०१२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

द्वितीयेऽनुवाक एकादश सूक्तानि । तत्र यो जात इति पंचदशर्चं प्रथमं सूतं गार्त्समदं त्रैष्टुभमैन्द्रं ॥ संस्रवे निष्केवल्ये निविद्धानीयस्य पुरस्ताद्यो जात एवेति शंस्येत् । यदि पर्यायानिति खंडे सूत्रितं । यो जात एवेति निष्कवल्ये । आ०६.६.। इति ॥ आभिप्लविक तृतीयेऽहनि निष्कवल्ये यो जात एवेति निविद्धानीयं । सूत्रित च । तृतीयस्य त्र्यर्यमा यो जात एवेति मध्यंदिनः । आश्व ७. ७.। इति ॥ विश्वजिति माध्यंदिनसवने मैत्रावरुणः स्वशस्त्रे प्राकृतात्सूक्तात्पूर्वं यो जात इति सामसूक्तं शंसेत् । विश्वजितोऽग्निं नर इति खंडे सूत्रितं । सत्रा मदासो यो जात एवाभूरेक इति सामसूक्तानि। आश्व. ८.७। इति। अग्निष्टुन्निष्केवल्ये निविद्धानमिदं। श्येनाजिराभ्यामिति खंडे सूत्रितं । तिष्ठा हरी इति यो जात एवेति मध्यंदिनः । आ॰ ९.७.। इति ॥ महाव्रते निष्केवल्ये यो जात एवेति सूक्तं। ऊरू इति खंडे सूत्रितं । वने न वा यो न्यधायि चाकन् यो जात एव प्रथमो मनस्वान् (ऐ.आ. ५.३.१) इति। अत्रेतिहासो बृहद्देवतायामुक्तः। संयुज्य तपसात्मानमिंद्रं बिभ्रन्महद्वपुः।अदृश्यत मुहूर्तेन दिवि च व्योम्नि चेह च । तमिंद्र इति मत्वा तु दैत्यो भीमपराक्रमी । धुनिश्च चुमुरिश्चोभौ सायुधावभिपेततुः ॥ विदित्वा स तयोर्भावमृषिः पापं चिकीर्षतोः । यो जात इति सूक्तेन कर्माण्यैंद्राण्यकीर्तयत् ॥ अन्ये त्वन्यथा वर्णयंति । पुरा किलिंद्रादयो वैन्ययज्ञं समाजग्मुः । गृत्समदोऽपि तत्रागत्य सदस्यासीत् । दैत्याश्चेंद्रजिघांसया तत्र समागमन् । तान् दृष्ट्वा निर्जगामेंद्रो यज्ञाद्गृत्समदाकृतिः । स च गृत्समदो वैन्येन पूजितो यज्ञवाटान्निरगच्छत् । निर्गच्छंतं तमृषिं दृष्ट्वा अयमेवेंद्र इति मन्यमानास्तमसुराः परिवव्रुः । नाहमिंद्रस्तुच्छः किंत्वेवंगुणोपेतः स इत्यनेन सूक्तेन तान्प्रत्युवाच ॥ अपरे त्वेवं कथयंति । गृत्समदस्य यज्ञे प्रविष्टमेकाकिनमिंद्रं ज्ञात्वासुराः परिवव्रुः । स इंद्रो गृत्समदरूपेण यज्ञवाटान्निर्गत्य स्वर्गं जगाम । ततोऽसुराः इंद्रो विलंबित इत्यंतःप्रविश्य गृत्समदं दृष्ट्वा पूर्वमेव गृत्समदो गतः अयं त्विंद्रोऽस्मद्भयाद्गृत्समदरूपेणास्त इति तं जगृहुः । स तान् नाहमिंद्रोऽयमित्यनेन सूक्तेन प्रत्युवाच । अयमेवार्थो महाभारते प्रपंचितः ॥

Jamison Brereton

12 (203)
Indra
Gr̥tsamada
15 verses: triṣṭubh
This is one of the better known and most widely anthologized hymns to Indra. Its distinctive rhetorical mark is its refrain, “he, o peoples, is Indra.” The “peoples”

