०१६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ प्र वः सताम् ’ इति नवर्चं पञ्चमं सूक्तं गार्त्समदमैन्द्रम् । अत्रानुक्रमणिका- प्र वो नवान्त्या त्रिष्टुप् ’ इति । नवमी त्रिष्टुप् शिष्टास्त्रिष्टुबन्तपरिभाषया जगत्यः ।। तृतीये पर्यायेऽच्छावाकशस्त्रे ‘प्र वः सताम् ’ इति सूक्तम् । ’ अतिरात्रे ’ इति खण्डे सूत्रितं-’ प्र वः सतां प्रो द्रोणे हरयः कर्माग्मन्निति याज्या ’ ( आश्व. श्रौ ६. ४) इति ।।

Jamison Brereton

16 (207)
Indra
Gr̥tsamada
9 verses: jagatī, except triṣṭubh 9
The hymn begins with an announcement of the sacrifice to Indra, whose greatness and strength entitle him to it. The middle verses of this hymn (vss. 4–6) present Indra as the bull of the sacrifice and indeed describe all the other principal constitu ents of the sacrifice also as bulls. The portrayal of Indra as a bull in these verses contrasts with that in verse 8, in which Indra is compared to a cow. However, this image of Indra as a cow sets up the final verse (9). In this verse, which is also the final verse of II.15–20, the poet compares the dakṣiṇā, or priestly gift he hopes to receive, to a generous cow.

01 प्र वः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ वः सतां᳓ ज्ये᳓ष्ठतमाय सुष्टुति᳓म्
अग्ना᳓व् इव समिधाने᳓ हवि᳓र् भरे
इ᳓न्द्रम् अजुर्यं᳓ जर᳓यन्तम् उक्षितं᳓
सना᳓द् यु᳓वानम् अ᳓वसे हवामहे

02 यस्मादिन्द्राद्बृहतः किम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स्माद् इ᳓न्द्राद् बृहतः᳓ किं᳓ चने᳓म् ऋते᳓
वि᳓श्वानि अस्मिन् स᳓म्भृता᳓धि वीरि᳓या
जठ᳓रे सो᳓मं तनु᳓वी स᳓हो म᳓हो
ह᳓स्ते व᳓ज्रम् भ᳓रति शीर्ष᳓णि क्र᳓तुम्

03 न क्षोणीभ्याम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓ क्षोणी᳓भ्याम् परिभु᳓वे त इन्द्रियं᳓
न᳓ समुद्रइः᳓ प᳓र्वतैर् इन्द्र ते र᳓थः
न᳓ ते व᳓ज्रम् अ᳓नु अश्नोति क᳓श् चन᳓
य᳓द् आशु᳓भिः प᳓तसि यो᳓जना पुरु᳓

04 विश्वे ह्यस्मै - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓श्वे हि᳓ अस्मै यजता᳓य धृष्ण᳓वे
क्र᳓तुम् भ᳓रन्ति वृषभा᳓य स᳓श्चते
वृ᳓षा यजस्व हवि᳓षा विदु᳓ष्टरः
पि᳓बेन्द्र सो᳓मं वृषभे᳓ण भानु᳓ना

05 वृष्णः कोशः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वृ᳓ष्णः को᳓शः पवते म᳓ध्व ऊर्मि᳓र्
वृषभा᳓न्नाय वृषभा᳓य पा᳓तवे
वृ᳓षणाध्वर्यू᳓ वृषभा᳓सो अ᳓द्रयो
वृ᳓षणं सो᳓मं वृषभा᳓य सुष्वति

06 वृषा ते - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वृ᳓षा ते व᳓ज्र उत᳓ ते वृ᳓षा र᳓थो
वृ᳓षणा ह᳓री वृषभा᳓णि आ᳓युधा
वृ᳓ष्णो म᳓दस्य वृ᳓षभ त्व᳓म् ईशिष
इ᳓न्द्र सो᳓मस्य वृषभ᳓स्य तृप्णुहि

07 प्र ते - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ ते ना᳓वं न᳓ स᳓मने वचस्यु᳓वम्
ब्र᳓ह्मणा यामि स᳓वनेषु दा᳓धृषिः
कुवि᳓न् नो अस्य᳓ व᳓चसो निबो᳓धिषद्
इ᳓न्द्रम् उ᳓त्सं न᳓ व᳓सुनः सिचामहे

08 पुरा सम्बाधादभ्या - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

पुरा᳓ सम्बाधा᳓द् अभि᳓ आ᳓ ववृत्स्व नो
धेनु᳓र् न᳓ वत्सं᳓ य᳓वसस्य पिप्यु᳓षी
सकृ᳓त् सु᳓ ते सुमति᳓भिः शतक्रतो
स᳓म् प᳓त्नीभिर् न᳓ वृ᳓षणो नसीमहि

09 नूनं सा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नूनं᳓ सा᳓ ते प्र᳓ति व᳓रं जरित्रे᳓
दुहीय᳓द् इन्द्र द᳓क्षिणा मघो᳓नी
शि᳓क्षा स्तोतृ᳓भ्यो मा᳓ति धग् भ᳓गो नो
बृह᳓द् वदेम विद᳓थे सुवी᳓राः