१९०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘अनर्वाणम्’ इत्यष्टर्चमेकादशं सूक्तमागस्त्यं बार्हस्पत्यं त्रैष्टुभम् । अनर्वाणं बार्हस्पत्यम्’ इत्यनुक्रान्तम् । श्रौतविनियोगो लैङ्गिकः । अत्र शौनकः– स्नात्वा जपेदनर्वाणं नमस्कृत्य बृहस्पतिम् । वीरान् धनं च प्राप्नोति सोऽश्लोक्यं च नियच्छति’ (ऋग्वि. १. १५३-१५४ ) इति ॥

Jamison Brereton

190
Br̥haspati
Agastya Maitrāvaruṇi
8 verses: triṣṭubh
Br̥haspati, the lord of formulations, is here presented as both producer and receiver of sacred speech and sound. This theme is established in the first verse, where my chants strengthen Br̥haspati, who himself is the “leader of song.” The physi cal movement of words and sound—between mortals and gods, between earth and heaven—is a repeated theme in the hymn (see esp. vss. 2, 4, 7). The difficult verses 3 and 4 concern a particular kind of sacred sound, the signal-call (ślóka) that Br̥haspati launches daily, most likely a call announcing the sacrifice or some part of it.
The Br̥haspati depicted in this hymn is no mere gentle wordsmith, but militant and aggressive, compared to a bellowing bull (vs. 1), a fearsome wild beast (vss. 3, 4), a bird of prey (vs. 7). His words are missiles (vs. 4), and those who underestimate him and seek to exploit him receive his punishment (vs. 5).

Jamison Brereton Notes

Bṛhaspati For the hymn as a whole, see H.-P. Schmidt, Bṛhaspati und Indra (1968), 72- 77 and passim.

01 अनर्वाणं वृषभम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒न॒र्वाणं॑ वृष॒भं म॒न्द्रजि॑ह्वं॒ बृह॒स्पतिं॑ वर्धया॒ नव्य॑म॒र्कैः ।
गा॒था॒न्यः॑ सु॒रुचो॒ यस्य॑ दे॒वा आ॑शृ॒ण्वन्ति॒ नव॑मानस्य॒ मर्ताः॑ ॥

02 तमृत्विया उप - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तमृ॒त्विया॒ उप॒ वाचः॑ सचन्ते॒ सर्गो॒ न यो दे॑वय॒तामस॑र्जि ।
बृह॒स्पतिः॒ स ह्यञ्जो॒ वरां॑सि॒ विभ्वाभ॑व॒त्समृ॒ते मा॑त॒रिश्वा॑ ॥

03 उपस्तुतिं नमस - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उप॑स्तुतिं॒ नम॑स॒ उद्य॑तिं च॒ श्लोकं॑ यंसत्सवि॒तेव॒ प्र बा॒हू ।
अ॒स्य क्रत्वा॑ह॒न्यो॒३॒॑ यो अस्ति॑ मृ॒गो न भी॒मो अ॑र॒क्षस॒स्तुवि॑ष्मान् ॥

04 अस्य श्लोको - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्य श्लोको॑ दि॒वीय॑ते पृथि॒व्यामत्यो॒ न यं॑सद्यक्ष॒भृद्विचे॑ताः ।
मृ॒गाणां॒ न हे॒तयो॒ यन्ति॑ चे॒मा बृह॒स्पते॒रहि॑मायाँ अ॒भि द्यून् ॥

05 ये त्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ये त्वा॑ देवोस्रि॒कं मन्य॑मानाः पा॒पा भ॒द्रमु॑प॒जीव॑न्ति प॒ज्राः ।
न दू॒ढ्ये॒३॒॑ अनु॑ ददासि वा॒मं बृह॑स्पते॒ चय॑स॒ इत्पिया॑रुम् ॥

06 सुप्रैतुः सूयवसो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सु॒प्रैतुः॑ सू॒यव॑सो॒ न पन्था॑ दुर्नि॒यन्तुः॒ परि॑प्रीतो॒ न मि॒त्रः ।
अ॒न॒र्वाणो॑ अ॒भि ये चक्ष॑ते॒ नोऽपी॑वृता अपोर्णु॒वन्तो॑ अस्थुः ॥

07 सं यम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सं यं स्तुभो॒ऽवन॑यो॒ न यन्ति॑ समु॒द्रं न स्र॒वतो॒ रोध॑चक्राः ।
स वि॒द्वाँ उ॒भयं॑ चष्टे अ॒न्तर्बृह॒स्पति॒स्तर॒ आप॑श्च॒ गृध्रः॑ ॥

08 एवा महस्तुविजातस्तुविष्मान्बृहस्पतिवृड़्षभो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒वा म॒हस्तु॑विजा॒तस्तुवि॑ष्मा॒न्बृह॒स्पति॑र्वृष॒भो धा॑यि दे॒वः ।
स नः॑ स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