१८८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘समिद्धो अद्य’ इत्येकादशर्चं नवमं सूक्तमागस्त्यं सर्वं गायत्रम् । समिद्धाग्नितनूनपादादयः एकादश प्रत्यृचं देवताः। यास्केन ‘किंदेवताः प्रयाजाः’ इत्युपक्रम्य ‘आग्नेयाः प्रयाजा ऋतुदेवताश्छन्दोदेवताः पशुदेवताः प्राणदेवताः आत्मदेवताः’ इत्यादिना बहून् पक्षानुपन्यस्य ब्राह्मणानि च प्रदर्श्य आग्नेया एव इति सिद्धान्तितम् ( निरु. ८. २२ )। ‘समिद्ध अप्रियः’ इत्यनुक्रान्तम् । पशौ अगस्त्यानामेकादशप्रयाजरूपम् इदमाप्रीसूक्तम् ॥

Jamison Brereton

188
Āprī
Agastya Maitrāvaruṇi
11 verses: gāyatrī
Like the other nine Āprī hymns in the R̥gveda, this one treats a set series of sacrifi cial elements in a set order, using the same key words, italicized in translation. It is not as bare-bones as some examples of the genre (such as I.14, the first in the text), and phraseologically it closely resembles X.110.

Jamison Brereton Notes

Āprī The beginning of this hymn is preoccupied with “thousands” (1b, 2c, 3c, 4b).

01 समिद्धो अद्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓मिद्धो अद्य᳓ राजसि
देवो᳓ देवइः᳓ सहस्रजित्
दूतो᳓ हव्या᳓ कवि᳓र् वह

02 तनूनपादृतं यते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓नूनपाद् ऋतं᳓ यते᳓
म᳓ध्वा यज्ञः᳓ स᳓म् अज्यते
द᳓धत् सहस्रि᳓णीर् इ᳓षः

03 आजुह्वानो न - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आजु᳓ह्वानो न ई᳓डियो
देवाँ᳓ आ᳓ वक्षि यज्ञि᳓यान्
अ᳓ग्ने सहस्रसा᳓ असि

04 प्राचीनं बर्हिरोजसा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्राची᳓नम् बर्हि᳓र् ओ᳓जसा
सह᳓स्रवीरम् अस्तृणन्
य᳓त्रादित्या विरा᳓जथ

05 विरात् सम्राड्विभ्वीः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

विरा᳓ट् सम्रा᳓ड् विभ्वीः᳓ प्रभ्वी᳓र्
बह्वी᳓श् च भू᳓यसीश् च याः᳓
दु᳓रो घृता᳓नि अक्षरन्

06 सुरुक्मे हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सुरुक्मे᳓ हि᳓ सुपे᳓शसा
अ᳓धि श्रिया᳓ विरा᳓जतः
उषा᳓साव् ए᳓ह᳓ सीदताम्

07 प्रथमा हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्रथमा᳓ हि᳓ सुवा᳓चसा
हो᳓तारा दइ᳓विया कवी᳓
यज्ञं᳓ नो यक्षताम् इम᳓म्

08 भारतीळे सरस्वति - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

भा᳓रती᳓ळे स᳓रस्वति
या᳓ वः स᳓र्वा उपब्रुवे᳓
ता᳓ नश् चोदयत श्रिये᳓

09 त्वष्था रूपाणि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्व᳓ष्टा रूपा᳓णि हि᳓ प्रभुः᳓
पशू᳓न् वि᳓श्वान् समानजे᳓
ते᳓षां न स्फाति᳓म् आ᳓ यज

10 उप त्मन्या - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓प त्म᳓न्या वनस्पते
पा᳓थो देवे᳓भियः सृज
अग्नि᳓र् हव्या᳓नि सिष्वदत्

11 पुरोगा अग्निर्देवानाम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पुरोगा᳓ अग्नि᳓र् देवा᳓नां
गायत्रे᳓ण स᳓म् अज्यते
स्वा᳓हाकृतीषु रोचते