०२२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ त्रिकद्रुकेषु ’ इति चतुर्ऋचमेकादशं सूक्तं गार्त्समदमैन्द्रम् । अत्रेयमनुक्रमणिका-’ त्रिकद्रुकेषु चतुष्कमष्ट्याद्यतिशाक्वरमन्त्याष्टिर्वा ’ इति । आद्यायामष्टिश्छन्दश्चतुःषष्ट्यक्षरा। अवशिष्टाः षष्ट्यक्षरा अतिशक्वर्यः । अन्त्याष्टिर्वा । षोडशिशस्त्रे ’ त्रिकदुकेषु ’ इति तृचः । सूत्रितं-’ त्रिकद्रुकेषु महिषो यवाशिरं प्रो ष्वस्मै पुरोरथमिति तृचावातिच्छन्दसौ ’ ( आश्व. श्रौ. ६. २) इति ।। अविवाक्येऽहनि मरुत्वतीये प्रतिपत्तृचस्य ’ त्रिकद्रुकेषु ’ इति प्रथमा । ’ दशमेऽहनि ’ इति खण्डे सूत्रितम्- ’ आ त्वा रथं यथोतय इत्येतस्याः स्थाने त्रिकद्रुकेषु महिषो यवाशिरमिति ’ ( आश्व. श्रौ. ८. १२) इति । आश्वमेधिके मध्यमेऽहनि मरुत्वतीय आद्या । ’ तस्य विशेषान्वक्ष्यामः ’ इति खण्डे सूत्रितं-’ त्रिकद्रुकेषु महिषो यवाशिरमिति मरुत्वतीयस्य प्रतिपत् ’ ( आश्व. श्रौ. १०. १०) इति ।। महाव्रतेऽपि माध्यंदिने सवने ब्राह्मणाच्छंसिनः स्तोत्रियस्तृचः । ’ त्रिकद्रुकेषु महिषो यवाशिरमिति स्तोत्रियः ’ (ऐ. आ. ५.१) इति सूत्रितम् ।।

Jamison Brereton

22 (213)
Indra
Gr̥tsamada
4 verses: aṣṭi 1, atiśakvarī 2–3, atiśakvarī or aṣṭi 4
The theme of the hymn is the bond between Indra and the soma, which enables Indra to perform “his great deed,” the destruction of the serpent, the “worm,” Vr̥tra. The god Soma ever accompanies the god Indra, and the refrain running through the first three verses emphasizes their connection by referring to Soma as índu, “(soma-)drop,” echoing the name “Indra.” By describing both Soma and

Indra as “real” (satyá), the poet reminds his hearers that just as soma was real when it was prepared by the gods for Indra before he destroyed Vr̥tra, so also it is real now in the present sacrifice, as is Indra himself.

01 त्रिकद्रुकेषु महिषो - अष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

त्रि᳓कद्रुकेषु महिषो᳓ य᳓वाशिरं
तुविशु᳓ष्मस्
तृप᳓त् सो᳓मम् अपिबद् वि᳓ष्णुना सुतं᳓
य᳓था᳓वशत्
स᳓ ईम् ममाद म᳓हि क᳓र्म क᳓र्तवे
महा᳓म् उरुं᳓
सइ᳓नं सश्चद् देवो᳓ देवं᳓
सत्य᳓म् इ᳓न्द्रं सत्य᳓ इ᳓न्दुः

02 अध त्विषीमाँ - अतिशक्वरी

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ध+++(=अथ)+++ त्वि᳓षीमाँ अभ्यो᳓जसा क्रि᳓विं+++(=त्वङ्मयम्)+++
युधा᳓भवद्
आ᳓ रो᳓दसी अपृणद् अस्य मज्म᳓ना+++(=अस्थिसारेण)+++
प्र᳓ वावृधे ।
अ᳓धत्तान्यं᳓ +++(यत्किञ्चित् →सोमं)+++ जठ᳓रे, प्रे᳓म् अरिच्यत +++(जठरे ऽवकाशः)+++,
सै᳓नं +++(→सोमं)+++ सश्चद् देवो᳓ +++(सोमः)+++ देवं᳓
सत्य᳓म् इ᳓न्द्रं सत्य᳓ इ᳓न्दुः ॥

03 साकं जातः - अतिशक्वरी

विश्वास-प्रस्तुतिः ...{Loading}...

साकं᳓ जातः᳓ क्र᳓तुना साक᳓म् ओ᳓जसा
ववक्षिथ
साकं᳓ वृद्धो᳓ वीरि᳓यैः सासहि᳓र् मृ᳓धो
वि᳓चर्षणिः
दा᳓ता रा᳓ध स्तुवते᳓ का᳓मियं व᳓सु
सइ᳓नं सश्चद् देवो᳓ देवं᳓
सत्य᳓म् इ᳓न्द्रं सत्य᳓ इ᳓न्दुः

04 तव त्यन्नर्यम् - अतिशक्वर्यष्टिर्वा

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓व᳓ त्य᳓न् +++(=तत्)+++ न᳓र्यं +++(= नराणाम्)+++ नृतो +++(=नर्तयितः)+++-
ऽप+++(=कर्म)+++ इन्द्र प्रथम᳓म् +++(=प्रततम्)+++ पू᳓र्वियं᳓ दिवि᳓+++(→ खे ज्येष्ठायां serpens-राशौ च)+++ प्रवा᳓च्यं कृत᳓म् ।

य᳓द् देव᳓स्य᳓ +++(=वृत्रस्य मेघस्य वा)+++ श᳓वसा᳓
+++(अपः←)+++ प्रा᳓रिणा +++(प्रैरयः)+++ असुं +++(=प्राणम्)+++ रिण᳓न्न् +++(=हिंसन्)+++ अपः᳓।

+++(अभि←)+++भु᳓वद्+++(वो →भवतु)+++ वि᳓श्वम् अभि᳓+आ᳓देव᳓म् +++(=अदेवम्)+++ ओ᳓जसा,
विदा᳓द् +++(=लभताम्)+++ ऊ᳓र्जं᳓, शत᳓क्रतुर् विदा᳓द् इ᳓षम् ।।