०२७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ इमा गिरः ’ इति सप्तदशर्चं पञ्चमं सूक्तं गृत्समदपुत्रस्य कूर्मस्य आर्षं गृत्समदस्यैव वा त्रैष्टुभमादित्यदेवताकम् । तथा चानुक्रान्तम्-’ इमा गिरस्त्र्यूना कूर्मो गार्त्समदो हि वादित्यम् ‘इति । सूक्तविनियोगो लैङ्गिकः । आदित्यदेवताके पशौ पुरोडाशस्य ’ इमा गिरः ’ इत्येषा अनुवाक्या । ’ अग्नीषोमौ ’ इति खण्डे सूत्रितम्-’ इमा गिर आदित्येभ्यो घृतस्नूस्त आदित्या उरवो गभीराः ’ ( आश्व. श्रौ. ३.८ ) इति ।।

Jamison Brereton

27 (218)
Ādityas
Grtsamada or K ̥ ūrma Gārtsamada
17 verses: triṣṭubh
The first part of the hymn (vss. 1–7) calls on the Ādityas for protection against all sorts of dangers encountered during journeys to settlements and between settlements. They have the power to protect because they are gods who govern the world and the heavens according to the truth, which defines the order and nature of things as they are and ought to be (vss. 8–10). The poet then returns once more to the theme of a journey protected by the Ādityas and looks forward to his finding a place to settle, a place of good pasturage (vs. 13) and a place that is open and secure (vs. 14). The poet insists that he is worthy of the Ādityas’ protection: like the gods themselves (vss. 2, 9), he is śúci “gleaming, pure” (vs. 13), free of any taint. And if he has committed any offense, he begs the Ādityas’ mercy (vs. 14) and hopes that he would never fall to the punishments of the Ādityas (vs. 16). The meaning of verse 15cd is not quite clear. The two dwelling places mentioned there could be heaven and earth, to which pādas ab refer, or possibly, as Geldner suggests, to opposing sides from whose conflict the poet hopes to benefit.

01 इमा गिर - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इमा᳓ गि᳓र आदित्ये᳓भ्यो घृत᳓-स्नूः+++(=प्रस्रावीः)+++
सना᳓द्रा᳓जभ्यो +++(जिह्वा-रूप-)+++जुह्वा᳙ जुहोमि ।
शृणो᳓तु मित्रो᳓ अर्यमा᳓ भ᳓गो नस्
तुविजातो᳓+++(→विवस्वान्?)+++ व᳓रुणो द᳓क्षो अं᳓शः ॥

02 इमं स्तोमम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इमं᳓ स्तो᳓मं स᳓क्रतवो मे अद्य᳓
मित्रो᳓ अर्यमा᳓ व᳓रुणो जुषन्त
आदित्या᳓सः शु᳓चयो धा᳓रपूता
अ᳓वृजिना अनवद्या᳓ अ᳓रिष्टाः

03 त आदित्यास - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓ आदित्या᳓स उर᳓वो गभीरा᳓
अ᳓दब्धासो दि᳓प्सन्तो भूरिअक्षाः᳓
अन्तः᳓ पश्यन्ति वृजिनो᳓त᳓ साधु᳓
स᳓र्वं रा᳓जभ्यः परमा᳓ चिद् अ᳓न्ति

04 धारयन्त आदित्यासो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

धार᳓यन्त आदित्या᳓सो ज᳓गत् स्था᳓
देवा᳓ वि᳓श्वस्य भु᳓वनस्य गोपाः᳓
दीर्घा᳓धियो र᳓क्षमाणा असुर्य᳡म्
ऋता᳓वानश् च᳓यमाना ऋणा᳓नि

05 विद्यामादित्या अवसो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

विद्या᳓म् आदित्या अ᳓वसो वो अस्य᳓
य᳓द् अर्यमन् भय᳓ आ᳓ चिन् मयोभु᳓
युष्मा᳓कम् मित्रावरुणा प्र᳓णीतौ
प᳓रि श्व᳓भ्रेव दुरिता᳓नि वृ᳓ज्याम्

06 सुगो हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सुगो᳓ हि᳓ वो अर्यमन् मित्र प᳓न्था
अनृक्षरो᳓ वरुण साधु᳓र् अ᳓स्ति
ते᳓नादितिया अ᳓धि वोचता नो
य᳓छता नो दुष्परिह᳓न्तु श᳓र्म

