१८४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं बेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

द्वितीयाष्टकमध्यस्थश्चतुर्थोऽध्याय आदरात् ।

व्याख्यातः सायणार्येण पञ्चमी व्याकरिष्यते ।।

तत्र ‘ता वाम्’ इतीदं प्रथममण्डलस्य चतुर्विंशेऽनुवाके पञ्चमं सूक्तम् । पूर्वसूक्ते ’ षट् ’ इत्युक्तत्वात् ‘सूक्तसंख्यानुवर्तते ’ इति परिभाषितत्वात् षडृचम् । ‘ऋषिश्चान्यस्मात् ’ इति परिभाषया अगस्त्यम् । तथा ’ आश्विनं वै’ इत्युक्तत्वात् तुह्यादिपरिभाषया इदमप्याश्विनम् । अनादेशपरिभाषया त्रैष्टुभम् । ‘ता वाम्’ इत्यनुक्रान्तम् ।’ युवो रजांसि ’ इत्यादीनां पञ्च सूक्तानां तृतीयवर्जितानां प्रातरनुवाकाश्विनशस्त्रयोर्विनियोग उक्तः । तत्रेदं पञ्चमम् ॥

Jamison Brereton

184
Aśvins
Agastya Maitrāvaruṇi
6 verses: triṣṭubh
This last hymn in Agastya’s series to the Aśvins is a symmetrically shaped five-verse composition, since the final verse (6) is simply repeated from the previous hymn (183.6). The first two verses call the gods to the sacrifice and urge them to enjoy the sacrifice and be attentive to the poet. Verses 4–5 return to the scene of the sacrifice, requesting that the gifts and attention of the Aśvins be directed to us, not to others (vs. 4), while verse 5 contains a common type of summary of the hymn in which it’s found, announcing its completion (5ab), and ends with the Aśvins in the company of Agastya (5d). The poet’s positioning of his own name directly adjacent to that of the Aśvins (voc. Nāsatya) in the final pāda of this series was surely deliberate.
The middle verse (3) makes a brief detour into mythology: the participation of the Aśvins in the bridal journey of Sūryā, Daughter of the Sun (5ab). The verse is addressed, in the first instance, to Pūṣan, who also participates in this episode elsewhere. Several obscure images are found in this verse—the simile comparing the Aśvins to arrow-makers (3a) and the journey of their lead horses (3cd) with the well-nigh-impenetrable simile involving “vast Varuṇa,” which may refer to the sea and reflect the generally later association of Varuṇa with waters. These difficulties are, of course, appropriate to a structurally isolated middle verse.

Jamison Brereton Notes

Aśvins

01 ता वामद्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ता᳓ वाम् अद्य᳓ ता᳓व् अपरं᳓ हुवेम
उछ᳓न्तियाम् उष᳓सि व᳓ह्निर् उक्थइः᳓
ना᳓सतिया कु᳓ह चित् स᳓न्ताव् अर्यो᳓
दिवो᳓ न᳓पाता सुदा᳐᳓स्तराय

02 अस्मे ऊ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अस्मे᳓ ऊ षु᳓ वृषणा मादयेथाम्
उ᳓त् पणीँ᳓र् हतम् ऊर्मिया᳓ म᳓दन्ता
श्रुत᳓म् मे अ᳓छउक्तिभिर् मतीना᳓म्
ए᳓ष्टा नरा नि᳓चेतारा च क᳓र्णैः

03 श्रिये पूषन्निषुकृतेव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

श्रिये᳓ पूषन्न् इषुकृ᳓तेव देवा᳓
ना᳓सतिया वहतुं᳓ सूरिया᳓याः
वच्य᳓न्ते वां ककुहा᳓ अप्सु᳓ जाता᳓
युगा᳓ जूर्णे᳓व व᳓रुणस्य भू᳓रेः

04 अस्मे सा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अस्मे᳓ सा᳓ वाम् माधुवी राति᳓र् अस्तु
स्तो᳓मं हिनोतम् मानिय᳓स्य कारोः᳓
अ᳓नु य᳓द् वां श्रवसि᳓या सुदानू
सुवी᳓र्याय चर्षण᳓यो म᳓दन्ति

05 एष वाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एष᳓ वां स्तो᳓मो अश्विनाव् अकारि
मा᳓नेभिर् · मघवाना सुवृक्ति᳓
यातं᳓ वर्ति᳓स् त᳓नयाय त्म᳓ने च
अग᳓स्तिये नासतिया म᳓दन्ता

06 अतारिष्म तमसस्पारमस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓तारिष्म त᳓मसस् पार᳓म् अस्य᳓
प्र᳓ति वां स्तो᳓मो अश्विनाव् अधायि
ए᳓ह᳓ यातम् पथि᳓भिर् देवया᳓नैर्
विद्या᳓मेषं᳓ वृज᳓नं जीर᳓दानुम्