०११

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ श्रुधी हवम् ’ इत्येकविंशत्यृचमेकादशं सूक्तं गार्त्समदम् । अत्रानुक्रमणिका-’ श्रुधि सैकेन्द्रं विराट्स्थानमृतेऽन्त्याम् ’ इति । विराट्स्थाना त्रिष्टुप् । तल्लक्षणमनुक्रमण्यामुक्तं-’ नवकौ वैराजस्त्रैष्टुभश्च द्वौ वा वैराजौ नवकस्त्रैष्टुभश्च विराट्स्थाना ’ इति । अनया त्रिष्टुप् विशेषस्यानुक्तत्वात् । इन्द्रो देवता । पृष्ठ्यस्य चतुर्थेऽहनि मरुत्वतीयशस्त्रे द्वे सूक्ते निविद्धाने । तत्रेदं तृतीयं सूक्तम् । ’ चतुर्थऽहनि ’ इति खण्डे सूत्रितं-’ श्रुधी हवमिन्द्र मरुत्वाँ इन्द्रेति मरुत्वतीयम् ’ ( आश्व श्रौ. ७.११) इति ।।

Jamison Brereton

11 (202)
Indra
Gr̥tsamada
21 verses: virāṭsthānā triṣṭubh, except triṣṭubh 21
Judging from its frequent references to the winds, this Indra hymn was composed to accompany the day’s first soma-pressing, which anciently belonged especially to Indra and Vāyu, the Wind. It is also a good example of the complexity of R̥gvedic poetry. The poet uses ellipses and ambiguous reference to suggest the union of the acts of the accompanying ritual and the action of the myth. In verse 3, for example, the “resplendent” (śubhrá) ones who run to the wind are the Maruts, the gods who so often accompany Indra. But the adjective “resplendent” is also used of soma, and therefore the verse carries a second, suggested meaning that the offering of soma goes to the Wind, who receives the soma along with Indra. Or again, in verses 7–8, it appears at first as though the mountain described there is one of the mountains settled by Indra when he made the world habitable. But this mountain is described in odd ways: it does not falter; it bellows with its mothers; and it roars— descriptions that force a reconsideration of its identity. Elsewhere these epithets characterize the fire, which is “settled” by priests on the sacrificial area. Thus, the creative actions of the god and the ritual actions of the priests are placed in parallel and made reflexes of one another. For a detailed analysis of this hymn, which seeks to demonstrate its double reference to myth and ritual, see Brereton (1985).

Jamison Brereton Notes

Indra [II.11-24 JPB] [II.11 Indra (misc. comments by SJ to JPB tr.)

The hymn has a remarkable number of predicated tense-stem participles.

Another notable feature is the large number of occurrences of the particle nú, all in the first pāda of the vs., in short runs of adjacent vss.: 3a, 4a; 6a, 7a; 15a, 16a, 17a. The last vs. of the hymn (21) then begins nūnám, as if in summary.

On the unusual meter of this hymn see Oldenberg Prol. 87-90, who also remarks on its unusual vocab., which, taken together, gives the hymn a “Sonderstellung” among the surrounding hymns (87 n. 1).

01 श्रुधी हवमिन्द्र - विराट्स्थाना त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

श्रु॒धी हव॑मिन्द्र॒ मा रि॑षण्यः॒ स्याम॑ ते दा॒वने॒ वसू॑नाम् ।
इ॒मा हि त्वामूर्जो॑ व॒र्धय॑न्ति वसू॒यवः॒ सिन्ध॑वो॒ न क्षर॑न्तः ॥

02 सृजो महीरिन्द्र - विराट्स्थाना त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सृ॒जो म॒हीरि॑न्द्र॒ या अपि॑न्वः॒ परि॑ष्ठिता॒ अहि॑ना शूर पू॒र्वीः ।
अम॑र्त्यं चिद्दा॒सं मन्य॑मान॒मवा॑भिनदु॒क्थैर्वा॑वृधा॒नः ॥

03 उक्थेष्विन्नु शूर - विराट्स्थाना त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒क्थेष्विन्नु शू॑र॒ येषु॑ चा॒कन्स्तोमे॑ष्विन्द्र रु॒द्रिये॑षु च ।
तुभ्येदे॒ता यासु॑ मन्दसा॒नः प्र वा॒यवे॑ सिस्रते॒ न शु॒भ्राः ॥

04 शुभ्रं नु - विराट्स्थाना त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शु॒भ्रं नु ते॒ शुष्मं॑ व॒र्धय॑न्तः शु॒भ्रं वज्रं॑ बा॒ह्वोर्दधा॑नाः ।
शु॒भ्रस्त्वमि॑न्द्र वावृधा॒नो अ॒स्मे दासी॒र्विशः॒ सूर्ये॑ण सह्याः ॥

05 गुहा हितम् - विराट्स्थाना त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

गुहा॑ हि॒तं गुह्यं॑ गू॒ळ्हम॒प्स्वपी॑वृतं मा॒यिनं॑ क्षि॒यन्त॑म् ।
उ॒तो अ॒पो द्यां त॑स्त॒भ्वांस॒मह॒न्नहिं॑ शूर वी॒र्ये॑ण ॥

06 स्तवा नु - विराट्स्थाना त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स्तवा॒ नु त॑ इन्द्र पू॒र्व्या म॒हान्यु॒त स्त॑वाम॒ नूत॑ना कृ॒तानि॑ ।
स्तवा॒ वज्रं॑ बा॒ह्वोरु॒शन्तं॒ स्तवा॒ हरी॒ सूर्य॑स्य के॒तू ॥

