१७५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘मत्स्यपायि’ इति षडृचमेकादशं सूक्तमागस्त्यमैन्द्रम् । आद्या स्कन्धोग्रीवी बृहती द्वितीयपादस्य द्वादशाक्षरत्वादितरेषां त्रयाणामष्टाक्षरत्वाच्च । ‘द्वितीयश्चेन्न्यङ्कुसारिण्युरोबृहती वा स्कन्धोग्रीवी वा ’ ( अनु. ७.३) इत्युक्तलक्षणसद्भावात् । अन्त्या त्रिष्टुप् । शिष्टास्त्रिष्टुबन्तपरिभाषायाः ‘आनुष्टुभं तु’ इति विशेषवचनेनापोदितत्वादनुष्टुभः । ‘मत्सि षळानुष्टुभं तु त्रिष्टुबन्तं त्वाद्या स्कन्धोग्रीवी’ इत्यनुक्रान्तम् । द्वितीये स्वरसाम्नि आद्यस्तृचः स्तोत्रियः ।“ अभिजिद्बृहत्पृष्ठः’ इति खण्डे सूत्रितं- मत्स्यपायि ते मह एमेनं प्रत्येतन’ ( आश्व. श्रौ. ८. ५) इति ॥

Jamison Brereton

175
Indra
Agastya Maitrāvaruṇi
6 verses: anuṣṭubh, except skhandogrīvī 1, triṣṭubh 6
The shorter compass of dimeter meter (vss. 1–5) seems to cramp Agastya’s style somewhat. The most obvious device in this hymn is the relentless repetition of forms derived from a very few roots: mad “become exhilarated” (vss. 1, 2, 5), sah “be victorious” (vss. 2–3), san/sā “win” (vss. 1, 2, 3, 5). These three roots create an inescapable poetic logic of cause (exhilaration) and effect (conquer [enemies] and win [prizes]), but the effect is still rather clumsy.
Verse 4 stands out as the exception, as it contains no forms of any of the signa ture roots, and it compresses within it a whole mythological complex: the stealing of the wheel of the Sun, and the involvement of Kutsa, the horses of the Wind, and, by implication, Uśanā Kāvya in that obscure story—a myth also alluded to in the preceding hymn (I.174.5, 7, as well as often elsewhere, e.g., I.130.9).
One other feature is worthy of note: the image in verse 3cd, of Indra “firing” the Dasyu like a piece of pottery.

Jamison Brereton Notes

Indra

01 मत्स्यपायि ते - स्कन्धोग्रीवी बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

म᳓त्सि अ᳓पायि ते म᳓हः
पा᳓त्रस्येव हरिवो मत्सरो᳓ म᳓दः
वृ᳓षा ते वृ᳓ष्ण इ᳓न्दुर्
वाजी᳓ सहस्रसा᳓तमः

02 आ नस्ते - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नस् ते गन्तु मत्सरो᳓
वृ᳓षा म᳓दो व᳓रेणियः
सहा᳓वाँ इन्द्र सानसिः᳓
पृतनाषा᳓ळ् अ᳓मर्तियः

03 त्वं हि - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ हि᳓ शू᳓रः स᳓निता
चोद᳓यो म᳓नुषो र᳓थम्
सहा᳓वान् द᳓स्युम् अव्रत᳓म्
ओ᳓षः पा᳓त्रं न᳓ शोचि᳓षा

04 मुषाय सूर्यम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मुषाय᳓ सू᳓रियं कवे
चक्र᳓म् ई᳓शान ओ᳓जसा
व᳓ह शु᳓ष्णाय वधं᳓
कु᳓त्सं वा᳐᳓तस्य अ᳓श्वैः

05 शुष्मिन्तमो हि - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शुष्मि᳓न्तमो हि᳓ ते म᳓दो
द्युम्नि᳓न्तम उत᳓ क्र᳓तुः
वृत्रघ्ना᳓ वरिवोवि᳓दा
मंसीष्ठा᳓ अश्वसा᳓तमः

06 यथा पूर्वेभ्यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓था पू᳓र्वेभ्यो जरितृ᳓भ्य इन्द्र
म᳓यो ऽवा᳓पो° न᳓ तृ᳓ष्यते बभू᳓थ
ता᳓म् अ᳓नु त्वा निवि᳓दं जोहवीमि
विद्या᳓मेषं᳓ वृज᳓नं जीर᳓दानुम्