०२४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

।। श्रीगणेशाय नमः ।।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ।।

अथ ऋषिच्छन्दोदेवताविनियोगपुरःसरं सप्तमः व्याख्यायते ।’ गार्त्समदस्य द्वितीयमण्डलस्य तृतीयेऽनुवाके दश सूक्तानि । तत्रैकं सूक्तं व्याकृतम् । ’ सेमाम् ’ इति षोडशर्चं द्वितीयं सूक्तम् । अत्रानुक्रम्यते- सेमां षोळषान्त्या त्रिष्टुब्द्वादशी च सैन्द्री च ’ इति । मण्डलद्रष्टा गृत्समद ऋषिः । द्वादशीषोडश्यौ त्रिष्टुभौ । शिष्टाश्चतुर्दश जगत्यः । ’ ब्राह्मणस्पत्यं ह ’ इत्युक्तत्वात् तुह्यादिपरिभाषया इदमादीनि त्रीणि सूक्तानि ब्राह्मणस्पत्यानि । अस्य सूक्तस्य द्वादशी ऐन्द्री इन्द्रदेवत्या । चशब्दात् ब्राह्मणस्पत्या च । सामान्यविनियोगः पूर्वमेवोक्तः । विशेषतस्तु लिङ्गादवगन्तव्यः ।

Jamison Brereton

24 (215)
Brhaspati ̥
Gr̥tsamada
16 verses: jagatī, except triṣṭubh 12, 16
As Schmidt (1968: 230–37) points out in his translation and extensive analysis of this hymn, the poet frames his hymn with references to the Vala myth in verses 2–7 and 14. The poet does expand the scope of the myth, however, since the cave contains not only cattle (vss. 3, 14), but also the sun (vss. 3, 9) and honey and water (vs. 4). In verses 3 and 14 the cows likely refer also to the dawns. Inside of this frame, the poet describes the present, in which Br̥haspati inspires the sacrificial hymns and receives the sacrificial offerings. These present events are partly blended with mythical ones. In verse 8, for example, the present hymns created by Br̥haspati are his arrows, but this description of words as arrows recalls the ancient heroic deeds of Br̥haspati and Indra. More explicitly, in verse 9cd Br̥haspati’s victory causes the sun to blaze, which echoes the release of the dawns in the Vala myth. And in verse 10 both gods and humans receive nourishment through the ritual offerings and the goods won by him.
This blending of the mythic and the present may also occur in the opening verses of the hymn. Where later verses refer to the present but echo the past, in verses 2–7 the overtly mythic events occasionally suggest present ritual acts. In verse 4 the cis tern “containing streams of honey,” which Br̥haspati opens and from which all living beings drink, recalls the ritual cups with their soma-honey. Priests are the heroes of the battle in verses 6 and 7, and again this recalls the present ritual action of priests. Such double reference may contribute to the obscurity of the most difficult verse in the hymn, verse 5. A number of interpreters, such as Witzel and Gotō, understand pādas ab to mean that from ancient times “these beings,” either the waters or the cattle, were destined to come forth, but for a long time the door was shut on them. That is to say, the basic reference is to the Vala myth, as in its surrounding verses. On one level, this interpretation is surely right: there likely is a reference to the Vala myth. At the same time, the poet’s extraordinary obscurity suggests that he may have more in mind, and indeed pāda a explicitly connects past and present. The verse may suggest the idea that what has happened in the past happens again, and therefore the action of Br̥haspati is again necessary to free the cattle or the waters.

01 सेमामविड्ढि प्रभृतिम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

से᳓मा᳓म् अविड्ढि प्र᳓भृतिं य᳓ ई᳓शिषे
अया᳓ विधेम न᳓वया महा᳓ गिरा᳓
य᳓था नो मीढ्वा᳓न् स्त᳓वते स᳓खा त᳓व
बृ᳓हस्पते सी᳓षधः सो᳓त᳓ नो मति᳓म्

02 यो नन्त्वान्यनमन्न्योजसोतादर्दर्मन्युना - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ न᳓न्तुवानि अ᳓नमन् नि᳓ ओ᳓जसा
उता᳓दर्दर् मन्यु᳓ना श᳓म्बराणि वि᳓
प्रा᳓च्यावयद् अ᳓च्युता ब्र᳓ह्मणस् प᳓तिर्
आ᳓ चा᳓विशद् व᳓सुमन्तं वि᳓ प᳓र्वतम्

03 तद्देवानां देवतमाय - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓द् देवा᳓नां देव᳓तमाय क᳓र्तुवम्
अ᳓श्रथ्नन् दॄळ्हा᳓+ अ᳓व्रदन्त वीळिता᳓
उ᳓द् गा᳓ आजद् अ᳓भिनद् ब्र᳓ह्मणा वल᳓म्
अ᳓गूहत् त᳓मो वि᳓ अचक्षयत् सु᳓वः

04 अश्मास्यमवतं ब्रह्मणस्पतिर्मधुधारमभि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓श्मासियम् अवत᳓म् ब्र᳓ह्मणस् प᳓तिर्
म᳓धुधारम् अभि᳓ य᳓म् ओ᳓जसा᳓तृणत्
त᳓म् एव᳓ वि᳓श्वे पपिरे सुवर्दृ᳓शो
बहु᳓ साकं᳓ सिसिचुर् उ᳓त्सम् उद्रि᳓णम्