(jána) refer to the Vedic peoples, and the hymn repeatedly returns to Indra’s past victories over non-Vedic beings with the promise of future victories.
The hymn portrays Indra as a successful warrior. It begins with his origin (vs. 1) and then refers to his great deeds through which the world was created and made inhabitable (vss. 2–3). The poet then announces Indra’s victory over Dāsas, Dasyus, and other enemies and his aid for his worshippers and allies (vss. 4–10). Toward the end of the hymn, the poet mentions Indra’s famous victories over his demonized, if not quite demonic, enemies (vss. 11–12). Then he returns to Indra’s rule over the cosmos (vs. 13) and his help for those now making ritual offerings to him (vss. 14–15).
One verse that has attracted particular attention is verse 5, which says that there are some who wonder where Indra is and who declare that Indra “does not exist.” These appear to be Vedic people who question Indra’s power and who, in deny ing Indra and refusing to perform the rituals, approximate the Dāsas, whom Indra defeats (vs. 4). The poet insists that they should be aware of Indra as the “terrify ing” (ghorá) one and trust in him. At the end, in 15b, after recounting his great exploits, the poet himself confidently asserts that Indra is indeed real. The reality of Indra may signify not only his existence as a powerful god, but more especially his actual presence at the poet’s sacrifice.

Jamison Brereton Notes

[II.12 Indra (misc. comments by SJ to JPB tr.)

01 यो जात - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यो जा॒त ए॒व प्र॑थ॒मो मन॑स्वान्
दे॒वो दे॒वान् क्रतु॑ना प॒र्यभू॑षत्
यस्य॒ शुष्मा॒द्(=बलाद्) रोद॑सी॒ अभ्य॑सेतां(←भ्यस भये)
नृ॒म्णस्य॑(=पौरुषस्य) म॒ह्ना स (हे) ज॑नास॒! इन्द्रः॑ ॥ ०१॥

02 यः पृथिवीम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यः पृ॑थि॒वीं व्यथ॑माना॒म् अदृं॑ह॒द्(←दृहि वृद्धौ)
यः (विषुवस्थानकम्पकान्?) पर्व॑ता॒न् प्रकु॑पिताँ॒ अर॑म्णात्(←रमु क्रीडायां)
यो अ॒न्तरि॑क्षं विम॒मे वरी॑यो॒ (ऽन्तरिक्षम्)
यो द्याम् अस्त॑भ्ना॒त् स (हे) ज॑नास॒! इन्द्रः॑ ॥ ०२॥

03 यो हत्वाहिमरिणात्सप्त - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यो ह॒त्वाहि॒म् (मेघरूपम् नक्षत्रस्थं वा) अरि॑णात्(=प्रैरयत्) (द्युगङ्गासहितान्) स॒प्त सिन्धू॒न्
यो (वृषराशिस्था अपि) गा उ॒द्-आज॑द्(=गमयत्) अप॒-धा व॒लस्य॑ ।
यो अश्म॑नोर् अ॒न्तर् अ॒ग्निं ज॒जान॑
सं॒वृक् स॒म्-अत्सु॒ (युद्धादिषु)(हे) ज॑नास॒! इन्द्रः॑ ॥ ०३॥

04 येनेमा विश्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

येने॒मा विश्वा॒ च्यव॑ना(=नश्वराणि) कृ॒तानि॒
यो दासं॒ वर्ण॒म् अध॑रं॒ गुहा(=गूढम्)ऽकः॑(=अकरोत्)
श्व॒घ्नीव॒(→व्याध इव) यो जि॑गी॒वाल्ँ ल॒क्षम्, आद॑द्
अ॒र्यः (शत्रु)पु॒ष्टानि॒ स (हे) ज॑नास॒! इन्द्रः॑ ॥ ०४॥

05 यं स्मा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यं स्मा॑ पृ॒च्छन्ति॒ कुह॒ सेति॑ घो॒रम्
उ॒त+ईम् आ॑हु॒र् नैषो अ॒स्तीत्य् ए॑नम् ।
सो अ॒र्यः पु॒ष्टीर् (उद्)विज॑ इ॒वा मि॑नाति॒(=हिनस्ति)
श्रद् अ॑स्मै धत्त॒ स (हे) ज॑नास॒! इन्द्रः॑ ॥(5) ०५॥

06 यो रध्रस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यो र॒ध्रस्य॑(=समृद्धस्य ← रध हिंसासंराध्योः) चोदि॒ता यः कृ॒शस्य॒
यो ब्र॒ह्मणो॒ नाध॑(थ)मानस्य की॒रेः(=कीर्तयितुः)
(सोमसवाय) यु॒क्त-ग्रा॑व्णो॒ यो ऽवि॒ता सु॑शि॒प्रः(=सुशिराः‌\सुहनुः)
सु॒त-सो॑मस्य॒ स (हे) ज॑नास॒! इन्द्रः॑ ॥ ०६॥

07 यस्याश्वासः प्रदिशि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्याश्वा॑सः प्र॒दिशि॒(=निर्देशे) यस्य॒ गावो॒
यस्य॒ ग्रामा॒ यस्य॒ विश्वे॒ रथा॑सः ।
यः सूर्यं॒ य उ॒षसं॑ ज॒जान॒
यो (मेघवृत्रहननेन) अ॒पां ने॒ता स (हे) ज॑नास॒! इन्द्रः॑ ॥ ०७॥

