००८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ वाजयन्निव ’ इति षडृचमष्टमं सूक्तम् । सोमाहुतेर्हशब्दानुवृत्तस्याभावात् मण्डलद्रष्टा गृत्समद ऋषिः । अग्निर्देवता । हिशब्दाद्गायत्री छन्दः । अन्त्यानुष्टुप् । ’ वाजयन्निवान्त्यानुष्टुप् ’ इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोस्तृतीयसूक्तत्वेन अस्योत्तमावर्जितस्य विनियोग उक्तः ।।

Jamison Brereton

8 (199)
Agni
Gr̥tsamada
6 verses: gāyatrī
A simple hymn in many ways, but with a small twist. The mention of the seer and poet Atri in verse 5 is surprising: Atri is the poet of the Vth Maṇḍala and is oth erwise not found in II. However, in the immediately preceding verse the appar ently innocent simile “like the sun with its radiance” (svàr ṇá bhānúnā) encodes a reference to a famous myth in which Atri rescues the sun from a supposed demon Svarbhānu. As I have argued (Jamison 1991: 264–67), Svarbhānu is actually Agni, and therefore this little hymn makes sly reference to the myth of the Sun, wounded by Agni (because of the Sun’s incest with his own daughter) and healed by Atri.

Jamison Brereton Notes

Agni

01 वाजयन्निव नू - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वाजय᳓न्न् इव नू᳓ र᳓थान्
यो᳓गाँ अग्ने᳓र् उ᳓प स्तुहि
यश᳓स्तमस्य मीळ्हु᳓षः

02 यः सुनीथो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यः᳓ सुनीथो᳓ ददाशु᳓षे
अजुर्यो᳓ जर᳓यन्न् अरि᳓म्
चा᳓रुप्रतीक आ᳓हुतः

03 य उ - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓ उ श्रिया᳓ द᳓मेषु आ᳓
दोषो᳓ष᳓सि प्रशस्य᳓ते
य᳓स्य व्रतं᳓ न᳓ मी᳓यते

04 आ यः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ यः᳓ सु᳓वर् ण᳓ भानु᳓ना
चित्रो᳓ विभा᳓ति अर्चि᳓षा
अञ्जानो᳓ अज᳓रैर् अभि᳓

05 अत्रिमनु स्वराज्यमग्निमुक्थानि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓त्रिम् अ᳓नु स्वरा᳓जियम्
अग्नि᳓म् उक्था᳓नि वावृधुः
वि᳓श्वा अ᳓धि श्रि᳓यो दधे

06 अग्नेरिन्द्रस्य सोमस्य - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने᳓र् इ᳓न्द्रस्य सो᳓मस्य
देवा᳓नाम् ऊति᳓भिर् वय᳓म्
अ᳓रिष्यन्तः सचेमहि
अभि᳓ ष्याम पृतन्यतः᳓