०३३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

चतुर्थेऽनुवाके एकादश सूक्तानि । तत्र ’ आ ते पितः ’ इति पञ्चदशर्चं प्रथमं सूक्तं गृत्समदस्यार्षं त्रैष्टुभं रौद्रम् । अनुक्रान्तं च-’ आ ते पञ्चोना रौद्रम् ’ इति । शूलगवादिरुद्रयज्ञेषु अनेन सूक्तेन प्रतीचीं दिगुपस्थेया । सूत्रितं च-’ कद्रुद्रायेमा रुद्राया ते पितरिमा रुद्राय स्थिरधन्वन इति सर्वरुद्र- यज्ञेषु दिशामुपस्थानम् ’ ( आश्व. गृ, ४. ८.२३) इति । रुद्रदेवत्ये पशौ ’ आ ते पितः ’ इति हविषोऽनुवाक्या । सूत्रितं च-’ आ ते पितर्मरुतां सुम्नमेतु प्र बभ्रवे वृषभाय श्वितीच इति तिस्रः ’ ( आश्व. श्रौ. ३.८) इति । अत्र शौनकः-’ चतुर्दशीमुपोष्यैकां कृष्णस्य जुहुयाश्चरुम् । आतेसूक्तेन रौद्रेण प्रत्यृचं वाग्यतः शुचिः ।। पूर्वमाज्याहुतीर्हुत्वाथोपस्थाय च शंकरम् । हविःशेषेण वर्तेत एकान्तरमतन्द्रितः । पूर्णमासे जयेन्मृत्युं रोगैश्च परिमुच्यते ’ ( ऋग्वि. १. १६८-१७०) इति ।।

Jamison Brereton

33 (224)
Rudra
Gr̥tsamada
15 verses: triṣṭubh
Although under his transferred epithet Śiva (“kindly one”), Rudra has a grand career ahead of him in post-Vedic Hinduism, his role in Vedic, especially early Vedic, is relatively restrained. Only three complete R̥gvedic hymns are dedi cated to him (I.114 and VII.46, in addition to this one, as well as two hymns conjointly dedicated to Rudra and Soma, I.43 and VI.74). He is known espe cially as the father of the Maruts, and he has a dual nature: on the one hand, he is prone to anger and quick to dispatch his weapons, especially his arrows, at those who enrage him; on the other, he is a provider of healing remedies and of good luck.
The major part of this hymn is devoted to begging the god Rudra for his indul gence and his healing powers, but it also nervously expresses the hope that his venge ful assaults will be directed elsewhere. The dual nature of Rudra as both healer and avenger is thus on display, and his parentage of the Maruts begins the hymn (vs. 1) and is mentioned several times in the course of it.

Jamison Brereton Notes

Rudra This is a much anthologized hymn, fully translated by Macdonell in VRS, Doniger, and Maurer. Its popularity is not surprising: it’s lively and varied, but does not pose major difficulties, though it has its share of small knots.

Renou EVP XV.157-60.

01 आ ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ ते पितर् मरुतां सुम्न᳓म् एतु
मा᳓ नः सू᳓र्यस्य संदृ᳓शो युयोथाः
अभि᳓ नो वीरो᳓ अ᳓र्वति क्षमेत
प्र᳓ जायेमहि रुदर+ प्रजा᳓भिः

02 त्वादत्तेभी रुद्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वा᳓दत्तेभी रुदर+ शं᳓तमेभिः
शतं᳓ हि᳓मा अशीय भेषजे᳓भिः
वि᳓ अस्म᳓द् द्वे᳓षो वितरं᳓ वि᳓ अं᳓हो
वि᳓ अ᳓मीवाश् चातयस्वा वि᳓षूचीः

03 श्रेष्टो जातस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

श्रे᳓ष्ठो जात᳓स्य रुदर+ श्रिया᳓सि
तव᳓स्तमस् तव᳓सां वज्रबाहो
प᳓र्षि णः पार᳓म् अं᳓हसः सुअस्ति᳓
वि᳓श्वा अभी᳓ती र᳓पसो युयोधि

04 मा त्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मा᳓ त्वा रुद्र चुक्रुधामा न᳓मोभिर्
मा᳓ दु᳓ष्टुती वृषभ मा᳓ स᳓हूती
उ᳓न् नो वीराँ᳓ अर्पय भेषजे᳓भिर्
भिष᳓क्तमं त्वा भिष᳓जां शृणोमि

