०३२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ अस्य मे ’ इत्यष्टर्चं दशमं सूक्तं गृत्समदस्यार्ष षष्ठयाद्यास्तिस्रोऽनुष्टुभः । शिष्टाः पञ्च जगत्यः । प्रथमा द्यावापृथिवीया ततो द्वे ऐन्द्र्यौ त्वाष्ट्र्यौ वा । ततो द्वे राकादेवत्ये द्वे सिनीवालीदेवत्यो अन्त्या गुङ्ग्वादिषड्देवताका । तथा चानुक्रान्तम्-’ अस्य मेऽष्टौ जागतं त्र्यनुष्टुबन्तम् । द्यावापृथिव्यैका द्वे ऐन्द्र्यौ त्वाष्ट्र्यौ वा द्वे द्वे राकासिनीवाल्योरन्त्या लिङ्गोक्तदेवता ’ इति । आभिप्लविके चतुर्थेऽहनि वैश्वदेवशस्त्रे आद्यस्तृचो द्यावापृथिवीयनिविद्धानः । तथा च सूत्रितम्-’ अस्य मे द्यावापृथिवी इति तिस्रस्ततं मे अप इति वैश्वदेवम् ’ ( आश्व. श्रौ. ७. ७) इति ।।

Jamison Brereton

32 (223)
Various Gods
Gr̥tsamada
8 verses: jagatī 1–5, anuṣṭubh 6–8
This is a composite hymn, whose structure is not entirely clear. The first three verses seem to belong together, addressing first Heaven and Earth (vs. 1) and then an unidentified male divinity (2–3), while the remaining five verses are addressed to various female divinities who are especially concerned with childbirth. However, the metrical structure does not accord with the conceptual structure, as the meter divides the hymn into verses 1–5 and 6–8.

Jamison Brereton Notes

Various Gods

01 अस्य मे - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्य मे॑ द्यावापृथिवी ऋताय॒तो भू॒तम॑वि॒त्री वच॑सः॒ सिषा॑सतः ।
ययो॒रायुः॑ प्रत॒रं ते इ॒दं पु॒र उप॑स्तुते वसू॒युर्वां॑ म॒हो द॑धे ॥

02 मा नो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

मा नो॒ गुह्या॒ रिप॑ आ॒योरह॑न्दभ॒न्मा न॑ आ॒भ्यो री॑रधो दु॒च्छुना॑भ्यः ।
मा नो॒ वि यौः॑ स॒ख्या वि॒द्धि तस्य॑ नः सुम्नाय॒ता मन॑सा॒ तत्त्वे॑महे ॥

03 अहेळता मनसा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अहे॑ळता॒ मन॑सा श्रु॒ष्टिमा व॑ह॒ दुहा॑नां धे॒नुं पि॒प्युषी॑मस॒श्चत॑म् ।
पद्या॑भिरा॒शुं वच॑सा च वा॒जिनं॒ त्वां हि॑नोमि पुरुहूत वि॒श्वहा॑ ॥

04 राकामहं सुहवाम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

रा॒काम् अ॒हँ सु॒हवाँ॑(=स्वाह्वानाम्) सुष्टु॒ती(त्या) हु॑वे(=आह्वयामि)
शृ॒णोतु॑ नस् सु॒भगा॒ बोध॑तु॒ त्मना॑ ।
सीव्य॒त्व् अप॑स्(=कर्म / गर्भापः) सू॒च्या ऽच्छि॑द्यमानया॒
ददा॑तु वी॒रँ श॒त-दा॑यम्(=दातारम्) उ॒क्थ्य॑म्(=प्रशंसनीयम्)(र४)

05 यास्ते राके - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

यास् ते॑ राके सुम॒तय॑स् सु॒पेश॑सो॒
याभि॒र् ददा॑सि दा॒शुषे॒ वसू॑नि ।
ताभि॑र् नो अ॒द्य सु॒मना॑ उ॒पाग॑हि
सहस्र-पो॒षँ सु॑भगे॒ ररा॑णा ।

06 सिनीवालि पृथुष्थुके - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सिनी॑वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा॑ ।
जु॒षस्व॑ ह॒व्यमाहु॑तं प्र॒जां दे॑वि दिदिड्ढि नः ॥

07 या सुबाहुः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

या सु॑बा॒हुः स्व॑ङ्गु॒रिः सु॒षूमा॑ बहु॒सूव॑री ।
तस्यै॑ वि॒श्पत्न्यै॑ ह॒विः सि॑नीवा॒ल्यै जु॑होतन ॥

08 या गुङ्गूर्या - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

या गु॒ङ्गूर्या सि॑नीवा॒ली या रा॒का या सर॑स्वती ।
इ॒न्द्रा॒णीम॑ह्व ऊ॒तये॑ वरुणा॒नीं स्व॒स्तये॑ ॥