07 हरी नु - विराट्स्थाना त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

हरी॒ नु त॑ इन्द्र वा॒जय॑न्ता घृत॒श्चुतं॑ स्वा॒रम॑स्वार्ष्टाम् ।
वि स॑म॒ना भूमि॑रप्रथि॒ष्टारं॑स्त॒ पर्व॑तश्चित्सरि॒ष्यन् ॥

08 नि पर्वतः - विराट्स्थाना त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नि पर्व॑तः सा॒द्यप्र॑युच्छ॒न्त्सं मा॒तृभि॑र्वावशा॒नो अ॑क्रान् ।
दू॒रे पा॒रे वाणीं॑ व॒र्धय॑न्त॒ इन्द्रे॑षितां ध॒मनिं॑ पप्रथ॒न्नि ॥

09 इन्द्रो महाम् - विराट्स्थाना त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रो॑ म॒हां सिन्धु॑मा॒शया॑नं माया॒विनं॑ वृ॒त्रम॑स्फुर॒न्निः ।
अरे॑जेतां॒ रोद॑सी भिया॒ने कनि॑क्रदतो॒ वृष्णो॑ अस्य॒ वज्रा॑त् ॥

10 अरोरवीद्वृष्णो अस्य - विराट्स्थाना त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अरो॑रवी॒द्वृष्णो॑ अस्य॒ वज्रोऽमा॑नुषं॒ यन्मानु॑षो नि॒जूर्वा॑त् ।
नि मा॒यिनो॑ दान॒वस्य॑ मा॒या अपा॑दयत्पपि॒वान्त्सु॒तस्य॑ ॥

11 पिबापिबेदिन्द्र शूर - विराट्स्थाना त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पिबा॑पि॒बेदि॑न्द्र शूर॒ सोमं॒ मन्द॑न्तु त्वा म॒न्दिनः॑ सु॒तासः॑ ।
पृ॒णन्त॑स्ते कु॒क्षी व॑र्धयन्त्वि॒त्था सु॒तः पौ॒र इन्द्र॑माव ॥

12 त्वे इन्द्राप्यभूम - विराट्स्थाना त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वे इ॒न्द्राप्य॑भूम॒ विप्रा॒ धियं॑ वनेम ऋत॒या सप॑न्तः ।
अ॒व॒स्यवो॑ धीमहि॒ प्रश॑स्तिं स॒द्यस्ते॑ रा॒यो दा॒वने॑ स्याम ॥

13 स्याम ते - विराट्स्थाना त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स्याम॒ ते त॑ इन्द्र॒ ये त॑ ऊ॒ती अ॑व॒स्यव॒ ऊर्जं॑ व॒र्धय॑न्तः ।
शु॒ष्मिन्त॑मं॒ यं चा॒कना॑म देवा॒स्मे र॒यिं रा॑सि वी॒रव॑न्तम् ॥

14 रासि क्षयम् - विराट्स्थाना त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

रासि॒ क्षयं॒ रासि॑ मि॒त्रम॒स्मे रासि॒ शर्ध॑ इन्द्र॒ मारु॑तं नः ।
स॒जोष॑सो॒ ये च॑ मन्दसा॒नाः प्र वा॒यवः॑ पा॒न्त्यग्र॑णीतिम् ॥

15 व्यन्त्विन्नु येषु - विराट्स्थाना त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

व्यन्त्विन्नु येषु॑ मन्दसा॒नस्तृ॒पत्सोमं॑ पाहि द्र॒ह्यदि॑न्द्र ।
अ॒स्मान्त्सु पृ॒त्स्वा त॑रु॒त्राव॑र्धयो॒ द्यां बृ॒हद्भि॑र॒र्कैः ॥

16 बृहन्त इन्नु - विराट्स्थाना त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

बृ॒हन्त॒ इन्नु ये ते॑ तरुत्रो॒क्थेभि॑र्वा सु॒म्नमा॒विवा॑सान् ।
स्तृ॒णा॒नासो॑ ब॒र्हिः प॒स्त्या॑व॒त्त्वोता॒ इदि॑न्द्र॒ वाज॑मग्मन् ॥

17 उग्रेष्विन्नु शूर - विराट्स्थाना त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒ग्रेष्विन्नु शू॑र मन्दसा॒नस्त्रिक॑द्रुकेषु पाहि॒ सोम॑मिन्द्र ।
प्र॒दोधु॑व॒च्छ्मश्रु॑षु प्रीणा॒नो या॒हि हरि॑भ्यां सु॒तस्य॑ पी॒तिम् ॥

18 धिष्वा शवः - विराट्स्थाना त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

धि॒ष्वा शवः॑ शूर॒ येन॑ वृ॒त्रम॒वाभि॑न॒द्दानु॑मौर्णवा॒भम् ।
अपा॑वृणो॒र्ज्योति॒रार्या॑य॒ नि स॑व्य॒तः सा॑दि॒ दस्यु॑रिन्द्र ॥

19 सनेम ये - विराट्स्थाना त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सने॑म॒ ये त॑ ऊ॒तिभि॒स्तर॑न्तो॒ विश्वाः॒ स्पृध॒ आर्ये॑ण॒ दस्यू॑न् ।
अ॒स्मभ्यं॒ तत्त्वा॒ष्ट्रं वि॒श्वरू॑प॒मर॑न्धयः सा॒ख्यस्य॑ त्रि॒ताय॑ ॥

20 अस्य सुवानस्य - विराट्स्थाना त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्य सु॑वा॒नस्य॑ म॒न्दिन॑स्त्रि॒तस्य॒ न्यर्बु॑दं वावृधा॒नो अ॑स्तः ।
अव॑र्तय॒त्सूर्यो॒ न च॒क्रं भि॒नद्व॒लमिन्द्रो॒ अङ्गि॑रस्वान् ॥

21 नूनं सा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदि॑न्द्र॒ दक्षि॑णा म॒घोनी॑ ।
शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