०२३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

तृतीयेऽनुवाके दश सूक्तानि। तत्रेदमेकोनविंशत्यृचं गार्त्समदं प्रथम सूक्तम् । अत्रेयमणुक्रमणिका- ’ गणानामेकोना ब्राह्मणस्पत्यं ह बार्हस्पत्यास्तु दृष्टलिङ्गाः पञ्चदश्यन्त्ये त्रिष्टुभौ ’ इति । पञ्चदश्येकोनविंशी च त्रिष्टुभौ । शिष्टा जगत्यः । यासु बृहस्पतिशब्दः श्रूयते ता बार्हस्पत्याः । शिष्टा ब्राह्मणस्पत्याः ।। प्रवर्ग्ये अभिष्टवे एतत्सूक्तम् । ’ स्पृष्ट्वोदकम् ’ इति खण्डे सूत्रितं– ’ गणानां त्वा प्रथश्च यस्य ’ ( आश्व. श्रौ. ४. ६) इति ।।

Jamison Brereton

23 (214)
Br̥haspati
Gr̥tsamada
19 verses: jagatī, except triṣṭubh 15, 19
The relation between the god Br̥haspati and Indra is fluid within the R̥gveda. As Schmidt (1968) has demonstrated, bŕ̥haspáti and bráhmanas páti “lord of the sacred formulation” are usually names of Indra in the context of the Vala myth. At times, however, Br̥haspati emerges as an independent deity, though closely linked to Indra. Here the poet once describes Br̥haspati as the “yokemate” of Indra (vs. 18), but beyond this statement, there is otherwise little to distinguish Indra and Br̥haspati.
Framing the hymn’s description of Br̥haspati are overt references to the Vala myth, in which Indra as Br̥haspati leads the Aṅgirases and, by the power of their song, opens the cave that releases the cattle and dawns (vss. 2, 3, 18). The interme diate verses expand the theme of the power of the verbal formulation, of which Br̥haspati is the master. It is by means of knowledge of the truth that Br̥haspati and the poet, who possesses mastery of the truth through Br̥haspati, are able to overcome their enemies. They defeat scorners (vs. 8), slighters (vs. 13), chatterers (vs. 14), and speakers of ill (vs. 10). They overcome those who hate the real for mulations of the truth (vs. 4), who lay snares (vs. 6), and who are deceitful (vss. 5, 16, 17). Perhaps because of his powerful speech, Br̥haspati’s mouth even “snaps at” the poet’s enemies (vs. 9). At least in some instances, the rivals of the poet are rival sacrificers. At best, however, these know the words to recite, but not the truth that produces the songs or that lies behind them (vs. 16). Through the truth and the truth formulations, the poet and his people are freed from distress (vs. 4), hostility (vss. 5, 9), and injury (vss. 7, 8, 12) and instead prosper (vss. 10, 15).

01 गणानां त्वा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

गणा᳓नां त्वा गण᳓पतिं हवामहे
कविं᳓ कवीना᳓म् उपम᳓+++(←मा माने)+++-श्रवस्+++(=अन्न)+++-तमम् +++(इति बहुव्रीहिः)+++ ।
ज्येष्ठ-रा᳓जं ब्र᳓ह्मणां ब्रह्मणस्-पत आ᳓ नः
शृण्व᳓न्न् ऊति᳓भिः सीद सा᳓दनम् ॥+++(5)+++

02 देवाश्चित्ते असुर्य - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

देवा᳓श् चित् ते असुरिय प्र᳓चेतसो
बृ᳓हस्पते यज्ञि᳓यम् भाग᳓म् आनशुः
उस्रा᳓ इव सू᳓रियो ज्यो᳓तिषा महो᳓
वि᳓श्वेषाम् इ᳓ज् जनिता᳓ ब्र᳓ह्मणाम् असि

03 आ विबाध्या - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ विबा᳓ध्या परिरा᳓पस् त᳓मांसि च
ज्यो᳓तिष्मन्तं र᳓थम् ऋत᳓स्य तिष्ठसि
बृ᳓हस्पते भीम᳓म् अमित्रद᳓म्भनं
रक्षोह᳓णं गोत्रभि᳓दं सुवर्वि᳓दम्

04 सुनीतिभिर्नयसि त्रायसे - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

सुनीति᳓भिर् नयसि त्रा᳓यसे ज᳓नं
य᳓स् तु᳓भ्यं दा᳓शान् न᳓ त᳓म् अं᳓हो अश्नवत्
ब्रह्मद्वि᳓षस् त᳓पनो मन्युमी᳓र् असि
बृ᳓हस्पते म᳓हि त᳓त् ते महित्वन᳓म्

05 न तमंहो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓ त᳓म् अं᳓हो न᳓ दुरितं᳓ कु᳓तश् चन᳓
ना᳓रातयस् तितिरुर् न᳓ द्वयावि᳓नः
वि᳓श्वा इ᳓द् अस्माद् ध्वर᳓सो वि᳓ बाधसे
यं᳓ सुगोपा᳓ र᳓क्षसि ब्रह्मणस् पते

06 त्वं नो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ नो गोपाः᳓ पथिकृ᳓द् विचक्षण᳓स्
त᳓व व्रता᳓य मति᳓भिर् जरामहे
बृ᳓हस्पते यो᳓ नो अभि᳓ ह्व᳓रो दधे᳓
स्वा᳓ त᳓म् मर्मर्तु दुछु᳓ना ह᳓रस्वती