07 पिपर्तु नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पि᳓पर्तु नो अ᳓दिती रा᳓जपुत्रा
अ᳓ति द्वे᳓षांसि अर्यमा᳓ सुगे᳓भिः
बृह᳓न् मित्र᳓स्य व᳓रुणस्य श᳓र्म
उ᳓प स्याम पुरुवी᳓रा अ᳓रिष्टाः

08 तिस्रो भूमीर्धारयन्त्रीँरुत - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तिस्रो᳓ भू᳓मीर् धारयन् त्रीँ᳓र् उत᳓ द्यू᳓न्
त्री᳓णि व्रता᳓ विद᳓थे अन्त᳓र् एषाम्
ऋते᳓नादित्या म᳓हि वो महित्वं᳓
त᳓द् अर्यमन् वरुण मित्र चा᳓रु

09 त्री रोचना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्री᳓ रोचना᳓ दिविया᳓ धारयन्त
हिरण्य᳓याः शु᳓चयो धा᳓रपूताः
अ᳓स्वप्नजो अनिमिषा᳓ अ᳓दब्धा
उरुशं᳓सा ऋज᳓वे म᳓र्तियाय

10 त्वं विश्वेषाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ वि᳓श्वेषां वरुणासि रा᳓जा
ये᳓ च देवा᳓ असुर ये᳓ च म᳓र्ताः
शतं᳓ नो रास्व शर᳓दो विच᳓क्षे
अश्या᳓मा᳓यूंषि सु᳓धितानि पू᳓र्वा

11 न दक्षिणा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓ दक्षिणा᳓ वि᳓ चिकिते न᳓ सव्या᳓
न᳓ प्राची᳓नम् आदित्या नो᳓त᳓ पश्चा᳓
पाकि᳓या चिद् वसवो धीरि᳓या चिद्
युष्मा᳓नीतो अ᳓भयं ज्यो᳓तिर् अश्याम्

12 यो राजभ्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ रा᳓जभ्य ऋतनि᳓भ्यो ददा᳓श
यं᳓ वर्ध᳓यन्ति पुष्ट᳓यश् च नि᳓त्याः
स᳓ रेवा᳓न् याति प्रथमो᳓ र᳓थेन
वसुदा᳓वा विद᳓थेषु प्रशस्तः᳓

13 शुचिरपः सूयवसा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शु᳓चिर् अपः᳓ सूय᳓वसा अ᳓दब्ध
उ᳓प क्षेति वृद्ध᳓वयाः सुवी᳓रः
न᳓किष् टं᳓ घ्नन्ति अ᳓न्तितो न᳓ दूरा᳓द्
य᳓ आदित्या᳓नाम् भ᳓वति प्र᳓णीतौ

14 अदिते मित्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓दिते मि᳓त्र व᳓रुणोत᳓ मॄळ+
य᳓द् वो वयं᳓ चकृमा᳓ क᳓च् चिद् आ᳓गः
उरु᳓ अश्याम् अ᳓भयं ज्यो᳓तिर् इन्द्र
मा᳓ नो दीर्घा᳓ अभि᳓ नशन् त᳓मिस्राः

15 उभे अस्मै - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उभे᳓ अस्मै पीपयतः समीची᳓
दिवो᳓ वृष्टिं᳓ सुभ᳓गो ना᳓म पु᳓ष्यन्
उभा᳓ क्ष᳓याव् आज᳓यन् याति पृत्सु᳓
उभा᳓व् अ᳓र्धौ भवतः साधू᳓ अस्मै

16 या वो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

या᳓ वो माया᳓ अभिद्रु᳓हे यजत्राः
पा᳓शा आदित्या रिप᳓वे वि᳓चृत्ताः
अश्वी᳓व ताँ᳓ अ᳓ति येषं र᳓थेन
अ᳓रिष्टा उरा᳓व् आ᳓ श᳓र्मन् सियाम

17 माहं मघोनो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मा᳓ह᳓म् मघो᳓नो वरुण प्रिय᳓स्य
भूरिदा᳓व्न आ᳓ विदं शू᳓नम् आपेः᳓
मा᳓ रायो᳓ राजन् सुय᳓माद् अ᳓व स्थाम्
बृह᳓द् वदेम विद᳓थे सुवी᳓राः