०३४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ धारावराः ’ इति पञ्चदर्शचं द्वितीयं सूक्तं गार्त्समदं मारुतम् । अन्त्या त्रिष्टुप् शिष्टा जगत्यः ’ । तथा चानुक्रान्तं- धारावरा मारुतं त्रिष्टुबन्तम् इति । पृष्ठ्याभिप्लवषडहयोस्तृतीयेऽहन्याग्निमारुतशस्त्रस्य इदं मारुतनिविद्धानम् । सूत्रितं च– वैश्वानराय धिषणां धारावरा मरुतस्त्वमग्ने प्रथमो अङ्गिरा इत्याग्निमारुतम् ’ ( आश्व. श्रौ. ७. ७) इति ।।

Jamison Brereton

34 (225)
Maruts
Gr̥tsamada
15 verses: jagatī, except triṣṭubh 15
Following immediately on a hymn dedicated to the Maruts’ father Rudra, this hymn describes the Maruts, with the extravagant and imaginative phraseology typically used of them, as the thunderstorm, while urging them to come to the singer’s sac rifice. About midway through the hymn (starting in vss. 6–7), the focus shifts to the benefits the Maruts can provide the singer, in inspiring his hymn, protecting him against enemies, and offering gifts. The naturalistic description remains, however; note, for example, the sequential imagery in verse 13, which proceeds from thunder, through lightning and rain, to the post-storm clearing and rainbow.
The hymn also contains a reference (vs. 2) to the enigmatic and sometimes para doxical parentage and birth of the Maruts from Pr̥śni and Rudra. The motif of the cow, especially the milk-cow with her swollen udder, runs through the hymn (e.g., vss. 1, 2, 5, 6, 8, 10, 12), with reference sequentially or simultaneously to dawns, clouds, the sacrificer’s soma-pressings, and the Maruts’ gift to him. This multivalent image helps to unify the hymn as it moves from naturalistic description to ritual entreaty.

Jamison Brereton Notes

Maruts A very difficult hymn, whose problems were perhaps not sufficiently signalled in the published introduction.

01 धारावरा मरुतो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

धारावरा᳓ मरु᳓तो धृष्णु᳓ओजसो
मृगा᳓ न᳓ भीमा᳓स् त᳓विषीभिर् अर्चि᳓नः
अग्न᳓यो न᳓ शुशुचाना᳓ ऋजीषि᳓णो
भृ᳓मिं ध᳓मन्तो अ᳓प गा᳓ अवृण्वत

02 द्यावो न - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

द्या᳓वो न᳓ स्तृ᳓भिश् चितयन्त खादि᳓नो
वि᳓ अभ्रि᳓या न᳓ द्युतयन्त वृष्ट᳓यः
रुद्रो᳓ य᳓द् वो मरुतो रुक्मवक्षसो
वृ᳓षा᳓जनि पृ᳓श्णियाः शुक्र᳓ ऊ᳓धनि

03 उक्षन्ते अश्वाँ - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

उक्ष᳓न्ते अ᳓श्वाँ अ᳓तियाँ इवाजि᳓षु
नद᳓स्य क᳓र्णैस् तुरयन्त आशु᳓भिः
हि᳓रण्यशिप्रा मरुतो द᳓विध्वतः
पृक्षं᳓ याथ पृ᳓षतीभिः समन्यवः

04 पृक्षे ता - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

पृक्षे᳓ ता᳓ वि᳓श्वा भु᳓वना ववक्षिरे
मित्रा᳓य वा स᳓दम् आ᳓ जीर᳓दानवः
पृ᳓षदश्वासो अनवभ्र᳓राधस
ऋजिप्या᳓सो न᳓ वयु᳓नेषु धूर्ष᳓दः

05 इन्धन्वभिर्धेनुभी रप्शदूधभिरध्वस्मभिः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्धन्वभिर् धेनु᳓भी रप्श᳓दूधभिर्
अध्वस्म᳓भिः पथि᳓भिर् भ्राजदृष्टयः
आ᳓ हंसा᳓सो न᳓ स्व᳓सराणि गन्तन
म᳓धोर् म᳓दाय मरुतः समन्यवः