08 यं क्रन्दसी - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यं क्रन्द॑सी (रोदसी) संय॒ती वि॒ह्वये॑ते॒
परे ऽव॑र उ॒भया॑ अ॒मित्राः॑ ।
स॒मा॒नं चि॒द् रथ॑म् आतस्थि॒वांसा॒
नाना॑ हवेते॒ स (हे) ज॑नास॒! इन्द्रः॑ ॥(4) ०८॥

09 यस्मान्न ऋते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्मा॒न् न ऋ॒ते वि॒जय॑न्ते॒ जना॑सो॒
यं युध्य॑माना॒ अव॑से॒(=अवनाय) हव॑न्ते ।
यो विश्व॑स्य प्रति॒मानं॑ ब॒भूव॒
यो अ॑च्युत॒च्युत् स (हे) ज॑नास॒! इन्द्रः॑ ॥ ०९॥

10 यः शश्वतो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यः शश्व॑तो॒(=बहून्) मह्य्-एनो॒ दधा॑ना॒न्
अम॑न्यमाना॒ञ् छर्वा॑(=हिंस्रः) ज॒घान॑ ।
यः शर्ध॑ते॒(←श्रृधु शब्दकुत्सायाम्) नानु॒ददा॑ति शृ॒ध्यां(←श्रृधु शब्दकुत्सायाम्)
यो दस्यो॑र् ह॒न्ता स (हे) ज॑नास॒! इन्द्रः॑ ॥ १०॥

11 यः शम्बरम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यः शम्ब॑रं॒ (विषुवस्थानकम्पक-ख-)पर्व॑तेषु क्षि॒यन्तं॑
चत्वारिं॒श्यां (तिथौ) श॒रद्य् अ॒न्ववि॑न्दत् ।
ओ॒जा॒यमा॑नं॒ यो अहिं॑ (ज्येष्ठासमीपस्थं/ प्रोष्ठपदस्थं / मेघं) ज॒घान॒
दानुं॒(=दानवं) शया॑नं॒ स (हे) ज॑नास॒! इन्द्रः॑ ॥ ११॥

12 यः सप्तरश्मिवृड़्षभस्तुविष्मानवासृजत्सर्तवे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यः स॒प्त(=युक्त)-र॑श्मिर् (विपरीतराश्या वर्षणेन वा) वृष॒भस् तुवि॑ष्मान्(=बलवान्)
अ॒वासृ॑ज॒त् सर्त॑वे(=सरणाय) (आकाश-गङ्गा-सहितान्) स॒प्त सिन्धू॑न् ।
यो रौ॑हि॒णम् (असुरं खस्थानं वा) अस्फु॑र॒द् वज्र॑बाहु॒र्
द्याम् आ॒रोह॑न्तं॒ स (हे) ज॑नास॒! इन्द्रः॑ ॥ १२॥

13 द्यावा चिदस्मै - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

द्यावा॑ चिद् अस्मै पृथि॒वी न॑मेते॒
शुष्मा॑च् चिद् अस्य॒ (विषुवस्थानकम्पका?) पर्व॑ता भयन्ते ।
यः सो॑म॒पा नि॑चि॒तो वज्र॑बाहु॒र्
यो वज्र॑हस्तः॒ स (हे) ज॑नास॒! इन्द्रः॑ ॥ १३॥

14 यः सुन्वन्तमवति - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यः सु॒न्वन्त॒म् अव॑ति॒ यः पच॑न्तं॒
यः (शस्त्राणि) शंस॑न्तं॒ यः (स्तोत्रैः) श॑शमा॒नम्(←शम्) ऊ॒ती ।
यस्य॒ ब्रह्म॒ वर्ध॑नं॒ यस्य॒ सोमो॒
यस्ये॒दं राधः॒(=वर्धनं/ अनूराधाः ज्येष्ठापार्श्वस्थाः)(हे) ज॑नास॒! इन्द्रः॑ ॥ १४॥

15 यः सुन्वते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यः सु॑न्व॒ते पच॑ते दु॒ध्र(=दुर्धरः) आ चि॒द्
वाजं॒ दर्द॑र्षि॒(=प्रापयसि), स किला॑सि स॒त्यः ।
व॒यं त॑ इन्द्र वि॒श्वह॑(=सर्वेष्वहस्सु) प्रि॒यासः॑
(प्रजाभिः) सु॒वीरा॑सो वि॒दथ॒म्(=स्तोत्रम्) आ व॑देम ॥ १५॥