05 हवीमभिर्हवते यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ह᳓वीमभिर् ह᳓वते यो᳓ हवि᳓र्भिर्
अ᳓व स्तो᳓मेभी रुदरं᳓+ दिषीय
ऋदूद᳓रः सुह᳓वो मा᳓ नो अस्यइ᳓
बभ्रुः᳓ सुशि᳓प्रो रीरधन् मना᳓यै

06 उन्मा ममन्द - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓न् मा ममन्द वृषभो᳓ मरु᳓त्वान्
त्व᳓क्षीयसा व᳓यसा ना᳓धमानम्
घृ᳓णीव छाया᳓म् अरपा᳓ अशीय
आ᳓ विवासेयं रुदर᳓स्य+ सुम्न᳓म्

07 क्वट् स्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

कु᳓व स्य᳓ ते रुदर+ मॄळया᳓कुर्+
ह᳓स्तो यो᳓ अ᳓स्ति भेषजो᳓ ज᳓लाषः
अपभर्ता᳓ र᳓पसो दइ᳓वियस्य
अभी᳓ नु᳓ मा वृषभ चक्षमीथाः

08 प्र बभ्रवे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ बभ्र᳓वे वृषभा᳓य श्वितीचे᳓
महो᳓ महीं᳓ सुष्टुति᳓म् ईरयामि
नमस्या᳓ कल्मलीकि᳓नं न᳓मोभिर्
गृणीम᳓सि त्वेषं᳓ रुद्र᳓स्य ना᳓म

09 स्थिरेभिरङ्गैः पुरुरूप - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स्थिरे᳓भिर् अ᳓ङ्गैः पुरुरू᳓प उग्रो᳓
बभ्रुः᳓ शुक्रे᳓भिः पिपिशे हि᳓रण्यैः
ई᳓शानाद् अस्य᳓ भु᳓वनस्य भू᳓रेर्
न᳓ वा᳓ उ योषद् रुदरा᳓द्+ असुर्य᳡म्

10 अर्हन्बिभर्षि सायकानि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓र्हन् बिभर्षि सा᳓यकानि ध᳓न्वा᳓
ऽर्हन् निष्कं᳓+++(=हारम्)+++ यजतं᳓+++(=यजनीयम्)+++ विश्व᳓रूपम् ।
अ᳓र्हन्न् इदं᳓ दयसे वि᳓श्वम् अ᳓भ्वं+++(→अब्-भुवम् इति यजुर्वेदे)+++
न᳓ वा᳓ ओ᳓जीयो रुद्र त्व᳓द् अस्ति

11 स्तुहि श्रुतम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स्तुहि᳓ श्रुत᳓ङ् +++(रथ-)+++गर्त-स᳓दय्ँ यु᳓वानम्
मृग᳓न् न᳓ भीम᳓म्, उपहत्नु᳓म् उग्र᳓म् ।
मृडा᳓ जरित्रे᳓+++(=गायकाय)+++ रुद्र स्त᳓वानो+++(=स्तुतो)+++
अन्य᳓न् ते अस्म᳓न् नि᳓ वपन्तु से᳓नाः ।

12 कुमारश्चित्पितरं वन्दमानम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

कुमार᳓श् चित् पित᳓रं व᳓न्दमानम्
प्र᳓ति नानाम रुदरोपय᳓न्तम्+
भू᳓रेर् दाता᳓रं स᳓त्पतिं गृणीषे
स्तुत᳓स् तुव᳓म् भेषजा᳓ रासि अस्मे᳓

13 या वो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

या᳓ वो भेषजा᳓ मरुतः शु᳓चीनि
या᳓ शं᳓तमा वृ᳓षणो या᳓ मयोभु᳓
या᳓नि म᳓नुर् अ᳓वृणीता पिता᳓ नस्
ता᳓ शं᳓ च यो᳓श् च रुदर᳓स्य+ वश्मि

14 परि णो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓रि णो हेती᳓ रुदर᳓स्य+ वृज्याः
प᳓रि त्वेष᳓स्य दुर्मति᳓र् मही᳓ गात्
अ᳓व स्थिरा᳓ मघ᳓वद्भ्यस् तनुष्व
मी᳓ढ्वस् तोका᳓य त᳓नयाय मॄळ+

15 एवा बभ्रो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एवा᳓ बभ्रो वृषभ चेकितान
य᳓था देव न᳓ हृणीषे᳓ न᳓ हं᳓सि
हवनश्रु᳓न् नो रुदरेह᳓+ बोधि
बृह᳓द् वदेम विद᳓थे सुवी᳓राः