१८९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ अग्ने नय’ इति दशमं सूक्तम् अष्टर्चमागस्त्यं त्रैष्टुभमाग्नेयम् । अग्ने नयाष्टावाग्नेयम्’ इत्यनुक्रमणिका । प्रातरनुवाकाश्विनशस्त्रयोस्त्रैष्टुभच्छन्दसि विनियोगः । अथैतस्याः’ इत्यत्र अग्ने नयाग्रे बृहन्नित्यष्टानामुत्तमादुत्तमास्तिस्र उद्धरेत् ’ ( आश्व. श्रौ. ४. १३) इति सूत्रितत्वात् । अत्र शौनकः-’उत्पथप्रतिपन्नो यो भ्रष्टो वापि पथः क्वचित् । पन्थानं प्रतिपद्येत कृत्वा वा कर्म गर्हितम् ॥ अग्ने नयेति सूक्तेन प्रत्यृचं जुहुयाद्घृतम् । जपेच्च प्रयतो नित्यमुपतिष्ठेत वानलम् ’ (ऋग्वि. १. १५१-१५३) इति ॥ आद्याश्चतस्रः श्रवणाकर्मणि विनियुक्ताः । ‘श्रावण्यां पौर्णमास्याम् । इत्यत्र सूत्रितम्– अग्ने नय सुपथा राये अस्मानिति चतसृभिः प्रत्यर्चं हुत्वा’ (आश्व. गृ. २.१.४ ) इति । आग्नेये पशौ वपापुरोडाशयोराद्ये द्वे अनुवाक्ये । तथा च सूत्रितम्-’अग्ने नय सुपथा राये अस्मान् पाहि नो अग्ने पायुभिरजस्रैः ’ ( आश्व. श्रौ. ३. ७ ) इति । आद्या प्रायणीयेष्टौ आग्नेयस्यानुवाक्या । सैव उदयनीये याज्या । तदहः प्रायणीयेष्टिः’ इत्यत्र सूत्रितम्-’अग्ने नय सुपथा राये अस्माना देवानामपि पन्थामगन्म’ ( आश्व. श्रौ. ४. ३ ) इति । विपरीताश्च याज्यानुवाक्या इति च ।।

Jamison Brereton

189
Agni
Agastya Maitrāvaruṇi
8 verses: triṣṭubh
Although this hymn begins with a hope for an easy journey to wealth, it is clear that the poet sees menace everywhere, from which he begs Agni for protection. The imaginative catalogue of possible hazards and enemies continues through verse 6. Verse 7 breaks this pattern, but implicitly suggests why Agni will remain on the poet’s side: the god distinguishes between sacrificers and non-sacrificers, and he makes himself available to the former.
The hymn ends with a typical summary verse characterizing the hymn that pre cedes. The poet’s claim that he has spoken “enigmas” seems overblown; in the uni verse of R̥gvedic discourse this hymn is remarkably straightforward, and Agni is unlikely to find interpreting it particularly challenging. The final verse does, how ever, draw attention to a structural feature of the hymn: the first seven verses all contain the vocative of the god’s name, in insistent initial position in the first three, then somewhat postponed in the next four. In the summary verse the direct address to Agni is absent, and he appears instead in the locative, a grammatical shift that underlines the change of topic.

Jamison Brereton Notes

Agni

01 अग्ने नय - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्
विश्वा॑नि देव व॒युना॑नि(=ज्ञानानि) वि॒द्वान् ।
यु॒यो॒ध्य्(=अपनय) अ॑स्मज्-जुहुरा॒णम्(=कुटिलकारि) एनो॒
भूयि॑ष्ठान् ते॒ नम॑-उक्तिव्ँ विधेम

02 अग्ने त्वम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने॒ त्वं पा॑रया॒ नव्यो॑(=स्तोतव्यः/ नवः) अ॒स्मान्त्
स्व॒स्तिभि॒र् अति॑ दु॒र्गाणि॒ विश्वा॑॑।
पूश्(=पुरी[भूता]) च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी
भवा॑ तो॒काय॒(=अपत्याय) तन॑याय॒(=पौत्राय) शं योः(=यापयिता /पृथक्कर्ता)

03 अग्ने त्वमस्मद्युयोध्यमीवा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने॒ त्वम॒स्मद्यु॑यो॒ध्यमी॑वा॒ अन॑ग्नित्रा अ॒भ्यम॑न्त कृ॒ष्टीः ।
पुन॑र॒स्मभ्यं॑ सुवि॒ताय॑ देव॒ क्षां विश्वे॑भिर॒मृते॑भिर्यजत्र ॥

04 पाहि नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पा॒हि नो॑ अग्ने पा॒युभि॒रज॑स्रैरु॒त प्रि॒ये सद॑न॒ आ शु॑शु॒क्वान् ।
मा ते॑ भ॒यं ज॑रि॒तारं॑ यविष्ठ नू॒नं वि॑द॒न्माप॒रं स॑हस्वः ॥

05 मा नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मा नो॑ अ॒ग्नेऽव॑ सृजो अ॒घाया॑वि॒ष्यवे॑ रि॒पवे॑ दु॒च्छुना॑यै ।
मा द॒त्वते॒ दश॑ते॒ मादते॑ नो॒ मा रीष॑ते सहसाव॒न्परा॑ दाः ॥

06 वि घ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि घ॒ त्वावाँ॑ ऋतजात यंसद्गृणा॒नो अ॑ग्ने त॒न्वे॒३॒॑ वरू॑थम् ।
विश्वा॑द्रिरि॒क्षोरु॒त वा॑ निनि॒त्सोर॑भि॒ह्रुता॒मसि॒ हि दे॑व वि॒ष्पट् ॥

07 त्वं ताँ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं ताँ अ॑ग्न उ॒भया॒न्वि वि॒द्वान्वेषि॑ प्रपि॒त्वे मनु॑षो यजत्र ।
अ॒भि॒पि॒त्वे मन॑वे॒ शास्यो॑ भूर्मर्मृ॒जेन्य॑ उ॒शिग्भि॒र्नाक्रः ॥

08 अवोचाम निवचनान्यस्मिन्मानस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अवो॑चाम नि॒वच॑नान्यस्मि॒न्मान॑स्य सू॒नुः स॑हसा॒ने अ॒ग्नौ ।
व॒यं स॒हस्र॒मृषि॑भिः सनेम वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