००९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

।। श्रीगणेशाय नमः ।।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्। ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ।।

’ नि होता ’ इति षडृचं नवमं सूक्तं गृत्समदस्यार्षं ’ नि होता ’ इत्यनुक्रान्तत्वात् । अनुक्तत्वात् त्रिष्टुप् । मण्डलादिपरिभाषयाग्निर्देवता । प्रातरनुवाकाश्विनशस्त्रयोराग्नेये क्रतौ त्रैष्टुभे छन्दसि अस्य विनियोगः । ’ अथैतस्याः - ’ इति खण्डे सूत्रितं-’ नि होता होतृषदन इति सूक्ते ’ ( आश्व. श्रौ. ४.१३) इति ।। अग्निप्रणयन आद्ये ऋचौ विनियुक्ते । ’ पञ्चम्यां पौर्णमास्याम् ’ इति खण्डे सूत्रितं- ’ नि होता होतृषदन इति द्वे ’ ( आश्व श्रौ २. १७) ।।

Jamison Brereton

9 (200)
Agni
Gr̥tsamada
6 verses: triṣṭubh
The hymn begins with a 3rd-person past-time reference to the installation of Agni, and seems also to refer obliquely to the myth of Agni’s disappearance and recovery by the gods. After verse 1 it switches to the 2nd person and present/future time, with standard praise of Agni and prayers for benefits from him.

Jamison Brereton Notes

Agni

09-10 ...{Loading}...

Jamison Brereton Notes

Agni These two six-verse trimeter hymns follow the two six-verse dimeter hymns (II.7-8), though by the normal rules of hymn ordering they should precede them. In his opening n. on II.9 in SBE, Oldenberg tentatively suggests that II.9 and 10 should each be divided into two tṛcas, but in the Noten he essentially withdraws this suggestion because he sees signs of unity within the two hymns as transmitted.

01 नि होता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नि᳓ हो᳓ता होतृष᳓दने वि᳓दानस्
त्वेषो᳓ दीदिवाँ᳓ असदत् सुद᳓क्षः
अ᳓दब्धव्रतप्रमतिर् व᳓सिष्ठः
सहस्रम्भरः᳓ शु᳓चिजिह्वो अग्निः᳓

02 त्वं दूतस्त्वमु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ दूत᳓स् तुव᳓म् उ नः परस्पा᳓स्
तुवं᳓ व᳓स्य आ᳓ वृषभ प्रणेता᳓
अ᳓ग्ने तोक᳓स्य नस् त᳓ने तनू᳓नाम्
अ᳓प्रयुछन् दी᳓दियद् बोधि गोपाः᳓

03 विधेम ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

विधे᳓म ते परमे᳓ ज᳓न्मन्न् अग्ने
विधे᳓म स्तो᳓मैर् अ᳓वरे सध᳓-स्थे ।
य᳓स्माद् यो᳓नेर् उदा᳓रिथा+++(←ऋ गतौ)+++ य᳓जे तं᳓
प्र᳓ त्वे᳓ हवीं᳓षि जुहुरे स᳓मिद्धे

04 अग्ने यजस्व - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ग्ने य᳓जस्व हवि᳓षा य᳓जीयाञ्
छ्रुष्टी᳓ देष्ण᳓म् अभि᳓ गृणीहि रा᳓धः
त्वं᳓ हि᳓ अ᳓सि रयिप᳓ती रयीणां᳓
तुवं᳓ शुक्र᳓स्य व᳓चसो मनो᳓ता

05 उभयं ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उभ᳓यं ते न᳓ क्षीयते वसव्यं᳡
दिवे᳓-दिवे जा᳓यमानस्य दस्म
कृधि᳓ क्षुम᳓न्तं जरिता᳓रम् अग्ने
कृधि᳓ प᳓तिं सुअपत्य᳓स्य रायः᳓

06 सैनानीकेन सुविदत्रो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सइ᳓ना᳓नीकेन सुविद᳓त्रो अस्मे᳓
य᳓ष्टा देवाँ᳓ आ᳓यजिष्ठः सुअस्ति᳓
अ᳓दब्धो गोपा᳓ उत᳓ नः परस्पा᳓
अ᳓ग्ने द्युम᳓द् उत᳓ रेव᳓द् दिदीहि