05 सना ता - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ना ता᳓ का᳓ चिद् भु᳓वना भ᳓वीतुवा
माद्भिः᳓ शर᳓द्भिर् दु᳓रो वरन्त वः
अ᳓यतन्ता चरतो अन्य᳓द्-अन्यद् इ᳓द्
या᳓ चका᳓र वयु᳓ना ब्र᳓ह्मणस् प᳓तिः

06 अभिनक्षन्तो अभि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अभिन᳓क्षन्तो अभि᳓ ये᳓ त᳓म् आनशु᳓र्
निधि᳓म् पणीना᳓म् परमं᳓ गु᳓हा हित᳓म्
ते᳓ विद्वां᳓सः प्रतिच᳓क्ष्या᳓नृता पु᳓नर्
य᳓त उ आ᳓यन् त᳓द् उ᳓द् ईयुर् आवि᳓शम्

07 ऋतावानः प्रतिचक्ष्यानृता - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ऋता᳓वानः प्रतिच᳓क्ष्या᳓नृता पु᳓नर्
आ᳓त आ᳓ तस्थुः कव᳓यो मह᳓स् पथः᳓
ते᳓ बाहु᳓भ्यां धमित᳓म् अग्नि᳓म् अ᳓श्मनि
न᳓किः षो᳓ अस्ति अ᳓रणो जहु᳓र् हि᳓ त᳓म्

08 ऋतज्येन क्षिप्रेण - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ऋत᳓ज्येन क्षिप्रे᳓ण ब्र᳓ह्मणस् प᳓तिर्
य᳓त्र व᳓ष्टि प्र᳓ त᳓द् अश्नोति ध᳓न्वना
त᳓स्य साध्वी᳓र् इ᳓षवो या᳓भिर् अ᳓स्यति
नृच᳓क्षसो दृ᳓श᳓ये क᳓र्णयोनयः

09 स सन्नयः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ संनयः᳓ स᳓ विनयः᳓ पुरो᳓हितः
स᳓ सु᳓ष्टुतः स᳓ युधि᳓ ब्र᳓ह्मणस् प᳓तिः
चाक्ष्मो᳓ य᳓द् वा᳓जम् भ᳓रते मती᳓ ध᳓ना
आ᳓द् इ᳓त् सू᳓र्यस् तपति तप्यतु᳓र् वृ᳓था

10 विभु प्रभु - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

विभु᳓ प्रभु᳓ प्रथम᳓म् मेह᳓नावतो
बृ᳓हस्प᳓तेः सुविद᳓त्राणि रा᳓धिया
इमा᳓ साता᳓नि वेनिय᳓स्य वाजि᳓नो
ये᳓न ज᳓ना उभ᳓ये भुञ्जते᳓ वि᳓शः

11 योऽवरे वृजने - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ अ᳓वरे वृज᳓ने विश्व᳓था विभु᳓र्
महा᳓म् उ रण्वः᳓ श᳓वसा वव᳓क्षिथ
स᳓ देवो᳓ देवा᳓न् प्र᳓ति पप्रथे पृथु᳓
वि᳓श्वे᳓द् उ ता᳓ परिभू᳓र् ब्र᳓ह्मणस् प᳓तिः

12 विश्वं सत्यम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓श्वं सत्य᳓म् मघवाना युवो᳓र् इ᳓द्
आ᳓पश् चन᳓ प्र᳓ मिनन्ति व्रतं᳓ वाम्
अ᳓छेन्द्राब्रह्मणस्पती हवि᳓र् नो
अ᳓न्नं यु᳓जेव वाजि᳓ना जिगातम्

13 उताशिष्टा अनु - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

उता᳓शिष्ठा अ᳓नु शृण्वन्ति व᳓ह्नयः
सभे᳓यो वि᳓प्रो भरते मती᳓ ध᳓ना
वीळुद्वे᳓षा अ᳓नु व᳓श र्ण᳓म् आददिः᳓
स᳓ ह वाजी᳓ समिथे᳓ ब्र᳓ह्मणस् प᳓तिः

14 ब्रह्मणस्पतेरभवद्यथावशं सत्यो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ब्र᳓ह्मणस् प᳓तेर् अभवद् यथावशं᳓
सत्यो᳓ मन्यु᳓र् म᳓हि क᳓र्मा करिष्यतः᳓
यो᳓ गा᳓ उदा᳓जत् स᳓ दिवे᳓ वि᳓ चाभजन्
मही᳓व रीतिः᳓ श᳓वसासरत् पृ᳓थक्

15 ब्रह्मणस्पते सुयमस्य - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ब्र᳓ह्मणस् पते सुय᳓मस्य विश्व᳓हा
रायः᳓ सियाम रथि᳓यो व᳓यस्वतः
वीरे᳓षु वीराँ᳓ उ᳓प पृन्धि नस् तुवं᳓
य᳓द् ई᳓शानो ब्र᳓ह्मणा वे᳓षि मे ह᳓वम्

16 ब्रह्मणस्पते त्वमस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ब्र᳓ह्मणस् पते तुव᳓म् अस्य᳓ यन्ता᳓
सूक्त᳓स्य बोधि त᳓नयं च जिन्व
वि᳓श्वं त᳓द् भद्रं᳓ य᳓द् अ᳓वन्ति देवा᳓
बृह᳓द् वदेम विद᳓थे सुवी᳓राः