०२१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ विश्वजिते ’ इति षडृचं दशमं सूक्तं गार्त्समदमैन्द्रम् । अन्त्या त्रिष्टुप् । शिष्टाः पञ्च जगत्यः ।। तृतीये पर्याये होतुः शस्त्रे एतत्सूक्तम् । सूत्रितं च-’ विश्वजिते तिष्ठा हरी रथ आयुज्यमानेति याज्या ’ ( आश्व. श्रौ. ६.४) इति ।।

Jamison Brereton

21 (212)
Indra
Gr̥tsamada
6 verses: jagatī, except triṣṭubh 6
In its first three verses the hymn announces the various offerings to Indra: the soma, the homage, and the proclamation of Indra’s heroic deeds. The god merits these because of his overwhelming power to defeat any who stand in his way and to win whatever he wishes. In verses 4–5, the poet recalls the Vala story, in which Indra and his priestly allies obtained the cattle and the dawns through the hymns that both the priests and Indra recite. He ends with an appeal that his people will find the intel lectual ability that will allow them both to continue to implore the gods successfully and to gain the wealth and safety that will flow from that ability.

01 विश्वजिते धनजिते - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वजि᳓ते धनजि᳓ते सुवर्जि᳓ते
सत्राजि᳓ते नृजि᳓त उर्वराजि᳓ते
अश्वजि᳓ते गोजि᳓ते अब्जि᳓ते भर
इ᳓न्द्राय सो᳓मं यजता᳓य हर्यत᳓म्

02 अभिभुवेऽभिभङ्गाय वन्वतेऽषाळ्हाय - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अभिभु᳓वे अभिभङ्गा᳓य वन्वते
अ᳓षाळ्हाय स᳓हमानाय वेध᳓से
तुविग्र᳓ये व᳓ह्नये दुष्ट᳓रीतवे
सत्रासा᳓हे न᳓म इ᳓न्द्राय वोचत

03 सत्रासाहो जनभक्षो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

सत्रासाहो᳓ जनभक्षो᳓ जनंसह᳓श्
च्य᳓वनो युध्मो᳓ अ᳓नु जो᳓षम् उक्षितः᳓
वृतंचयः᳓ स᳓हुरिर् विक्षु᳓ आरित᳓
इ᳓न्द्रस्य वोचम् प्र᳓ कृता᳓नि वीरि᳓या

04 अनानुदो वृषभो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अनानुदो᳓ वृषभो᳓ दो᳓धतो वधो᳓
गम्भीर᳓ ऋष्वो᳓ अ᳓समष्टकावियः
रध्रचोदः᳓ श्न᳓थनो वीळित᳓स् पृथु᳓र्
इ᳓न्द्रः सुयज्ञ᳓ उष᳓सः सु᳓वर् जनत्

05 यज्ञेन गातुमप्तुरो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

यज्णे᳓न गातु᳓म् अप्तु᳓रो विविद्रिरे
धि᳓यो हिन्वाना᳓ उशि᳓जो मनीषि᳓णः
अभिस्व᳓रा निष᳓दा गा᳓ अवस्य᳓व
इ᳓न्द्रे हिन्वाना᳓ द्र᳓विणानि आशत

06 इन्द्र श्रेष्टानि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्र श्रे᳓ष्ठानि द्र᳓विणानि धेहि
चि᳓त्तिं द᳓क्षस्य सुभगत्व᳓म् अस्मे᳓
पो᳓षं रयीणा᳓म् अ᳓रिष्टिं तनू᳓नां
स्वाद्मा᳓नं वाचः᳓ सुदिनत्व᳓म् अ᳓ह्नाम्