07 उत वा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ वा यो᳓ नो मर्च᳓याद् अ᳓नागसो
अरातीवा᳓ म᳓र्तिअः° सानुको᳓ वृ᳓कः
बृ᳓हस्पते अ᳓प तं᳓ वर्तया पथः᳓
सुगं᳓ नो अस्यइ᳓ देव᳓वीतये कृधि

08 त्रातारं त्वा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त्राता᳓रं त्वा तनू᳓नां᳐ हवामहे
अ᳓वस्पर्तर् अधिवक्ता᳓रम् अस्मयु᳓म्
बृ᳓हस्पते देवनि᳓दो नि᳓ बर्हय
मा᳓ दुरे᳓वा उ᳓त्तरं सुम्न᳓म् उ᳓न् नशन्

09 त्वया वयम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त्व᳓या वयं᳓ सुवृ᳓धा ब्रह्मणस् पते
स्पार्हा᳓ व᳓सु मनुषिया᳓ ददीमहि
या᳓ नो दूरे᳓ तळि᳓तो या᳓ अ᳓रातयो
अभि᳓ स᳓न्ति जम्भ᳓या ता᳓ अनप्न᳓सः

10 त्वया वयमुत्तमम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त्व᳓या वय᳓म् उत्तमं᳓ धीमहे व᳓यो
बृ᳓हस्पते प᳓प्रिणा स᳓स्निना युजा᳓
मा᳓ नो दुःशं᳓सो अभिदिप्सु᳓र् ईशत
प्र᳓ सुशं᳓सा मति᳓भिस् तारिषीमहि

11 अनानुदो वृषभो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अनानुदो᳓ वृषभो᳓ ज᳓ग्मिर् आहवं᳓
नि᳓ष्टप्ता श᳓त्रुम् पृ᳓तनासु सासहिः᳓
अ᳓सि सत्य᳓ ऋणया᳓ ब्रह्मणस् पत
उग्र᳓स्य चिद् दमिता᳓ वीळुहर्षि᳓णः

12 अदेवेन मनसा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓देवेन म᳓नसा यो᳓ रिषण्य᳓ति
शासा᳓म् उग्रो᳓ म᳓न्यमानो जि᳓घांसति
बृ᳓हस्पते मा᳓ प्र᳓णक् त᳓स्य नो वधो᳓
नि᳓ कर्म मन्युं᳓ दुरे᳓वस्य श᳓र्धतः

13 भरेषु हव्यो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

भ᳓रेषु ह᳓व्यो न᳓मसोपस᳓द्यो
ग᳓न्ता वा᳓जेषु स᳓निता ध᳓नं-धनम्
वि᳓श्वा इ᳓द् अर्यो᳓ अभिदिप्सु᳓वो मृ᳓धो
बृ᳓हस्प᳓तिर् वि᳓ ववर्हा र᳓थाँ इव

14 तेजिष्टया तपनी - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ते᳓जिष्ठया तपनी᳓ रक्ष᳓सस् तप
ये᳓ त्वा निदे᳓ दधिरे᳓ दृष्ट᳓वीरियम्
आवि᳓स् त᳓त् कृष्व य᳓द् अ᳓सत् त उक्थि᳓यम्
बृ᳓हस्पते वि᳓ परिरा᳓पो अर्दय

15 बृहस्पते अति - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

बृ᳓हस्-पते अ᳓ति य᳓द् अर्यो᳓ अ᳓र्हाद्
द्युम᳓द् विभा᳓ति क्र᳓तुमज् ज᳓नेषु ।
य᳓द् दीद᳓यच्+++(=दीप्यते)+++ छ᳓वस+++(←सा+)+++ ऋत-प्रजात
त᳓द् अस्मा᳓सु द्र᳓विणं धेहि चित्र᳓म् ॥

16 मा न - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

मा᳓ न स्तेने᳓भ्यो ये᳓ अभि᳓ द्रुह᳓स् पदे᳓
निरामि᳓णो रिप᳓वो᳓ ऽन्नेषु जागृधुः᳓
आ᳓ देवा᳓नाम् ओ᳓हते वि᳓ व्र᳓यो हृदि᳓
बृ᳓हस्पते न᳓ परः᳓ सा᳓मनो विदुः

17 विश्वेभ्यो हि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓श्वेभ्यो हि᳓ त्वा भु᳓वनेभियस् प᳓रि
त्व᳓ष्टा᳓जनत् सा᳓मनः-सामनः कविः᳓
स᳓ ऋणचि᳓द् ऋणया᳓ ब्र᳓ह्मणस् प᳓तिर्
द्रुहो᳓ हन्ता᳓ मह᳓ ऋत᳓स्य धर्त᳓रि

18 तव श्रिये - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓व श्रिये᳓ वि᳓ अजिहीत प᳓र्वतो
ग᳓वां गोत्र᳓म् उद᳓सृजो य᳓द् अङ्गिरः
इ᳓न्द्रेण युजा᳓ त᳓मसा प᳓रीवृतम्
बृ᳓हस्पते नि᳓र् अपा᳓म् औब्जो अर्णव᳓म्

19 ब्रह्मणस्पते त्वमस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ब्र᳓ह्मणस् पते तुव᳓म् अस्य᳓ यन्ता᳓
सूक्त᳓स्य बोधि त᳓नयं च जिन्व
वि᳓श्वं त᳓द् भद्रं᳓ य᳓द् अ᳓वन्ति देवा᳓
बृह᳓द् वदेम विद᳓थे सुवी᳓राः