१८३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘तं युञ्जाथाम्’ इति षडृचं चतुर्थं सूक्तं त्रैष्टुभमागस्त्यमाश्विनम् ॥

Jamison Brereton

183
Aśvins
Agastya Maitrāvaruṇi
6 verses: triṣṭubh
A simple and straightforward hymn, especially in comparison with the first two of Agastya’s Aśvin hymns (I.180–181), almost entirely concerned with the Aśvins’ chariot and their journey to the sacrifice. In this hymn they travel with Dawn (vs. 2). The dangers of the journey and their possible neglect of us are briefly touched on (vs. 4ab), but with little anxiety, before the offerings are announced to them.

Jamison Brereton Notes

Aśvins

01 तं युञ्जाथाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तं यु॑ञ्जाथां॒ मन॑सो॒ यो जवी॑यान्त्रिवन्धु॒रो वृ॑षणा॒ यस्त्रि॑च॒क्रः ।
येनो॑पया॒थः सु॒कृतो॑ दुरो॒णं त्रि॒धातु॑ना पतथो॒ विर्न प॒र्णैः ॥

02 सुवृद्रथो वर्तते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सु॒वृद्रथो॑ वर्तते॒ यन्न॒भि क्षां यत्तिष्ठ॑थः॒ क्रतु॑म॒न्तानु॑ पृ॒क्षे ।
वपु॑र्वपु॒ष्या स॑चतामि॒यं गीर्दि॒वो दु॑हि॒त्रोषसा॑ सचेथे ॥

03 आ तिष्टतम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ ति॑ष्ठतं सु॒वृतं॒ यो रथो॑ वा॒मनु॑ व्र॒तानि॒ वर्त॑ते ह॒विष्मा॑न् ।
येन॑ नरा नासत्येष॒यध्यै॑ व॒र्तिर्या॒थस्तन॑याय॒ त्मने॑ च ॥

04 मा वाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मा वां॒ वृको॒ मा वृ॒कीरा द॑धर्षी॒न्मा परि॑ वर्क्तमु॒त माति॑ धक्तम् ।
अ॒यं वां॑ भा॒गो निहि॑त इ॒यं गीर्दस्रा॑वि॒मे वां॑ नि॒धयो॒ मधू॑नाम् ॥

05 युवां गोतमः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यु॒वां गोत॑मः पुरुमी॒ळ्हो अत्रि॒र्दस्रा॒ हव॒तेऽव॑से ह॒विष्मा॑न् ।
दिशं॒ न दि॒ष्टामृ॑जू॒येव॒ यन्ता मे॒ हवं॑ नास॒त्योप॑ यातम् ॥

06 अतारिष्म तमसस्पारमस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॑ वां॒ स्तोमो॑ अश्विनावधायि ।
एह या॑तं प॒थिभि॑र्देव॒यानै॑र्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