००३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ समिद्धो अग्निः ’ इत्येकादशर्चं तृतीयं सूक्तं गार्त्समदं त्रैष्टुभम् । सप्तमी जगती । समिद्धोऽग्निरग्निना नराशंसतनूनपादादय एकादश प्रयाजदेवताः । ’ समिद्ध एकादशाप्रं सप्तमी जगती ’ इत्यनुक्रमणिका । पशौ शुनकानामिदमाप्रीसूक्तम् । गृत्समदस्यापि शुनकत्वात् । ’ समिद्धो अग्निरिति शुनकानाम् ’ ( आश्व. श्रौ. ३.२) इति हि सूत्रितम् ।

Jamison Brereton

3 (194)
Āprı̄
Gr̥tsamada
11 verses: triṣṭubh, except jagatī 7
This is one of the ten so-called Āprī hymns in the R̥gveda, a litany recited at the animal sacrifice: the subjects of the verses appear in a fixed order, each signaled by a key word (italicized in the following translation), though the exact wording of each differs from hymn to hymn. This type of flexible composition around a set of fixed themes and terms in a fixed order may give us some insight into R̥gvedic compo
sitional techniques. This version is somewhat fuller and verbally richer than most, encouraged by the relatively capacious measures of triṣṭubh meter. For a minimalist version, see I.13.

Jamison Brereton Notes

Āprī

01 समिद्धो अग्निर्निहितः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

समि॑द्धो अ॒ग्निर्निहि॑तः पृथि॒व्यां प्र॒त्यङ्विश्वा॑नि॒ भुव॑नान्यस्थात् ।
होता॑ पाव॒कः प्र॒दिवः॑ सुमे॒धा दे॒वो दे॒वान्य॑जत्व॒ग्निरर्ह॑न् ॥

02 नराशंसः प्रति - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नरा॒शंसः॒ प्रति॒ धामा॑न्य॒ञ्जन्ति॒स्रो दिवः॒ प्रति॑ म॒ह्ना स्व॒र्चिः ।
घृ॒त॒प्रुषा॒ मन॑सा ह॒व्यमु॒न्दन्मू॒र्धन्य॒ज्ञस्य॒ सम॑नक्तु दे॒वान् ॥

03 ईळितो अग्ने - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ई॒ळि॒तो अ॑ग्ने॒ मन॑सा नो॒ अर्ह॑न्दे॒वान्य॑क्षि॒ मानु॑षा॒त्पूर्वो॑ अ॒द्य ।
स आ व॑ह म॒रुतां॒ शर्धो॒ अच्यु॑त॒मिन्द्रं॑ नरो बर्हि॒षदं॑ यजध्वम् ॥

04 देव बर्हिर्वर्धमानम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

देव॑ बर्हि॒र्वर्ध॑मानं सु॒वीरं॑ स्ती॒र्णं रा॒ये सु॒भरं॒ वेद्य॒स्याम् ।
घृ॒तेना॒क्तं व॑सवः सीदते॒दं विश्वे॑ देवा आदित्या य॒ज्ञिया॑सः ॥

05 वि श्रयन्तामुर्विया - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि श्र॑यन्तामुर्वि॒या हू॒यमा॑ना॒ द्वारो॑ दे॒वीः सु॑प्राय॒णा नमो॑भिः ।
व्यच॑स्वती॒र्वि प्र॑थन्तामजु॒र्या वर्णं॑ पुना॒ना य॒शसं॑ सु॒वीर॑म् ॥

06 साध्वपांसि सनता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सा॒ध्वपां॑सि स॒नता॑ न उक्षि॒ते उ॒षासा॒नक्ता॑ व॒य्ये॑व रण्वि॒ते ।
तन्तुं॑ त॒तं सं॒वय॑न्ती समी॒ची य॒ज्ञस्य॒ पेशः॑ सु॒दुघे॒ पय॑स्वती ॥

07 दैव्या होतारा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

दैव्या॒ होता॑रा प्रथ॒मा वि॒दुष्ट॑र ऋ॒जु य॑क्षतः॒ समृ॒चा व॒पुष्ट॑रा ।
दे॒वान्यज॑न्तावृतु॒था सम॑ञ्जतो॒ नाभा॑ पृथि॒व्या अधि॒ सानु॑षु त्रि॒षु ॥

08 सरस्वती साधयन्ती - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सर॑स्वती सा॒धय॑न्ती॒ धियं॑ न॒ इळा॑ दे॒वी भार॑ती वि॒श्वतू॑र्तिः ।
ति॒स्रो दे॒वीः स्व॒धया॑ ब॒र्हिरेदमच्छि॑द्रं पान्तु शर॒णं नि॒षद्य॑ ॥

09 पिशङ्गरूपः सुभरो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पि॒शङ्ग॑रूपः सु॒भरो॑ वयो॒धाः श्रु॒ष्टी वी॒रो जा॑यते दे॒वका॑मः ।
प्र॒जां त्वष्टा॒ वि ष्य॑तु॒ नाभि॑म॒स्मे अथा॑ दे॒वाना॒मप्ये॑तु॒ पाथः॑ ॥

10 वनस्पतिरवसृजन्नुप स्थादग्निर्हविः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वन॒स्पति॑रवसृ॒जन्नुप॑ स्थाद॒ग्निर्ह॒विः सू॑दयाति॒ प्र धी॒भिः ।
त्रिधा॒ सम॑क्तं नयतु प्रजा॒नन्दे॒वेभ्यो॒ दैव्यः॑ शमि॒तोप॑ ह॒व्यम् ॥

11 घृतं मिमिक्षे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

घृ॒तं मि॑मिक्षे घृ॒तम॑स्य॒ योनि॑र्घृ॒ते श्रि॒तो घृ॒तम्व॑स्य॒ धाम॑ ।
अ॒नु॒ष्व॒धमा व॑ह मा॒दय॑स्व॒ स्वाहा॑कृतं वृषभ वक्षि ह॒व्यम् ॥