००६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ इमा मे ’ इत्यष्टर्चं षष्ठं सूक्तं सोमाहुत्यार्षमाग्नेयं गायत्रम् । ’ इमां मे गायत्रं हि ’ इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोर्गायत्रे छन्दस्यस्य विनियोगः । सूत्रितं च - ’ इमां मे अग्ने समिधमिमामिति त्रयाणामुत्तमामुद्धरेत् ’ (आश्व श्रौ. ४. १३) इति । अपराह्णिक्यामुपसदि ‘इमां मे अग्ने समिधम्’ इति तिस्र ऋचस्त्रिरभ्यस्ता नव सामिधेन्यः कृत्वा विनियोक्तव्याः । ’ अथोपसत् ’ इति खण्डे सूत्रितम्- ’ इमां मे अग्ने समिधमिमामिति तु सामिधेन्यः ’ ( आश्व श्रौ. ४. ८) इति ।।

Jamison Brereton

6 (197)
Agni
Somāhuti Bhārgava
8 verses: gāyatrī
There is nothing particularly striking in this hymn, which treats the usual themes of our ritual service to Agni and the rewards we expect in turn. But it is deftly done and economically expressed in the short gāyatrī meter, with patterned repetitions perceptible even in translation (see, e.g., vss. 1, 3, 5). The final two verses present the common image of Agni as envoy and messenger between the human and divine worlds.

Jamison Brereton Notes

Agni

01 इमां मे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इमा᳓म् मे अग्ने समि᳓धम्
इमा᳓म् उपस᳓दं वनेः
इमा᳓ उ षु᳓ श्रुधी गि᳓रः

02 अया ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अया᳓ ते अग्ने विधेम
ऊ᳓र्जो नपाद् अ᳓श्वमिष्टे
एना᳓ सूक्ते᳓न सुजात

03 तं त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ त्वा गीर्भि᳓र् गि᳓र्वणसं
द्रविणस्युं᳓ द्रविणोदः
सपर्ये᳓म सपर्य᳓वः

04 स बोधि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ बोधि सूरि᳓र् मघ᳓वा
व᳓सुपते व᳓सुदावन्
युयोधि᳓ अस्म᳓द् द्वे᳓षांसि

05 स नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ नो वृष्टिं᳓ दिव᳓स् प᳓रि
स᳓ नो वा᳓जम् अनर्वा᳓णम्
स᳓ नः सहस्रि᳓णीर् इ᳓षः

06 ईळानायावस्यवे यविष्ट - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ई᳓ळानाय अवस्य᳓वे
य᳓विष्ठ दूत नो गिरा᳓
य᳓जिष्ठ होतर् आ᳓ गहि

07 अन्तर्ह्यग्न ईयसे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अन्त᳓र् हि᳓ अग्न ई᳓यसे
विद्वा᳓ञ् ज᳓न्मोभ᳓या कवे
दूतो᳓ ज᳓न्येव मि᳓त्रियः

08 स विद्वाँ - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ विद्वाँ᳓ आ᳓ च पिप्रयो
य᳓क्षि चिकित्व आनुष᳓क्
आ᳓ चास्मि᳓न् सत्सि बर्हि᳓षि