०१४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ अध्वर्यवो भरत ’ इति द्वादशर्चं तृतीयं सूक्तं गार्त्समदं त्रैष्टुभमैन्द्रम् । ’ अध्वर्यवो द्वादश ’ इत्यनुक्रान्तम् । सूक्तविनियोगो लैङ्गिकः । अतिरात्रे प्रथमे पर्याये होतुः शस्त्रयाज्या ’ अध्वर्यवः ’ इत्येषा । ’ अध्वर्यवो भरतेन्द्राय सोममिति याज्या ’ ( आश्व. श्रौ. ६.४) इति सूत्रितम् ।।

Jamison Brereton

14 (205)
Indra
Gr̥tsamada
12 verses: triṣṭubh
This hymn is a surprisingly straightforward summons to the Adhvaryu priests to offer the soma and a catalogue of the heroic deeds that have earned Indra the offerings. Verse 7 is particularly interesting since Kutsa (or Purukutsa), Āyu, and Atithigva Divodāsa are normally allies rather than enemies of Indra as they are here. Elsewhere (I.53.10 and VI.18.13), however, Indra appears as an ally of the little-known ruler named Tūrvayāṇa and helps him defeat these three.

01 अध्वर्यवो भरतेन्द्राय - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ध्वर्यवो भ᳓रते᳓न्द्राय सो᳓मम्
आ᳓मत्रेभिः सिञ्चता म᳓द्यम् अ᳓न्धः
कामी᳓ हि᳓ वीरः᳓ स᳓दम् अस्य पीतिं᳓
जुहो᳓त वृ᳓ष्णे त᳓द् इ᳓द् एश᳓ वष्टि

02 अध्वर्यवो यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ध्वर्यवो यो᳓ अपो᳓ वव्रिवां᳓सं
वृत्रं᳓ जघा᳓न अश᳓न्येव वृक्ष᳓म्
त᳓स्मा एत᳓म् भरत तद्वशा᳓यँ
एष᳓ इ᳓न्द्रो अर्हति पीति᳓म् अस्य

03 अध्वर्यवो यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ध्वर्यवो यो᳓ दृ᳓भीकं जघा᳓न
यो᳓ गा᳓ उदा᳓जद् अ᳓प हि᳓ वलं᳓ वः᳓
त᳓स्मा एत᳓म् अन्त᳓रिक्षे न᳓ वा᳓तम्
इ᳓न्द्रं सो᳓मैर् ओ᳓र्णुत जू᳓र् न᳓ व᳓स्त्रैः

04 अध्वर्यवो य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ध्वर्यवो य᳓ उ᳓रणं जघा᳓न
न᳓व चख्वां᳓सं नवतिं᳓ च बाहू᳓न्
यो᳓ अ᳓र्बुदम् अ᳓व नीचा᳓ बबाधे᳓
त᳓म् इ᳓न्द्रं सो᳓मस्य भृथे᳓ हिनोत

05 अध्वर्यवो यः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ध्वर्यवो यः᳓ सु᳓ अ᳓श्नं जघा᳓न
यः᳓ शु᳓ष्णम् · अशु᳓षं यो᳓ वि᳓अंसम्
यः᳓ पि᳓प्रुं · न᳓मुचिं यो᳓ रुधिक्रां᳓
त᳓स्मा इ᳓न्द्राय अ᳓न्धसो जुहोत

06 अध्वर्यवो यः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ध्वर्यवो यः᳓ शतं᳓ श᳓म्बरस्य
पु᳓रो बिभे᳓द अ᳓श्मनेव पूर्वीः᳓
यो᳓ वर्चि᳓नः शत᳓म् इ᳓न्द्रः सह᳓स्रम्
अपा᳓वपद् भ᳓रता सो᳓मम् अस्मै

07 अध्वर्यवो यः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ध्वर्यवो यः᳓ शत᳓म् आ᳓ सह᳓स्रम्
भू᳓म्या उप᳓स्थे अ᳓वपज् जघन्वा᳓न्
कु᳓त्सस्यायो᳓र् अतिथिग्व᳓स्य वीरा᳓न्
नि᳓ आ᳓वृणग् भ᳓रता सो᳓मम् अस्मै

08 अध्वर्यवो यन्नरः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ध्वर्यवो य᳓न् नरः काम᳓याध्वे
श्रुष्टी᳓ व᳓हन्तो नशथा त᳓द् इ᳓न्द्रे
ग᳓भस्तिपूतम् भरत श्रुता᳓य
इ᳓न्द्राय सो᳓मं यज्यवो जुहोत

09 अध्वर्यवः कर्तना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ध्वर्यवः क᳓र्तना श्रुष्टि᳓म् अस्मै
व᳓ने नि᳓पूतं व᳓न उ᳓न् नयध्वम्
जुषाणो᳓ ह᳓स्त्यम् अभि᳓ वावशे व
इ᳓न्द्राय सो᳓मम् मदिरं᳓ जुहोत

10 अध्वर्यवः पयसोधर्यथा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ध्वर्यवः प᳓यसो᳓धर् य᳓था गोः᳓
सो᳓मेभिर् ईम् पृणता भोज᳓म् इ᳓न्द्रम्
वे᳓दाह᳓म् अस्य नि᳓भृतम् म एत᳓द्
दि᳓त्सन्तम् भू᳓यो यजत᳓श् चिकेत

11 अध्वर्यवो यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ध्वर्यवो यो᳓ दिविय᳓स्य व᳓स्वो
यः᳓ पा᳓र्थिवस्य क्ष᳓मियस्य रा᳓जा
त᳓म् ऊ᳓र्दरं न᳓ पृणता य᳓वेन
इ᳓न्द्रं सो᳓मेभिस् त᳓द् अ᳓पो वो अस्तु

12 अस्मभ्यं तद्वसो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अस्म᳓भ्यं त᳓द् वसो दाना᳓य रा᳓धः
स᳓म् अर्थयस्व बहु᳓ ते वसव्य᳡म्
इ᳓न्द्र य᳓च् चित्रं᳓ श्रवस्या᳓ अ᳓नु द्यू᳓न्
बृह᳓द् वदेम विद᳓थे सुवी᳓राः