०२९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ धृतव्रताः ’ इति सप्तर्चं सप्तमं सूक्तं गार्त्समदस्य कूर्मस्य गृत्समदस्य वा आर्षं त्रैष्टुभं वैश्वदेवम् । तथा चानुक्रान्तं- धृतव्रताः सप्त वैश्वदेवम् ’ इति । गतो विनियोगः ।।

Jamison Brereton

29 (220)
All Gods
Grtsamada or K ̥ ūrma Gārtsamada
7 verses: triṣṭubh
The poet calls on various gods, especially the Ādityas, for protection from perils, some vividly imagined, and for forgiveness for his previous offenses. The poet does not seem entirely confident that his prayers will be answered.

Jamison Brereton Notes

All Gods

01 धृतव्रता आदित्या - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

धृत॑व्रता॒ आदि॑त्या॒ इषि॑रा आ॒रे मत्क॑र्त रह॒सूरि॒वागः॑ ।
शृ॒ण्व॒तो वो॒ वरु॑ण॒ मित्र॒ देवा॑ भ॒द्रस्य॑ वि॒द्वाँ अव॑से हुवे वः ॥

02 यूयं देवाः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यू॒यं दे॑वाः॒ प्रम॑तिर्यू॒यमोजो॑ यू॒यं द्वेषां॑सि सनु॒तर्यु॑योत ।
अ॒भि॒क्ष॒त्तारो॑ अ॒भि च॒ क्षम॑ध्वम॒द्या च॑ नो मृ॒ळय॑ताप॒रं च॑ ॥

03 किमू नु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

किमू॒ नु वः॑ कृणवा॒माप॑रेण॒ किं सने॑न वसव॒ आप्ये॑न ।
यू॒यं नो॑ मित्रावरुणादिते च स्व॒स्तिमि॑न्द्रामरुतो दधात ॥

04 हये देवा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ह॒ये दे॑वा यू॒यमिदा॒पयः॑ स्थ॒ ते मृ॑ळत॒ नाध॑मानाय॒ मह्य॑म् ।
मा वो॒ रथो॑ मध्यम॒वाळृ॒ते भू॒न्मा यु॒ष्माव॑त्स्वा॒पिषु॑ श्रमिष्म ॥

05 प्र व - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र व॒ एको॑ मिमय॒ भूर्यागो॒ यन्मा॑ पि॒तेव॑ कित॒वं श॑शा॒स ।
आ॒रे पाशा॑ आ॒रे अ॒घानि॑ देवा॒ मा माधि॑ पु॒त्रे विमि॑व ग्रभीष्ट ॥

06 अर्वाञ्चो अद्या - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒र्वाञ्चो॑ अ॒द्या भ॑वता यजत्रा॒ आ वो॒ हार्दि॒ भय॑मानो व्ययेयम् ।
त्राध्वं॑ नो देवा नि॒जुरो॒ वृक॑स्य॒ त्राध्वं॑ क॒र्ताद॑व॒पदो॑ यजत्राः ॥

07 माहं मघोनो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

माहं म॒घोनो॑ वरुण प्रि॒यस्य॑ भूरि॒दाव्न॒ आ वि॑दं॒ शून॑मा॒पेः ।
मा रा॒यो रा॑जन्त्सु॒यमा॒दव॑ स्थां बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