06 आ नो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नो ब्र᳓ह्माणि मरुतः समन्यवो
नरां᳓ न᳓ शं᳓सः स᳓वनानि गन्तन
अ᳓श्वाम् इव पिप्यत धेनु᳓म् ऊ᳓धनि
क᳓र्ता धि᳓यं जरित्रे᳓ वा᳓जपेशसम्

07 तं नो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ नो दात मरुतो वाजि᳓नं र᳓थ
आपान᳓म् ब्र᳓ह्म चित᳓यद् दिवे᳓-दिवे
इ᳓षं स्तोतृ᳓भ्यो वृज᳓नेषु कार᳓वे
सनि᳓म् मेधा᳓म् अ᳓रिष्टं दुष्ट᳓रं स᳓हः

08 यद्युञ्जते मरुतो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् युञ्ज᳓ते मरु᳓तो रुक्म᳓वक्षसो
अ᳓श्वान् र᳓थेषु भ᳓ग आ᳓ सुदा᳓नवः
धेनु᳓र् न᳓ शि᳓श्वे स्व᳓सरेषु पिन्वते
ज᳓नाय रात᳓हविषे मही᳓म् इ᳓षम्

09 यो नो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ नो मरुतो वृक᳓ताति म᳓र्तियो
रिपु᳓र् दधे᳓ वसवो र᳓क्षता रिषः᳓
वर्त᳓यत त᳓पुषा चक्रि᳓याभि᳓ त᳓म्
अ᳓व रुद्रा अश᳓सो हन्तना व᳓धः

10 चित्रं तद्वो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

चित्रं᳓ त᳓द् वो मरुतो या᳓म चेकिते
पृ᳓श्न्या य᳓द् ऊ᳓धर् अ᳓पि आप᳓यो दुहुः᳓
य᳓द् वा निदे᳓ न᳓वमानस्य रुद्रियास्
त्रितं᳓ ज᳓राय जुरता᳓म् अदाभियाः

11 तान्वो महो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ता᳓न् वो महो᳓ मरु᳓त एवया᳓वनो
वि᳓ष्णोर् एष᳓स्य प्रभृथे᳓ हवामहे
हि᳓रण्यवर्णान् ककुहा᳓न् यत᳓स्रुचो
ब्रह्मण्य᳓न्तः शं᳓सियं रा᳓ध ईमहे

12 ते दशग्वाः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ते᳓ द᳓शग्वाः प्रथमा᳓ यज्ञ᳓म् ऊहिरे
ते᳓ नो हिन्वन्तु उष᳓सो वि᳓उष्टिषु
उषा᳓ न᳓ रामी᳓र् अरुणइ᳓र् अ᳓पोर्णुते
महो᳓ ज्यो᳓तिषा शुचता᳓ गो᳓अर्णसा

13 ते क्षोणीभिररुणेभिर्नाञ्जिभी - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ते᳓ क्षोणी᳓भिर् अरुणे᳓भिर् न᳓ अञ्जि᳓भी
रुद्रा᳓ ऋत᳓स्य स᳓दनेषु वावृधुः
निमे᳓घमाना अ᳓तियेन पा᳓जसा
सुश्चन्द्रं᳓ व᳓र्णं दधिरे सुपे᳓शसम्

14 ताँ इयानो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ताँ᳓ इयानो᳓ म᳓हि व᳓रूथम् ऊत᳓य
उ᳓प घे᳓द् एना᳓ न᳓मसा गृणीमसि
त्रितो᳓ न᳓ या᳓न् प᳓ञ्च हो᳓तॄन् अभि᳓ष्टय
आवव᳓र्तद् अ᳓वराञ् चक्रि᳓या᳓वसे

15 यया रध्रम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓या रध्र᳓म् पार᳓यथा᳓ति अं᳓हो
य᳓या निदो᳓ मुञ्च᳓थ वन्दिता᳓रम्
अर्वा᳓ची सा᳓ मरुतो या᳓ व ऊति᳓र्
ओ᳓ षु᳓ वाश्रे᳓व सुमति᳓र् जिगातु