१८२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘अभूदिदम्’ इत्यष्टर्चं तृतीयं सूक्तम् आश्विनं जागतम् । “ अवविद्धम्’ इति षष्ठी ‘तद्वां नरा नासत्यौ’ इत्यष्टमी च उभे त्रिष्टुभौ । ‘अभूदिदमष्टौ षष्ठ्यन्त्ये त्रिष्टुभौ’ इत्यनुक्रमणिका । प्रातरनुवाकाश्विनशस्त्रयोर्जागते छन्दस्यस्य विनियोगः । तथा च सूत्रितम्- ‘अभूदिदं यो वां परिज्मेति त्रीणि ( आश्व. श्रौ. ४. १५ ) इति ॥ ।

Jamison Brereton

182
Aśvins
Agastya Maitrāvaruṇi
8 verses: jagatī, except triṣṭubh 6, 8
The hymn begins (vs. 1) by addressing the ritual participants (in the plural) and announcing the Aśvins to them; the poet then addresses the Aśvins themselves with extravagant praise (vs. 2), but in the next verse (3) he expresses some impatience with them: why are the gods wasting their time with a non-sacrificer? They should destroy such people and reward us, the faithful sacrificers and poets (vss. 3–4). The “baying hounds” of verse 4 may well be a reference to rival poets.
Most of the remainder of the hymn (vss. 5–7) is devoted to the tale of Bhujyu, son of Tugra, whom the Aśvins rescued with a marvelous boat (or boats) when he was set adrift in the sea. This exploit was alluded to briefly by Agastya in I.180.5 and is treated several times in Kakṣīvant’s Aśvin hymns (esp. I.116.3–5, I.117.14–
15) as well as elsewhere in the R̥gveda.
The final verse (8) is a typical summary verse, referring to the poem just recited and ending with the Agastya refrain.

Jamison Brereton Notes

Aśvins

01 अभूदिदं वयुनमो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓भूद् इदं᳓ वयु᳓नम् ओ᳓ षु᳓ भूषता
र᳓थो वृ᳓षण्वान् म᳓दता मनीषिणः
धियंजिन्वा᳓ धि᳓ष्णिया विश्प᳓लावसू
दिवो᳓ न᳓पाता सुकृ᳓ते शु᳓चिव्रता

02 इन्द्रतमा हि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रतमा हि᳓ धि᳓ष्णिया मरु᳓त्तमा
दस्रा᳓ दं᳓सिष्ठा रथि᳓या रथी᳓तमा
पूर्णं᳓ र᳓थं वहेथे म᳓ध्व आ᳓चितं
ते᳓न दाश्वां᳓सम् उ᳓प याथो अश्विना

03 किमत्र दस्रा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

कि᳓म् अ᳓त्र दस्रा कृणुथः कि᳓म् आसथे°
ज᳓नो यः᳓ क᳓श् चिद् अ᳓हविर् महीय᳓ते
अ᳓ति क्रमिष्टं जुर᳓तम् पणे᳓र् अ᳓सुं
ज्यो᳓तिर् वि᳓प्राय कृणुतं वचस्य᳓वे

04 जम्भयतमभितो रायतः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

जम्भ᳓यतम् अभि᳓तो रा᳓यतः शु᳓नो
हत᳓म् मृ᳓धो विद᳓थुस् ता᳓नि अश्विना
वा᳓चं-वाचं जरितू᳓ रत्नि᳓नीं कृतम्
उभा᳓ शं᳓सं नासतियावतम् म᳓म

05 युवमेतं चक्रथुः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

युव᳓म् एतं᳓ चक्रथुः सि᳓न्धुषु प्लव᳓म्
आत्मन्व᳓न्तम् पक्षि᳓णं तौग्रिया᳓य क᳓म्
ये᳓न देवत्रा᳓ म᳓नसा निरूह᳓थुः
सुपप्तनी᳓ पेतथुः क्षो᳓दसो महः᳓

06 अवविद्धं तौग्र्यमप्स्वट्न्तरनारम्भणे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓वविद्धं तौग्रिय᳓म् अप्सु᳓ अन्त᳓र्
अनारम्भणे᳓ त᳓मसि प्र᳓विद्धम्
च᳓तस्रो ना᳓वो ज᳓ठलस्य जु᳓ष्टा
उ᳓द् अश्वि᳓भ्याम् इषिताः᳓ पारयन्ति

07 कः स्विद्वृक्षो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

कः᳓ स्विद् वृक्षो᳓ नि᳓ष्ठितो म᳓ध्ये अ᳓र्णसो
यं᳓ तौग्रियो᳓ नाधितः᳓ पर्य᳓षस्वजत्
पर्णा᳓ मृग᳓स्य पत᳓रोर् इवार᳓भ
उ᳓द् अश्विना ऊहथुः श्रो᳓मताय क᳓म्

08 तद्वां नरा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓द् वां नरा नासतियाव् अ᳓नु ष्याद्
य᳓द् वाम् मा᳓नास उच᳓थम् अ᳓वोचन्
अस्मा᳓द् अद्य᳓ स᳓दसः सोमिया᳓द् आ᳓
विद्या᳓मेषं᳓ वृज᳓नं जीर᳓दानुम्