म् भरत तद्वशो᳓ ददि᳓र्
होत्रा᳓द् सो᳓मं द्रविणोदः पि᳓ब र्तु᳓भिः

02 यमु पूर्वमहुवे - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓म् उ पू᳓र्वम् अ᳓हुवे त᳓म् इदं᳓ हुवे
से᳓द् उ ह᳓व्यो ददि᳓र् यो᳓ ना᳓म प᳓त्यते
अध्वर्यु᳓भिः प्र᳓स्थितं सोमिय᳓म् म᳓धु
पोत्रा᳓त् सो᳓मं द्रविणोदः पि᳓ब र्तु᳓भिः

03 मेद्यन्तु ते - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

मे᳓द्यन्तु ते व᳓ह्नयो ये᳓भिर् ई᳓यसे
अ᳓रिषण्यन् वीळयस्वा वनस्पते
आयू᳓या धृ᳓ष्णो अभिगू᳓रिया तुवं᳓
नेष्ट्रा᳓त् सो᳓मं द्रविणोदः पि᳓ब र्तु᳓भिः

04 अपाद्धोत्रादुत पोत्रादमत्तोत - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓पाद् धोत्रा᳓द् उत᳓ पोत्रा᳓द् अमत्त
उत᳓ नेष्ट्रा᳓द् अजुषत प्र᳓यो हित᳓म्
तुरी᳓यम् पा᳓त्रम् अ᳓मृक्तम् अ᳓मर्तियं
द्रविणोदाः᳓ पिबतु द्राविणोदसः᳓

05 अर्वाञ्चमद्य यय्यम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अर्वा᳓ञ्चम् अद्य᳓ ययि᳓यं नृवा᳓हणं
र᳓थं युञ्जाथाम् इह᳓ वां विमो᳓चनम्
पृङ्क्तं᳓ हवीं᳓षि म᳓धुना᳓ हि᳓ कं गत᳓म्
अ᳓था सो᳓मम् पिबतं वाजिनीवसू

06 जोष्यग्ने समिधम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

जो᳓षि अग्ने समि᳓धं जो᳓षि आ᳓हुतिं
जो᳓षि ब्र᳓ह्म ज᳓नियं जो᳓षि सुष्टुति᳓म्
वि᳓श्वेभिर् वि᳓श्वाँ ऋतु᳓ना वसो मह᳓
उश᳓न् देवाँ᳓ उशतः᳓ पायया हविः᳓